अनिरुद्धोषाविहारवर्णनम्
सनत्कुमार उवाच
अथ बाणासुरः क्रुद्धस्तत्र गत्वा ददर्श तम् ।
दिव्यलीलात्तवपुषं प्रथमे वयसि स्थितम्
॥१॥तं दृष्ट्वा विस्मितं वाक्यं किं कारणमथाब्रवीत् ।
बाणः क्रोध परीतात्मा युधि शौंडो हसन्निव
॥२॥अहो मनुष्यो रूपाढ्यस्साहसी धैर्यवानिति ।
कोयमागतकालश्च दुष्टभाग्यो विमूढधीः
॥३॥येन मे कुलचारित्रं दूषितं दुहिता हिता ।
तं मारयध्वं कुपिताश्शीघ्रं शस्त्रैस्सुदारुणैः
॥४॥दुराचारं च तं बद्ध्वा घोरे कारा गृहे ततः ।
रक्षध्वं विकटे वीरा बहुकालं विशेषतः
॥५॥न जाने कोयमभयः को वा घोरपराक्रमः ।
विचार्येति महाबुद्धिस्सं दिग्धोऽभूच्छरासुरः
॥६॥ततो दैत्येन सैन्यं तु दशसाहस्रकं शनैः ।
वधाय तस्य वीरस्य व्यादिष्टं पापबुद्धिना
॥७॥तदादिष्टास्तु ते वीराः सर्वतोन्तःपुरं द्रुतम् ।
छादयामासुरत्युग्राश्छिंदि भिंदीति वादिनः
॥८॥शत्रुसैन्यं ततो दृष्ट्वा गर्जमानः स यादवः ।
अंतःपुरं द्वारगतं परिघं गृह्य चातुलम्
॥९॥निष्क्रांतो भवनात्तस्माद्वज्रहस्त इवांतकः ।
तेन तान्किंकरान् हत्वा पुनश्चांतःपुरं ययौ
॥१०॥एवं दशसहस्राणि सैन्यानि मुनिसत्तम ।
जघान रोषरक्ताक्षो वर्द्धितश्शिवतेजसा
॥११॥लक्षे हतेऽथ योधानां ततो बाणासुरो रुषा ।
कुभांडं स गृहीत्वा तु युद्धे शौंडं समाह्वयत्
॥१२॥अनिरुद्धं महाबुद्धिं द्वन्द्वयुद्धे महा हवे ।
प्राद्युम्निं रक्षितं शैवतेजसा प्रज्वलत्तनुम्
॥१३॥ततो दशसहस्राणि तुरगाणां रथोत्तमान् ।
युद्धप्राप्तेन खड्गेन दैत्येन्द्रस्य जघान सः
॥१४॥तद्वधाय ततश्शक्तिं कालवैश्वानरोपमाम् ।
अनिरुद्धो गृहीत्वा तां तया तं निजघान हि
॥१५॥रथोपस्थे ततो बाणस्तेन शक्त्याहतो दृढम् ।
स साश्वस्तत्क्षणं वीरस्तत्रैवांतरधीयत
॥१६॥तस्मिंस्त्वदर्शनं प्राप्ते प्राद्युम्निरपराजितम् ।
आलोक्य ककुभस्सर्वास्तस्थौ गिरिरिवाचलः
॥१७॥अदृश्यमानस्तु तदा कूटयोधस्स दानवः ।
नानाशस्त्रसहस्रैस्तं जघान हि पुनः पुनः
॥१८॥छद्मनां नागपाशैस्तं बबंध स महाबलः ।
बलिपुत्रो महावीरश्शिवभक्तश्शरासुरः
॥१९॥तं बद्ध्वा पंजरांतःस्थं कृत्वा युद्धादुपारमत् ।
उवाच बाणः संकुद्धस्सूतपुत्रं महाबलम्
॥२०॥बाणासुर उवाच
सूतपुत्र शिरश्छिंधि पुरुषस्यास्य वै लघु ।
येन मे दूषितं पूतं बलाद्दुष्टेन सत्कुलम्
॥२१॥छित्वा तु सर्वगात्राणि राक्षसेभ्यः प्रयच्छ भोः ।
अथास्य रक्तमांसानि क्रव्यादा अपि भुंजताम्
॥२२॥अगाधे तृणसंकीर्णे कूपे पातकिनं जहि ।
किं बहूक्त्या सूतपुत्र मारणीयो हि सर्वथा
॥२३॥सनत्कु मार उवाच
तस्य तद्वचनं श्रुत्वा धर्मबुद्धिर्निशाचरः ।
कुंभांडस्त्वब्रवीद्वाक्यं बाणं सन्मंत्रिसत्तमम्
॥२४॥कुंभांड उवाच
नैतत्कर्तुं समुचितं कर्म देव विचार्यताम् ।
अस्मिन्हते हतो ह्यात्मा भवेदिति मतिर्मम
॥२५॥अयं तु दृश्यते देव तुल्यो विष्णोः पराक्रमैः ।
वर्धितश्चन्द्र चूडस्य त्वद्दुष्टस्य सुतेचसा
॥२६॥अथ चन्द्रललाटस्य साहसेन समत्स्वयम् ।
इमामवस्थां प्राप्तोसि पौरुषे संव्यवस्थितः
॥२७॥अयं शिवप्रसादाद्वै कृष्णपौत्रो महाबलः ।
अस्मांस्तृणोपमान् वेत्ति दष्टोपि भुजगैर्बलात्
॥२८॥सनत्कुमार उवाच
एतद्वाक्यं तु बाणाय कथयित्वा स दानवः ।
अनिरुद्धमुवाचेदं राजनीतिविदुत्तमः
॥२९॥कुंभांड उवाच
कोसि कस्यासि रे वीर सत्यं वद ममाग्रतः ।
केन वा त्वमिहानीतो दुराचार नराधम
॥३०॥दैत्येन्द्रं स्तुहि वीरं त्वं नमस्कुरु कृताजलिः ।
जितोस्मीति वचो दीनं कथयित्वा पुनःपुनः
॥३१॥एवं कृते तु मोक्षस्स्यादन्यथा बंधनादि च ।
तच्छ्रुत्वा वचनं तस्य प्रतिवाक्यमुवाच सः
॥३२॥अनिरुद्ध उवाच
दैत्याऽधमसखे करर्पिडोपजीवक ।
निशाचर दुराचार शत्रुधर्मं न वेत्सि भोः
॥३३॥दैन्यं पलायनं चाथ शूरस्य मरणाधिकम् ।
विरुद्धं चोपशल्यं च भवेदिति मतिर्मम
॥३४॥क्षत्रियस्य रणे श्रेयो मरणं सन्मुखे सदा ।
न वीरमानिनो भूमौ दीनस्येव कृतांजलिः
॥३५॥सनत्कुमार उवाच
इत्यादि वीरवाक्यानि बहूनि स जगाद तम् ।
तदाकर्ण्य सबाणोऽसौ विस्मितोऽभूच्चुकोप च
॥३६॥तदोवाच नभोवाणी बाणस्याश्वासनाय हि ।
शृण्वतां सर्ववीराणामनिरुद्धस्य मंत्रिणः
॥३७॥व्योमवाण्युवाच
भो भो बाण महावीर न क्रोधं कर्तुमर्हसि ।
बलिपुत्रोसि सुमते शिवभक्त विचार्यताम्
॥३८॥शिवस्सर्वेश्वरस्साक्षी कर्मणां परमेश्वरः ।
तदधीनमिदं सर्वं जगद्वै सचराचरम्
॥३९॥स एव कर्ता भर्ता च संहर्ता जगतां सदा ।
रजस्सत्त्वतमोधारी विधिविष्णुहरात्मकः
॥४०॥सर्वस्यांतर्गतः स्वामी प्रेरकस्सर्वतः परः ।
निर्विकार्यव्ययो नित्यो मायाधीशोपि निर्गुणः
॥४१॥तस्येच्छयाऽबलो ज्ञेयो बली बलि वरात्मज ।
इति विज्ञाय मनसि स्वस्थो भव महामते
॥४२॥गर्वापहारी भगवान्ना नालीलाविशारदः ।
नाशयिष्यति ते गर्वमिदानीं भक्तवत्सलः
॥४३॥सनत्कुमार उवाच
इत्याभाष्य नभोवाणी विरराम महामुने ।
बाणासुरस्तद्वचनादनिरुद्धं न जघ्निवान्
॥४४॥किं तु स्वान्तःपुरं गत्वा पपौ पानमनुत्तमम् ।
मद्वाक्यं च विसस्मार विजहार विरुद्धधीः
॥४५॥ततोनिरुद्धो बद्धस्तु नागभोगैर्विषोल्बणैः ।
प्रिययाऽतृप्तचेतास्तु दुर्गां सस्मार तत्क्षणात्
॥४६॥अनिरुद्ध उवाच
शरण्ये देवि बद्धोस्मि दह्यमानस्तु पन्नगैः ।
आगच्छ मे कुरु त्राणं यशोदे चंडरोषिणि
॥४७॥शिवभक्ते महादेवि सृष्टिस्थित्यंतकारिणी ।
त्वां विना रक्षको नान्यस्तस्माद्रक्ष शिवे हि माम्
॥४८॥सनत्कुमार उवाच
तेनेत्थं तोषिता तत्र काली भिन्नांजनप्रभा ।
ज्येष्ठकृष्णचतुर्दश्यां संप्राप्तासीन्महानिशि
॥४९॥गुरुभिर्मुष्टिनिर्घातैर्दारयामास पंजरम् ।
शरांस्तान्भस्मसात्कृत्वा सर्परूपान्भयानकान्
॥५०॥मोचयित्वा निरुद्धं तु ततश्चांतःपुरं ततः ।
प्रवेशयित्वा दुर्गा तु तत्रैवादर्शनं गता
॥५१॥इत्थं देव्याः प्रसादात्तु शिवशक्तेर्मुनीश्वर ।
कृच्छ्रमुक्तोनिरुद्धोभूत्सुखी चैव गतव्यथः
॥५२॥अथ लब्धजयो भूत्वानिरुद्धश्शिवशक्तितः ।
प्राद्युम्निर्बाणतनयां प्रियां प्राप्य मुमोद च
॥५३॥पूर्वंवद्विजहारासौ? तया स्वप्रियया सुखी ।
पीतपानस्सुरक्ताक्षस्स बाणसुतया ततः
॥५४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे ऊषाचरित्रे अनिरुद्धोषाविहारवर्णनंनाम त्रिपंचाशत्तमो ऽध्याय ॥ ५३ ॥