हिरण्याक्षवधः
नारद उवाच
शंखचूडवधं श्रुत्वा चरितं शशिमौलिनः ।
अयं तृप्तोऽस्मि नो त्वत्तोऽमृतं पीत्वा यथा जनः
॥१॥ब्रह्मन्यच्चरितं तस्य महेशस्य महात्मनः ।
मायामाश्रित्य सल्लीलां कुर्वतो भक्तमोददाम्
॥२॥ब्रह्मोवाच
जलंधरवधं श्रुत्वा व्यासस्सत्यवतीसुतः ।
अप्राक्षीदिममेवार्थं ब्रह्मपुत्रं मुनीश्वरम्
॥३॥सनत्कुमारः प्रोवाच व्यासं सत्यवतीसुतम् ।
सुप्रशंस्य महेशस्य चरितं मंगलायनम्
॥४॥सनत्कुमार उवाच
शृणु व्यास महेशस्य चरितं मंगलायनम् ।
यथान्धको गाणपत्यं प्राप शंभोः परात्मनः
॥५॥कृत्वा परमसंग्रामं तेन पूर्वं मुनीश्वर ।
प्रसाद्य तं महेशानं सत्त्वभावात्पुनः पुनः
॥६॥माहात्म्यमद्भुतं शंभोश्शरणागतरक्षिणः ।
सुभक्तवत्सलस्यैव नानालीलाविहारिणः
॥७॥माहात्म्यमेतद्वृषभध्वजस्य श्रुत्वा मुनिर्गंधवतीसुतो हि ।
वचो महार्थं प्रणिपत्य भक्त्या ह्युवाच तं ब्रह्मसुतं मुनींद्रम्
॥८॥व्यास उवाच
को ह्यंधको वै भगवन्मुनीश कस्यान्वये वीर्यवतः पृथिव्याम् ।
जातो महात्मा बलवान् प्रधानः किमात्मकः कस्य सुतोंऽधकश्च
॥९॥एतत्समस्तं सरहस्यमद्य ब्रवीहि मे ब्रह्मसुतप्रसादात् ।
स्कंदान्मया वै विदितं हि सम्यक् महेशपुत्रादमितावबोधात्
॥१०॥गाणपत्यं कथं प्राप शंभोः परमतेजसः ।
सोंधको धन्य एवाति यो बभूव गणेश्वरः
॥११॥ब्रह्मोवाच
व्यासस्य चैतद्वचनं निशम्य प्रोवाच स ब्रह्मसुतस्तदानीम् ।
महेश्वरोतीः परमाप्तलक्ष्मीस्संश्रोतुकामं जनकं शुकस्य
॥१२॥सनत्कुमार उवाच
पुराऽऽगतो भक्तकृपाकरोऽसौ कैलासतश्शैलसुता गणाढ्यः ।
विहर्तुकामः किल काशिकां वै स्वशैलतो निर्जरचक्रवर्ती
॥१३॥स राजधानीं च विधाय तस्यां चक्रं परोतीः सुखदा जनानाम् ।
तद्रक्षकं भैरवनामवीरं कृत्वा समं शैलजयाहि बह्वीः
॥१४॥स एकदा मंदरनामधेयं गतो नगे तद्वरसुप्रभावात् ।
तत्रापि मानागणवीरमुख्यैश्शिवासमेतो विजहार भूरि
॥१५॥पूर्वे दिशो मन्दर शैलसंस्था कपर्द्दिनश्चंडपराक्रमस्य ।
चक्रे ततो नेत्रनिमीलनं तु सा पार्वती नर्मयुतं सलीलम्
॥१६॥प्रवालहेमाब्जधृतप्रभाभ्यां कराम्बुजाभ्यां निमिमील नेत्रे ।
हरस्य नेत्रेषु निमीलितेषु क्षणेन जातः सुमहांधकारः
॥१७॥तत्स्पर्शयोगाच्च महेश्वरस्य करौ च तस्याः स्खलितं मदांभः ।
शंभोर्ललाटे क्षणवह्नितप्तो विनिर्गतो भूरिजलस्य बिन्दुः
॥१८॥गर्भो बभूवाथ करालवक्त्रो भयंकरः क्रोधपरः कृतघ्नः ।
अन्धो विरूपी जटिलश्च कृष्णो नरेतरो वैकृतिकस्सुरोमा
॥१९॥गायन्हसन्प्ररुदन्नृत्यमानो विलेलिहानो घरघोरघोषः ।
जातेन तेनाद्भुतदर्शनेन गौरीं भवोऽसौ स्मितपूर्वमाह
॥२०॥श्रीमहेश उवाच
निमील्य नेत्राणि कृतं च कर्म बिभेषि साऽस्माद्दयिते कथं त्वम् ।
गौरी हरात्तद्वचनं निशम्य विहस्यमाना प्रमुमोच नेत्रे
॥२१॥जाते प्रकाशे सति घोररूपो जातोंधकारादपि नेत्रहीनः ।
तादृग्विधं तं च निरीक्ष्य भूतं पप्रच्छ गौरी पुरुषं महेशम्
॥२२॥गौर्य्युवाच
कोयं विरूपो भगवन्हि जातो नावग्रतो घोरभयंकरश्च ।
वदस्व सत्यं मम किं निमित्तं सृष्टोऽथ वा केन च कस्य पुत्रः
॥२३॥सनत्कुमार उवाच
श्रुत्वा हरस्तद्वचनं प्रियाया लीलाकरस्सृष्टिकृतोंऽधरूपाम् ।
लीलाकरायास्त्रिजगज्जनन्या विहस्य किंचिद्भगवानुवाच
॥२४॥महेश उवाच
शृण्वंबिके ह्यद्भुतवृत्तकारे उत्पन्न एषोऽद्भुतचण्डवीर्यः ।
निमीलिते चक्षुषि मे भवत्या स स्वेदजो मेंधकनामधेयः
॥२५॥त्वं चास्य कर्तास्ययथानुरूपं त्वया ससख्या दयया गणेभ्यः ।
स रक्षितव्यस्त्वयि तं हि वैकं विचार्य बुद्ध्या करणीयमार्ये
॥२६॥सनत्कुमार उवाच
गौरी ततो भर्तृवचो निशम्य कारुण्यभावात्सहिता सखीभिः ।
नानाप्रकारैर्बहुभिर्ह्युपायैश्चकार रक्षां स्वसुतस्य यद्वत्
॥२७॥कालेऽथ तस्मिञ्शिशिरे प्रयातो हिरण्यनेत्रस्त्वथ पुत्रकामः ।
स्वज्येष्ठबंधोस्तनयप्रतानं संवीक्ष्य चासीत्प्रियया नियुक्तः
॥२८॥अरण्यमाश्रित्य तपश्चकारासुरस्तदा कश्यपजस्सुतार्थम् ।
काष्ठोपमोऽसौ जितरोषदोषस्संदर्शनार्थं तु महेश्वरस्य
॥२९॥तुष्टः पिनाकी तपसास्य सम्यग्वरप्रदानाय ययौ द्विजेन्द्र ।
तत्स्थानमासाद्य वृषध्वजोऽसौ जगाद दैत्यप्रवरं महेशः
॥३०॥महेश उवाच
हे दैत्यनाथ कुरु नेन्द्रियसंघपातं किमर्थमेतद्व्रतमाश्रितं ते ।
प्रब्रूहि कामं वरदो भवोऽहं यदिच्छसि त्वं सकलं ददामि
॥३१॥सनत्कुमार उवाच
सरस्यमाकर्ण्य महेशवाक्यं ह्यतिप्रसन्नः कनकाक्षदैत्यः ।
कृतांजलिर्नम्रशिरा उवाच स्तुत्या च नत्वा विविधं गिरीशम्
॥३२॥हिरण्याक्ष उवाच
पुत्रस्तु मे चन्द्रललाट नास्ति सुवीर्यवान्दैत्यकुलानुरूपी ।
तदर्थमेतद्व्रतमास्थितोऽहं तं देहि देवेश सुवीर्यवंतम्
॥३३॥यस्माच्च मद्भ्रातुरनंतवीर्याः प्रह्लादपूर्वा अपि पंचपुत्राः ।
ममेह नास्तीति गतान्वयोऽहं को मामकं राज्यमिदं बुभूषेत्
॥३४॥राज्यं परस्य स्वबलेन हृत्वा भुंक्तेऽथवा स्वं पितुरेव दृष्टम् ।
च प्रोच्यते पुत्र इह त्वमुत्र पुत्री स तेनापिभवेत्पितासौ
॥३५॥ऊर्द्ध्वं गतिः पुत्रवतां निरुक्ता मनीषिभिर्धर्मभृतां वरिष्ठैः ।
सर्वाणि भूतानि तदर्थमेवमतः प्रवर्तेत पशून् स्वतेजसः
॥३६॥निरन्वयस्याथ न संति लोकास्तदर्थमिच्छंति जनाः सुरेभ्यः ।
सदा समाराध्य सुरात्रिपंकजं याचंत इत्थं सुतमेकमेव
॥३७॥सनत्कुमार उवाच
एतद्भवस्तद्वचनं निशम्य कृपाकरो दैत्यनृपस्य तुष्टः ।
तमाह दैत्यातप नास्ति पुत्रस्त्वद्वीर्यजः किंतु ददामि पुत्रम्
॥३८॥ममात्मजं त्वंधकनामधेयं त्वत्तुल्यवीर्यं त्वपराजितं च ।
वृणीष्व पुत्रं सकलं विहाय दुःखं प्रतीच्छस्व सुतं त्वमेव
॥३९॥सनत्कुमार उवाच
इत्येवमुक्त्वा प्रददौ स तस्मै हिरण्यनेत्राय सुतं प्रसन्नः ।
हरस्तु गौर्य्या सहितो महात्मा भूतादिनाथस्त्रिपुरारिरुग्रः
॥४०॥नतो हरात्प्राप्य सुतं स दैत्यः प्रदक्षिणीकृत्य यथाक्रमेण ।
स्तोत्रैरनेकैरभिपूज्य रुद्रं तुष्टस्स्वराज्यं गतवान्महात्मा ।
४१ ततस्तु पुत्रं गिरिशादवाप्य रसातलं चंडपराक्रमस्तु ।
इमां धरित्रीमनयत्स्वदेशं दैत्यो विजित्वा त्रिदशानशेषान्
॥४२॥ततस्तु देवेर्मुनिभिश्च सिद्धैः सर्वात्मकं यज्ञमयं करालम् ।
वाराहमाश्रित्य वपुः प्रधानमाराधितो विष्णुरनंतवीर्यः
॥४३॥घोणाप्रहारैर्विविधैर्धरित्रीं विदार्य पातालतलं प्रविश्य ।
तुंडेन दैत्याञ्शतशो विचूर्ण्य दंष्ट्राभिरग्र्याभि अखंडिताभिः
॥४४॥पादप्रहारैरशनिप्रकाशैरुन्मथ्य सैन्यानि निशाचराणाम् ।
मार्तंडकोटिप्रतिमेन पश्चात्सुदर्शनेनाद्भुतचंडतेजाः
॥४५॥हिरण्यनेत्रस्य शिरो ज्वलंतं चिच्छेद दैत्यांश्च ददाह दुष्टान् ।
ततः प्रहृष्टो दितिजेन्द्रराजं स्वमंधकं तत्र स चाभ्यषिंचत्
॥४६॥स्वस्थानमागत्य ततो धरित्रीं दृष्ट्वांकुरेणोद्धरतः प्रहृष्टः ।
भूमिं च पातालतलान्महात्मा पुपोष भागं त्वथ पूर्वकं तु
॥४७॥देवैस्समस्तैर्मुनिभिःप्रहृष्टै रभिषुतः पद्मभुवा च तेन ।
ययौ स्वलोकं हरिरुग्रकायो वराहरूपस्तु सुकार्यकर्ता
॥४८॥हिरण्यनेत्रेऽथ हतेऽसुरेशे वराहरूपेण सुरेण देवाः ।
देवास्समस्ता मुनयश्च सर्वे परे च जीवास्सुखिनो बभूवुः
॥४९॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे हिरण्याक्षवधो नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥