मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ३८

3
रुद्रसंहिता · युद्धखण्डः · 38

सा च गत्वा हि संग्रामं सिंहनादं चकार ह

सनत्कुमार उवाच

सा च गत्वा हि संग्रामं सिंहनादं चकार ह ।

देव्याश्च तेन नादेन मूर्च्छामापुश्च दानवाः

॥१॥

अट्टाट्टहासमशिवं चकार च पुनः पुनः ।

तदा पपौ च माध्वीकं ननर्त रणमूर्द्धनि

॥२॥

उग्रदंष्ट्रा चोग्रदंडा कोटवी च पपौ मधु ।

अन्याश्च देव्यस्तत्राजौ ननृतुर्मधु संपपुः

॥३॥

महान् कोलाहलो जातो गणदेवदले तदा ।

जहृषुर्बहुगर्जंतस्सर्वे सुरगणादयः

॥४॥

दृष्ट्वा कालीं शंखचूडश्शीघ्रमाजौ समाययौ ।

दानवाश्च भयं प्राप्ता राजा तेभ्योऽभयं ददौ

॥५॥

काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम् ।

राजा जघान तं शीघ्रं वैष्णवांकितलीलया

॥६॥

नारायणास्त्रं सा देवी चिक्षेप तदुपर्यरम् ।

वृद्धिं जगाम तच्छस्त्रं दृष्ट्वा वामं च दानवम्

॥७॥

तं दृष्ट्वा शंखचूडश्च प्रलयाग्निशिखोपमम् ।

पपात दंडवद्भूमौ प्रणनाम पुनःपुनः

॥८॥

निवृत्तिं प्राप तच्छ्स्त्रं दृष्ट्वा नम्रं च दानवम् ।

ब्रह्मास्त्रमथ सा देवी चिक्षेप मंत्रपूर्वकम्

॥९॥

तं दृष्ट्वा प्रज्ज्वलंतं च प्रणम्य भुवि संस्थितः ।

ब्रह्मास्त्रेण दानवेन्द्रो विनिवारं चकार ह

॥१०॥

अथ क्रुद्धो दानवेन्द्रो धनुराकृष्य रंहसा ।

चिक्षेप दिव्यान्यस्त्राणि देव्यै वै मंत्रपूर्वकम्

॥११॥

आहारं समरे चक्रे प्रसार्य मुखमायतम् ।

जगर्ज साट्टहासं च दानवा भयमाययुः

॥१२॥

काल्यै चिक्षेप शक्तिं स शतयोजनमायताम् ।

देवी दिव्यास्त्रजालेन शतखंडं चकार सा

॥१३॥

स च वैष्णवमस्त्रं च चिक्षेप चंडिकोपरि ।

माहेश्वरेण काली च विनिवारं चकार सा

॥१४॥

एवं चिरतरं युद्धमन्योन्यं संबभूव ह ।

प्रेक्षका अभवन्सर्वे देवाश्च दानवा अपि

॥१५॥

अथ कुद्धा महादेवी काली कालसमा रणे ।

जग्राह मन्त्रपूतं च शरं पाशुपतं रुषा

॥१६॥

क्षेपात्पूर्वं तन्निषेद्धुं वाग्बभूवाशरीरिणी ।

न क्षिपास्त्रमिदं देवि शंखचूडाय वै रुषा

॥१७॥

मृत्युः पाशुपतान्नास्त्यमोघादपि च चंडिके ।

शंखचूडस्य वीरस्योपायमन्यं विचारय

॥१८॥

इत्याकर्ण्य भद्रकाली न चिक्षेप तदस्त्रकम् ।

शतलक्षं दानवानां जघास लीलया क्षुधा

॥१९॥

अत्तुं जगाम वेगेन शंखचूडं भयंकरी ।

दिव्यास्त्रेण च रौद्रेण वारयामास दानवः

॥२०॥

अथ क्रुद्धो दानवेन्द्रः खड्गं चिक्षेप सत्वरम् ।

ग्रीष्मसूर्योपमं तीक्ष्णधारमत्यंतभीकरम्

॥२१॥

सा काली तं समालोक्यायांतं प्रज्वलितं रुषा ।

प्रसार्य मुखमाहारं चक्रे तस्य च पश्यतः

॥२२॥

दिव्यान्यस्त्राणि चान्यानि चिच्छेद दानवेश्वरः ।

प्राप्तानि पूर्वतश्चक्रे शतखंडानि तानि च

॥२३॥

पुनरत्तुं महादेवी वेगतस्तं जगाम ह ।

सर्वसिद्धेश्वरः श्रीमानंतर्धानं चकार सः

॥२४॥

वेगेन मुष्टिना काली तमदृष्ट्वा च दानवम् ।

बभंज च रथं तस्य जघान किल सारथिम्

॥२५॥

अथागत्य द्रुतं मायी चक्रं चिक्षेप वेगतः ।

भद्रकाल्यै शंखचूडः प्रलयाग्निशिखो पमम्

॥२६॥

सा देवी तं तदा चक्रं वामहस्तेन लीलया ।

जग्राह स्वमुखेनैवाहारं चक्रे रुषा द्रुतम्

॥२७॥

मुष्ट्या जघान तं देवी महाकोपेन वेगतः ।

बभ्राम दानवेन्द्रोपि क्षणं मूर्च्छामवाप सः

॥२८॥

क्षणेन चेतनां प्राप्य स चोत्तस्थौ प्रतापवान् ।

न चक्रे बाहु युद्धं च मातृबुद्ध्या तया सह

॥२९॥

गृहीत्वा दानवं देवी भ्रामयित्वा पुनःपुनः ।

ऊर्द्ध्वं च प्रापयामास महाकोपेन वेगतः

॥३०॥

उत्पपात च वेगेन शंखचूडः प्रतापवान् ।

निपत्य च समुत्तस्था प्रणम्य भद्रकालिकाम्

॥३१॥

रत्नेन्द्रसारनिर्माणविमानं सुमनो हरम् ।

आरुरोह स हृष्टात्मा न भ्रान्तोपि महारणे

॥३२॥

दानवानां हि क्षतजं सा पपौ कालिका क्षुधा ।

एतस्मिन्नंतरे तत्र वाग्वभूवाशरीरिणी

॥३३॥

लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना ।

उद्धतं गुञ्जतां सार्द्धं ततस्त्वं भुंक्ष्व चेश्वरि

॥३४॥

संग्रामे दानवेन्द्रं च हंतुं न कुरु मानसम् ।

अवध्योयं शंखचूडस्तव देवीति निश्चयम्

॥३५॥

तच्छुत्वा वचनं देवी निःसृतं व्योममंडलात् ।

दानवानां बहूनां च मांसं च रुधिरं तथा

॥३६॥

भुक्त्वा पीत्वा भद्रकाली शंकरांतिकमाययौ ।

उवाच रणवृत्तांतं पौर्वापर्येण सक्रमम्

॥३७॥

इति श्रीशिवमहापुराणे द्वि० रुद्रसं०पं०युद्धखंडे शंखचूडवधे कालीयुद्धवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥