मृतसंजीविनीविद्याप्राप्तिवर्णनम्
सनत्कुमार उवाच
शृणु व्यास यथा प्राप्ता मृत्युप्रशमनी परा ।
विद्या काव्येन मुनिना शिवान्मृत्युञ्जयाभिधात्
॥१॥पुरासौ भृगुदायादो गत्वा वाराणसीं पुरीम् ।
बहुकालं तपस्तेपे ध्यायन्विश्वेश्वरं प्रभुम्
॥२॥स्थापयामास तत्रैव लिंगं शंभोः परात्मनः ।
कूपं चकार सद्रम्यं वेदव्यास तदग्रतः
॥३॥पंचामृतैर्द्रोणमितैर्लक्षकृत्वः प्रयत्नतः ।
स्नापयामास देवेशं सुगंधस्नपनैर्बहु
॥४॥सहस्रकृत्वो देवेशं चन्दनैर्यक्षकर्दमैः ।
समालिलिंप सुप्रीत्या सुगन्धोद्वर्त्तनान्यनु
॥५॥राजचंपकधत्तूरैः करवीरकुशेशयैः ।
मालतीकर्णिकारैश्च कदंबैर्बकुलोत्पलैः
॥६॥मल्लिकाशतपत्रीभिस्सिंधुवारैस्सकिंशुकः ।
बन्धूकपुष्पैः पुन्नागैर्नागकेशरकेशरैः
॥७॥नवमल्लीचिबिलिकैः कुंदैस्समुचुकुन्दकैः ।
मन्दारैर्बिल्वपत्रैश्च द्रोणैर्मरुबकैर्वृकैः ।
ग्रन्थिपर्णैर्दमनकैः सुरम्यैश्चूतपल्लवैः
॥८॥तुलसीदेवगंधारीबृहत्पत्रीकुशांकुरैः ।
नद्यावर्तैरगस्त्यैश्च सशालैर्देवदारुभिः
॥९॥कांचनारैः कुरबकैर्दूर्वांकुरकुरुंटकैः ।
प्रत्येकमेभिः कुसुमैः पल्लवैरपरैरपि ।
पत्रैः सहस्रपत्रैश्च रम्यैर्नानाविधैश्शुभैः ।
सावधानेन सुप्रीत्या स समानर्च शंकरम्
॥११॥गीतनृत्योपहारैश्च संस्तुतः स्तुतिभिर्बहु ।
नाम्नां सहस्रैरन्यैश्च स्तोत्रैस्तुष्टाव शंकरम्
॥१२॥सहस्रं पञ्चशरदामित्थं शुक्रो महेश्वरम् ।
नानाप्रकारविधिना महेशं स समर्चयत् ।
यदा देवं नानुलोके मनागपि वरोन्मुखम् ।
तदान्यं नियमं घोरं जग्राहातीव दुस्सहम्
॥१४॥प्रक्षाल्य चेतसोऽत्यंतं चांचल्याख्यं महामलम् ।
भावनावार्भिरसकृदिंद्रियैस्सहितस्य च
॥१५॥निर्मलीकृत्य तच्चेतो रत्नं दत्त्वा पिनाकिने ।
प्रययौ कणधूमौघं सहस्रं शरदां कविः
॥१६॥काव्यमित्थं तपो घोरं कुर्वन्तं दृढमानसम् ।
प्रससाद स तं वीक्ष्य भार्गवाय महेश्वरः
॥१७॥तस्माल्लिंगाद्विनिर्गत्य सहस्रार्काधिकद्युतिः ।
उवाच तं विरूपाक्षस्साक्षाद्दाक्षायणीपतिः
॥१८॥महेश्वर उवाच
तपोनिधे महाभाग भृगुपुत्र महामुने ।
तपसानेन ते नित्यं प्रसन्नोऽहं विशेषतः
॥१९॥मनोभिलषितं सर्वं वरं वरय भार्गव ।
प्रीत्या दास्येऽखिलान्कामान्नादेयं विद्यते तव
॥२०॥सनत्कुमार उवाच
निशम्येति वचश्शंभोर्महासुखकरं वरम् ।
स बभूव कविस्तुष्टो निमग्नस्सुखवारिधौ
॥२१॥उद्यदानंदसंदोह रोमांचाचितविग्रहः ।
प्रणनाम मुदा शंभुमंभो जनयनो द्विजः
॥२२॥तुष्टावाष्टतनुं तुष्टः प्रफुल्लनयनाचलः ।
मौलावंजलिमाधाय वदञ्जयजयेति च
॥२३॥भार्गव उवाच
त्वं भाभिराभिरभिभूय तमस्समस्तमस्तं नयस्यभिमतानि निशाचराणाम् ।
देदीप्यसे दिवमणे गगने हिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते
॥२४॥लोकेऽतिवेलमतिवेलमहामहोभिर्निर्भासि कौ च गगनेऽखिललोकनेत्रः ।
विद्राविताखिलतमास्सुतमो हिमांशो पीयूष पूरपरिपूरितः तन्नमस्ते
॥२५॥त्वं पावने पथि सदागतिरप्युपास्यः कस्त्वां विना भुवनजीवन जीवतीह ।
स्तब्धप्रभंजनविवर्द्धि तसर्वजंतोः संतोषिता हि कुलसर्वगः वै नमस्ते
॥२६॥विश्वेकपावक न तावकपावकैकशक्तेर्ऋते मृतवतामृतदिव्यकार्यम् ।
प्राणिष्यदो जगदहो जगदंतरात्मंस्त्वं पावकः प्रतिपदं शमदो नमस्ते
॥२७॥पानीयरूप परमेश जगत्पवित्र चित्रविचित्रसुचरित्रकरोऽसि नूनम् ।
विश्वं पवित्रममलं किल विश्वनाथ पानीयगाहनत एतदतो नतोऽस्मि
॥२८॥आकाशरूपबहिरंतरुतावकाशदानाद्विकस्वरमिहेश्वर विश्वमेतत् ।
त्वत्तस्सदा सदय संश्वसिति स्वभावात्संकोचमेति भक्तोऽस्मि नतस्ततस्त्वाम्
॥२९॥विश्वंभरात्मक बिभर्षि विभोत्र विश्वं को विश्वनाथ भवतोऽन्यतमस्तमोरिः ।
स त्वं विनाशय तमो तम चाहिभूषस्तव्यात्परः परपरं प्रणतस्ततस्त्वाम्
॥३०॥आत्मस्वरूप तव रूपपरंपराभिराभिस्ततं हर चराचररूपमेतत् ।
सर्वांतरात्मनिलयप्रतिरूपरूप नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते
॥३१॥इत्यष्टमूर्तिभिरिमाभिरबंधबंधो युक्तौ करोषि खलु विश्वजनीनमूर्त्ते ।
एतत्ततं सुविततं प्रणतप्रणीत सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि
॥३२॥सनत्कुमार उवाच
अष्टमूर्त्यष्टकेनेत्थं परिष्टुत्येति भार्गवः ।
भर्गं भूमिमिलन्मौलिः प्रणनाम पुनःपुनः
॥३३॥इति स्तुतो महादेवो भार्गवेणातितेजसा ।
उत्थाय भूमेर्बाहुभ्यां धृत्वा तं प्रणतं द्विजम्
॥३४॥उवाच श्लक्ष्णया वाचा मेघनादगभीरया ।
सुप्रीत्या दशनज्योत्स्ना प्रद्योतितदिंगतरः
॥३५॥महादेव उवाच
विप्रवर्य कवे तात मम भक्तोऽसि पावनः ।
अनेनात्युग्रतपसा स्वजन्याचरितेन च
॥३६॥लिंगस्थापनपुण्येन लिंगस्याराधनेन च ।
दत्तचित्तोपहारेण शुचिना निश्चलेन च
॥३७॥अविमुक्तमहाक्षेत्रपवित्राचरणेन च ।
त्वां सुताभ्यां प्रपश्यामि तवादेयं न किंचन
॥३८॥अनेनैव शरीरेण ममोदरदरीगतः ।
मद्वरेन्द्रियमार्गेण पुत्रजन्मत्वमेष्यसि
॥३९॥यच्छाम्यहं वरं तेऽद्य दुष्प्राप्यं पार्षदैरपि ।
हरेर्हिरण्यगर्भाच्च प्रायशोहं जुगोप यम्
॥४०॥मृतसंजीवनी नाम विद्या या मम निर्मला ।
तपोबलेन महता मयैव परिनिर्मिता ।
त्वां तां तु प्रापयाम्यद्य मंत्ररूपां महाशुचे ।
योग्यता तेऽस्ति विद्यायास्तस्याश्शुचि तपोनिधे
॥४२॥यंयमुद्दिश्य नियतमेतामावर्तयिष्यसि ।
विद्यां विद्येश्वरश्रेष्ठं सत्यं प्राणि ष्यति धुवम्
॥४३॥अत्यर्कमत्यग्निं च ते तेजो व्योम्नि च तारकम् ।
देदीप्यमानं भविता ग्रहाणां प्रवरो भव
॥४४॥अपि च त्वां करिष्यंति यात्रां नार्यो नरोऽपि वा ।
तेषां त्वद्दृष्टिपातेन सर्वकार्यं प्रणश्यति
॥४५॥तवोदये भविष्यंति विवाहादीनि सुव्रत ।
सर्वाणि धर्मकार्याणि फलवंति नृणामिह
॥४६॥सर्वाश्च तिथयो नन्दास्तव संयोगतश्शुभाः ।
तव भक्ता भविष्यंति बहुशुक्रा बहु प्रजाः
॥४७॥त्वयेदं स्थापितं लिंगं शुक्रेशमिति संज्ञितम् ।
येऽर्चयिष्यंति भनुजास्तेषां सिद्धिर्भविष्यति
॥४८॥आवर्षं प्रतिघस्रां ये नक्तव्रतपरायणाः ।
त्वद्दिने शुक्रकूपे ये कृतसर्वोदकक्रियाः
॥४९॥शुक्रेशमर्चयिष्यंति शृणु तेषां तु यत्फलम् ।
अबंध्यशुक्रास्ते मर्त्याः पुत्रवंतोऽतिरेतसः
॥५०॥पुंस्त्वसौभाग्यसंपन्ना भविष्यंति न संशयः ।
उपेतविद्यास्ते सर्वे जनास्स्युः सुखभागिनः
॥५१॥इति दत्त्वा वरान्देवस्तत्र लिंगे लयं ययौ ।
भार्गवोऽपि निजं धाम प्राप संतुष्टमानसः
॥५२॥इति ते कथितं व्यास यथा प्राप्ता तपोबलात् ।
मृत्युंजयाभिधा विद्या किमन्यच्छ्रोतुमिच्छसि
॥५३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे मृतसंजीविनीविद्याप्राप्तिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥