सनत्कुमार सर्वज्ञ श्राविता सुकथाद्भुता
व्यास उवाच
सनत्कुमार सर्वज्ञ श्राविता सुकथाद्भुता ।
भवतानुग्रहात्प्रीत्या शभ्वनुग्रहनिर्भरा
॥१॥इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ।
गाणपत्यं ददौ प्रीत्या यथा बाणासुराय वै
॥२॥सनत्कुमार उवाच
शृणु व्यासादरात्तां वै कथां शंभोः परात्मनः ।
गाणपत्यं यथा प्रीत्या ददौ बाणा सुराय हि
॥३॥अत्रैव सुचरित्रं च शंकरस्य महाप्रभोः ।
कृष्णेन समरोप्यत्र शंभोर्बाणानुगृह्णतः
॥४॥अत्रानुरूपं शृणु मे शिवलीलान्वितं परम् ।
इतिहासं महापुण्यं मनःश्रोत्रसुखावहम्
॥५॥ब्रह्मपुत्रो मरीचिर्यो मुनिरासीन्महामतिः ।
मानसस्सर्वपुत्रेषु ज्येष्ठः श्रेष्ठः प्रजापतिः
॥६॥तस्य पुत्रो महात्मासीत्कश्यपो मुनिसत्तमः ।
सृष्टिप्रवृद्धकोऽत्यंतं पितुर्भक्तो विधेरपि
॥७॥स्वस्य त्रयोदशमितादक्षकन्या स्सुशीलिकाः ।
कश्यपस्य मुनेर्व्यास पत्न्यश्चासन्पतिव्रताः
॥८॥तत्र ज्येष्ठा दितिश्चासीद्दैत्यास्तत्तनयास्स्मृताः ।
अन्यासां च सुता जाता देवाद्यास्सचराचराः
॥९॥ज्येष्ठायाः प्रथमौ पुत्रौ दितेश्चास्तां महाबलौ ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः
॥१०॥हिरण्यकशिपोः पुत्राश्चत्वारो दैत्यसत्तमाः ।
ह्रादानुह्रादसंह्रादा प्रह्रादश्चेत्यनुक्रमात्
॥११॥प्रह्रादस्तत्र हि महान्विष्णुभक्तो जितेन्द्रियः ।
यं नाशितुं न शक्तास्तेऽभवन्दैत्याश्च केपि ह
॥१२॥विरोचनः सुतस्तस्य महा दातृवरोऽभवत् ।
शक्राय स्वशिरो योऽदाद्याचमानाय विप्रतः
॥१३॥तस्य पुत्रो बलिश्चासीन्महादानी शिवप्रियः ।
येन वामनरूपाय हरयेऽदायि मेदिनी
॥१४॥तस्यौरसः सुतो बाणश्शिवभक्तो बभूव ह ।
मान्यो वदान्यो धीमांश्च सत्यसंधस्स हस्रदः
॥१५॥शोणिताख्ये पुरे स्थित्वा स राज्यमकरोत्पुरा ।
त्रैलोक्यं च बलाञ्ज्जित्वा तन्नाथानसुरेश्वरः
॥१६॥तस्य बाणासुरस्यैव शिवभक्तस्य चामराः ।
शंकरस्य प्रसादेन किंकरा इव तेऽभवन्
॥१७॥तस्य राज्येऽमरान्हित्वा नाभवन्दुःखिताः प्रजाः ।
सापत्न्यादुःखितास्ते हि परधर्मप्रवर्तिनः
॥१८॥सहस्रबाहुवाद्येन स कदाचिन्महासुरः ।
तांडवेन हि नृत्येनातोषयत्तं महेश्वरम्
॥१९॥तेन नृत्येन संतुष्टस्सुप्रसन्नो बभूव ह ।
ददर्श कृपया दृष्ट्या शंकरो भक्तवत्सलः
॥२०॥भगवान्सर्वलोकेश्शशरण्यो भक्तकामदः ।
वरेण च्छंदयामास बालेयं तं महासुरम्
॥२१॥शंकर उवाच
बालेयः स महादैत्यो बाणो भक्तवरस्सुधीः ।
प्रणम्य शंकरं भक्त्या नुनाव परमेश्वरम्
॥२२॥बाणासुर उवाच
देवदेव महादेव शरणागतवत्सल ।
संतुष्टोऽसि महेशान ममोपरि विभो यदि
॥२३॥मद्रक्षको भव सदा मदुपस्थः पुराधिपः ।
सर्वथा प्रीतिकृन्मे हि ससुतस्सगणः प्रभो
॥२४॥सनत्कुमार उवाच
बलिपुत्रस्स वै बाणो मोहितश्शिवमायया ।
मुक्तिप्रदं महेशानं दुराराध्यमपि ध्रुवम्
॥२५॥स भक्तवत्सलः शंभुर्दत्त्वा तस्मै वरांश्च तान् ।
तत्रोवास तथा प्रीत्या सगणस्ससुतः प्रभुः
॥२६॥स कदाचिद्बाणपुरे चक्रे देवासुरैस्सह ।
नदीतीरे हरः क्रीडां रम्ये शोणितकाह्वये
॥२७॥ननृतुर्जहसुश्चापि गंधर्वासरसस्तथा ।
जेयुः प्रणेमुर्मुनय आनर्चुस्तुष्टुवुश्च तम्
॥२८॥ववल्गुः प्रथमास्सर्वे ऋषयो जुहुवुस्तथा ।
आययुः सिद्धसंघाश्च दृदृशुश्शांकरी रतिम्
॥२९॥कुतर्किका विनेशुश्च म्लेच्छाश्च परिपंथिनः ।
मातरोभिमुखास्तस्थुर्विनेशुश्च विभीषिका
॥३०॥रुद्रसद्भावभक्तानां भवदोषाश्च विस्तृताः ।
तस्मिन्दृष्टे प्रजास्सर्वाः सुप्रीतिं परमां ययुः
॥३१॥ववल्गुर्मुनयस्सिद्धाः स्त्रीणां दृष्ट्वा विचेष्टितम् ।
पुपुषुश्चापि ऋतवस्स्वप्रभावं तु तत्र च
॥३२॥ववुर्वाताश्च मृदवः पुष्पकेसरधूसराः ।
चुकूजुः पक्षिसंघाश्च शाखिनां मधुलम्पटाः
॥३३॥पुष्पभारावनद्धानां रारट्येरंश्च कोकिलाः ।
मधुरं कामजननं वनेषूपवनेषु च
॥३४॥ततः क्रीडाविहारे तु मत्तो बालेन्दुशेखरः ।
अनिर्जितेन कामेन दृष्टाः प्रोवाच नन्दिनम्
॥३५॥चन्द्रशेखर उवाच
वामामानय गौरीं त्वं कैलासात्कृतमंडनाम् ।
शीघ्रमस्माद्वनाद्गत्वा ह्युक्त्वाऽकृष्णामिहानय
॥३६॥सनत्कुमार उवाच
स तथेति प्रतिज्ञाय गत्वा तत्राह पार्वतीम् ।
सुप्रणम्य रहो दूतश्शंकरस्य कृतांजलिः
॥३७॥नन्दीश्वर उवाच
द्रष्टुमिच्छति देवि त्वां देवदेवो महेश्वरः ।
स्ववल्लभां रूपकृतां मयोक्तं तन्निदेशतः
॥३८॥सनत्कुमार उवाच
ततस्तद्वचनाद्गौरी मंडनं कर्तुमादरात् ।
उद्यताभून्मुनिश्रेष्ठ पतिव्रतपरायणा
॥३९॥आगच्छामि प्रभुं गच्छ वद तं त्वं ममाज्ञया ।
आजगाम ततो नंदी रुद्रासन्नं मनोगतिः
॥४०॥पुनराह ततो रुद्रो नन्दिनं परविभ्रमः ।
पुनर्गच्छ ततस्तात क्षिप्रमा नय पार्वतीम्
॥४१॥बाढमुक्त्वा स तां गत्वा गौरीमाह सुलोचनाम् ।
द्रष्टुमिच्छति ते भर्ता कृतवेषां मनोरमाम्
॥४२॥शंकरो बहुधा देवि विहर्तुं संप्रतीक्षते ।
एवं पतौ सुकामार्ते गम्यतां गिरिनंदिनि
॥४३॥क्सरोभिस्समग्राभिरन्योन्यमभिमंत्रितम् ।
लब्धभावो यथा सद्यः पार्वत्या दर्शनोत्सुकः
॥४४॥अयं पिनाकी कामारिः वृणुयाद्यां नितंबिनीम् ।
सर्वासां दिव्यनारीणां राज्ञी भवति वै धुवम्
॥४५॥वीक्षणं गौरिरूपेण क्रीडयेन्मन्मथैर्गणैः ।
कामोऽयं हंति कामारिमूचुरन्योन्यमादताः
॥४६॥स्प्रष्टुं शक्नोति या काचिदृते दाक्षायणी स्त्रियम् ।
सा गच्छेत्तत्र निश्शंकं मोहयेत्पार्वतीपतिम्
॥४७॥कूष्मांडतनया तत्र शंकरं स्प्रष्टुमुत्सहे ।
अहं गौरीसुरूपेण चित्रलेखा वचोऽब्रवीत्
॥४८॥चित्रलेखोवाच
यदधान्मोहिनीरूपं केशवो मोह नेच्छया ।
पुरा तद्वैष्णवं योगमाश्रित्य परमार्थतः
॥४९॥उर्वश्याश्च ततो दृष्ट्वा रूपस्य परिवर्तनम् ।
कालीरूपं घृताची तु विश्वाची चांडिकं वपुः
॥५०॥सावित्रिरूपं रंभा च गायत्रं मेनका तथा ।
सहजन्या जयारूपं वैजयं पुंजिकस्थली
॥५१॥मातॄणामप्यनुक्तानामनुक्ताश्चाप्सरोवराः ।
रत्नाद्रूपाणि ताश्चक्रुस्स्वविद्यासंयुता अनु
॥५२॥ततस्तासां तु रूपाणि दृष्ट्वा कुंभां डनंदिनी ।
वैष्णवादात्मयोगाच्च विज्ञातार्था व्यडंबयत्
॥५३॥ऊषा बाणासुरसुता दिव्ययोगविशारदा ।
चकार रूपं पार्वत्या दिव्यमत्यद्भुतं शुभम्
॥५४॥महारक्ताब्जसंकाशं चरणं चोक्तमप्रभम् ।
दिव्यलक्षणसंयुक्तं मनोऽभीष्टार्थदायकम्
॥५५॥तस्या रमणसंकल्पं विज्ञाय गिरिजा ततः ।
उवाच सर्वविज्ञाना सर्वान्तर्यामिनी शिवा
॥५६॥गिरिजोवाच
यतो मम स्वरूपं वै धृतभूषे सखि त्वया ।
सकामत्वेन समये संप्राप्ते सति मानिनि
॥५७॥अस्मिंस्तु कार्तिके मासि ऋतुधर्मास्तु माधवे ।
द्वादश्यां शुक्लपक्षे तु यस्तु घोरे निशागमे
॥५८॥कृतोपवासां त्वां भोक्ता सुप्तामंतःपुरे नरः ।
स ते भर्त्ता कृतो देवैस्तेन सार्द्धं रमिष्यसि
॥५९॥आबाल्याद्विष्णुभक्तासि यतोऽनिशमतंद्रिता ।
एवमस्त्विति सा प्राह मनसा लज्जितानना
॥६०॥अथ सा पार्वती देवी कृतकौतुकमण्डना ।
रुद्रसंनिधिमागत्य चिक्रीडे तेन शंभुना
॥६१॥ततो रतांते भगवान्रुद्रश्चादर्शनं ययौ ।
सदारः सगणश्चापि सहितो दैवतैर्मुने
॥६२॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे ऊषा चरित्रवर्णनं शिवशिवाविवाहवर्णनं नामैकपंचाशत्तमोऽध्यायः ॥ ५१ ॥