मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ३५

3
रुद्रसंहिता · युद्धखण्डः · 35

शिवदूतसंवादः

सनत्कुमार उवाच

तत्र स्थित्वा दानवेन्द्रो महान्तं दानवेश्वरम् ।

दूतं कृत्वा महाविज्ञं प्रेषयामास शंकरम्

॥१॥

स तत्र गत्वा दूतश्च चन्द्रभालं ददर्श ह ।

वटमूले समासीनं सूर्यकोटिसमप्रभम्

॥२॥

कृत्वा योगासनं दृष्ट्या मुद्रायुक्तं च सस्मितम् ।

शुद्धस्फटिकसंकाशं ज्वलंतं ब्रह्मतेजस

॥३॥

त्रिशूलपट्टिशधरं व्याघ्रचर्मांबरावृतम् ।

भक्तमृत्युहरं शांतं गौरीकान्तं त्रिलोचनम्

॥४॥

तपसां फलदातारं कर्त्तारं सर्वसंपदाम् ।

आशुतोषं प्रसन्नास्य भक्तानुग्रहकारकम्

॥५॥

विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ।

विश्वंभरं विश्वकरं विश्वसंहारकारणम्

॥६॥

कारणं कारणानां च नरकार्णवतारणम् ।

ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम्

॥७॥

अवरुह्य रथाद् दूतस्तं दृष्ट्वा दानवेश्वरः ।

शंकरं सकुमारं च शिरसा प्रणनाम सः

॥८॥

वामतो भद्रकाली च स्कंदं तत्पुरतः स्थितम् ।

लोकाशिषं ददौ तस्मै काली स्कंदश्च शंकरः

॥९॥

अथासौ शंखचूडस्य दूतः परमशास्त्रवित् ।

उवाच शंकरं नत्वा करौ बद्ध्वा शुभं वचः

॥१०॥

दूत उवाच

शंखचूडस्य दूतोऽहं त्वत्सकाशमिहागतः ।

वर्तते ते किमिच्छाद्य तत्त्वं ब्रूहि महेश्वर

॥११॥

सनत्कुमार उवाच

इति श्रुत्वा च वचनं शंखचूडस्य शंकरः ।

प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह

॥१२॥

महादेव उवाच

शृणु दूत महाप्राज्ञ वचो मम सुखावहम् ।

कथनीयमिदं तस्मै निर्विवादं विचार्य च

॥१३॥

विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ।

मरीचिस्तस्य पुत्रश्च कश्यपस्तत्सुतः स्मृतः

॥१४॥

दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश ।

तास्वेका च दनुस्साध्वी तत्सौभाग्यविवर्द्धिनी

॥१५॥

चत्वारस्ते दनोः पुत्रा दानवास्तेजसोल्बणाः ।

तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः

॥१६॥

तत्पुत्रो धार्मिको दंभो दानवेन्द्रो महामतिः ।

तस्य त्वं तनयः श्रेष्ठो धर्मात्मा दानवेश्वरः

॥१७॥

पुरा त्वं पाषर्दो गोपो गोपेष्वेव च धार्मिकः ।

अधुना राधिकाशापाज्जातस्त्वं दानवेश्वरः

॥१८॥

दानवीं योनिमायातस्तत्त्वतो न हि दानवः ।

निजवृतं पुरा ज्ञात्वा देववैरं त्यजाधुना

॥१९॥

द्रोहं न कुरु तैस्सार्द्धं स्वपदं भुंक्ष्व सादरम् ।

नाधिकं सविकारं च कुरु राज्यं विचार्य च

॥२०॥

देहि राज्यं च देवानां मत्प्रीतिं रक्ष दानव ।

निजराज्ये सुखं तिष्ठ तिष्ठंतु स्वपदे सुराः

॥२१॥

अलं भूतविरोधेन देवद्रोहेण किं पुनः ।

कुलीनाश्शुद्धकर्माणः सर्वे कश्यपवंशजाः

॥२२॥

यानि कानि च पापानि ब्रह्महत्या दिकानि च ।

ज्ञातिद्रोहजपापस्य कलां नार्हंति षोडशीम्

॥२३॥

सनत्कुमार उवाच

इत्यादिबहुवार्त्तां च श्रुतिस्मृतिपरां शुभाम् ।

प्रोवाच शंकरस्तस्मै बोधयन् ज्ञानमुत्तमम्

॥२४॥

शिक्षितश्शंखचूडेन स दूतस्तर्कवित्तम ।

उवाच वचनं नम्रो भवितव्यविमोहितः

॥२५॥

दूत उवाच

त्वया यत्कथितं देव नान्यथा तत्तथा वचः ।

तथ्यं किंचिद्यथार्थं च श्रूयतां मे निवेदनम्

॥२६॥

ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ।

तत्किमीशासुराणां च न सुराणां वद प्रभो

॥२७॥

सर्वेषामिति चेत्तद्वै तदा वच्मि विचार्य च ।

निर्णयं ब्रूहि तत्राद्य कुरु संदेहभंजनम्

॥२८॥

मधुकैटभयोर्दैत्यवरयोः प्रलयार्णवे ।

शिरश्छेदं चकारासौ कस्माच्चक्री महेश्वर

॥२९॥

त्रिपुरैस्सह संयुद्धं भस्मत्वकरणं कुतः ।

भवाञ्चकार गिरिश सुरपक्षीति विश्रुतम्

॥३०॥

गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ।

सुतलादि समुद्धर्तुं तद्द्वारे च गदाधरः

॥३१॥

सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ।

शुंभादयोऽसुराश्चैव कथं देवैर्निपातिताः

॥३२॥

पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ।

क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः

॥३३॥

क्रीडाभांडमिदं विश्वं कालस्य परमात्मनः ।

स ददाति यदा यस्मै तस्यै तस्यैश्वर्यं भवे त्तदा

॥३४॥

देवदानवयोर्वैरं शश्वनैमित्तिकं सदा ।

पराजयो जयस्तेषां कालाधीनः क्रमेण च

॥३५॥

तवानयोर्विरोधे च गमनं निष्फलं भवेत् ।

समसंबंधिनां तद्वै रोचते नेश्वरस्य ते

॥३६॥

सुरासुराणां सर्वेषामीश्वरस्य महात्मनः ।

इयं ते रहिता लज्जा स्पर्द्धास्माभिस्सहाधुना

॥३७॥

यतोधिका चैव कीर्तिर्हानिश्चैव पराजये ।

तवैतद्विपरीतं च मनसा संविचार्य ताम्

॥३८॥

सनत्कुमार उवाच

इत्येतद्वचनं श्रुत्वा संप्रहस्य त्रिलोचनः ।

यथोचितं च मधुरमुवाच दानवेश्वरम्

॥३९॥

महेश उवाच

वयं भक्तपराधीना न स्वतंत्राः कदापि हि ।

तदिच्छया तत्कर्माणो न कस्यापि च पक्षिणः

॥४०॥

पुरा विधिप्रार्थनया युद्धमादौ हरेरपि ।

मधुकैटभयोर्देत्यवरयोः प्रलयार्णवे

॥४१॥

देवप्रार्थनया तेन हिरण्यकशिपोः पुरा ।

प्रह्रादार्थं वधोऽकारि भक्तानां हितकारिणा

॥४२॥

त्रिपुरैस्सह संयुद्धं भस्मत्वकरणं ततः ।

देवप्रार्थनयाकारि मयापि च पुरा श्रुतम्

॥४३॥

सर्वेश्वर्यास्सर्वमातुर्देवप्रार्थनया पुरा ।

आसीच्छुंभादिभिर्युद्धं वधस्तेषां तया कृतः

॥४४॥

अद्यापि त्रिदशास्सर्वे ब्रह्माणं शरणं ययुः ।

स सदेवो हरिर्मां च देवश्शरणमागतः

॥४५॥

हरिब्रह्मादिकानां च प्रार्थनावशतोप्यहम् ।

सुराणामीश्वरो दूत युद्धार्थमगमं खलु

॥४६॥

पार्षदप्रवरस्त्वं हि कृष्णस्य च महात्मनः ।

ये ये हताश्च दैतेया नहि केपि त्वया समाः

॥४७॥

का लज्जा महती राजन् मम युद्धे त्वया सह ।

देवकार्यार्थमीशोहं विनयेन च प्रेषितः

॥४८॥

गच्छ त्वं शंखचूडे वै कथनीयं च मे वचः ।

स च युक्तं करोत्वत्र सुरकार्यं करोम्यहम्

॥४९॥

इत्युक्त्वा शंकरस्तत्र विरराम महेश्वरः ।

उत्तस्थौ शंखचूडस्य दूतोऽगच्छत्तदंतिकम्

॥५०॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे शिवदूतसंवादो नाम पंचत्रिंशोऽध्यायः ॥ ३५ ॥