जलंधरयुद्धवर्णनम्
सनत्कुमार उवाच
अथ वीरगणै रुद्रो रौद्ररूपो महाप्रभुः ।
अभ्यगाद्वृषभारूढस्संग्रामं प्रहसन्निव
॥१॥रुद्रमायांतमालोक्य सिंहनादैर्गणाः पुनः ।
निवृत्ताः संगरे रौद्रा ये हि पूर्वं पराजिताः
॥२॥वीर शब्दं च कुर्वन्तस्तेऽप्यन्ये शांकरा गणाः ।
सोत्सवास्सायुधा दैत्यान्निजघ्नुश्शरवृष्टिभिः
॥३॥दैत्या हि भीषणं रुद्रं सर्वे दृष्ट्वा विदुद्रुवुः ।
शांकरं पुरुषं दृष्ट्वा पातकानीव तद्भयात्
॥४॥अथो जलंधरो दैत्यान्निवृत्तान्प्रेक्ष्य संगरे ।
अभ्यधावत्स चंडीशं मुंचन्बाणान्सहस्रशः
॥५॥निशुंभशुंभप्रमुखा दैत्येन्द्राश्च सहस्रशः ।
अभिजग्मुश्शिवं वेगाद्रोषात्संदष्टदच्छदाः
॥६॥कालनेमिस्तथा वीरः खड्गरोमा बलाहकः ।
घस्मरश्च प्रचंडश्चापरे चापि शिवं ययुः
॥७॥बाणैस्संछादयामासुर्द्रुतं रुद्रगणांश्च ते ।
अंगानि चिच्छिदुर्वीराः शुंभाद्या निखिला मुने
॥८॥बाणांधकारसंछन्नं दृष्ट्वा गणबलं हरः ।
तद्बाणजालमाच्छिद्य बाणैराववृते नभः
॥९॥दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ।
प्रचंडबाणजालोघैरपातयत भूतले
॥१०॥खड्गरोमशिरः कायात्तथा परशुनाच्छिनत् ।
बलाहकस्य च शिरः खट्वांगेनाकरोद्द्विधा
॥११॥स बद्ध्वा घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि ।
महावीर प्रचंडं च चकर्त्त विशिखेन ह
॥१२॥वृषभेण हताः केचित्केचिद्बाणैर्निपातिता ।
न शेकुरसुराः स्थातुं गजा सिंहार्दिता इव
॥१३॥ततः क्रोधपरीतात्मा दैत्यान्धिक्कृतवान्रणे ।
शुंभादिकान्महादैत्यः प्रहसन्प्राह धैर्यवान्
॥१४॥जलंधर उवाच
किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः ।
न हि भीतवधः श्लाघ्यः स्वर्गदः शूरमानिनाम्
॥१५॥यदि वः प्रधने श्रदा सारो वा क्षुल्लका हृदि ।
अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा
॥१६॥रणे मृत्युर्वरश्चास्ति सर्वकामफलप्रदः ।
यशःप्रदो विशेषेण मोक्षदोऽपि प्रकीर्त्तितः
॥१७॥सूर्यस्य मंडलं भित्त्वा यायाद्वै परमं पदम् ।
परिव्राट् परमज्ञानी रणे यत्संमुखे हतः
॥१८॥मृत्योर्भयं न कर्तव्यं कदाचित्कुत्रचिद्बुधैः ।
अनिर्वार्यो यतो ह्येष उपायैर्निखिलैरपि
॥१९॥मृत्युर्जन्मवतां वीरा देहेन सह जायते ।
अद्य वाब्दशतात् वा मृत्युर्वै प्राणिनां ध्रुवः
॥२०॥तन्मृत्युभयमुत्सार्य युध्यध्वं समरे मुदा ।
सर्वथा परमानन्द इहामुत्राप्यसंशयः
॥२१॥सनत्कुमार उवाच
इत्युक्त्वा बोधयामास स्ववीरान्बहुशस्स हि ।
धैर्यं दधुर्न ते भीता पलायंत रणाद्द्रुतम्
॥२२॥अथ दृष्ट्वा स्वसैन्यं तत्पलायनपरायणम् ।
चुक्रोधाति महावीरस्सिंधुपुत्रो जलंधरः
॥२३॥ततः क्रोधपरीतात्मा क्रोधाद्रुद्रं जलंधरः ।
आह्वापयामास रणे तीव्राशनिसमस्वनः
॥२४॥जलंधर उवाच
युद्ध्यस्वाद्य मया सार्द्धं किमेभिर्निहतैस्तव ।
यच्च किञ्चिद्बलं तेऽस्ति तद्दर्शय जटाधर
॥२५॥सनत्कुमार उवाच
इत्युक्त्वा बाण सप्तत्या जघान वृषभध्वजम् ।
जलंधरो महादैत्यश्शंभुमक्लिष्टकारिणम्
॥२६॥तानप्राप्तान्महादेवो जलंधरशरान्द्रुतम् ।
निजैर्हि निशितैर्बाणैश्चिच्छेद प्रहसन्निव
॥२७॥ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः ।
जलंधरस्य दैत्यस्य न तच्चित्रं हरे मुने
॥२८॥स च्छिन्नधन्वा विरथः पाथोधितनयोऽसुरः ।
अभ्यधावच्छिवं क्रुद्धो गदामुद्यम्य वेगवान्
॥२९॥प्रभुर्गदां च तत्क्षिप्तां सहसैव महेश्वरः ।
पाराशर्यं महालीलो द्रुतं बाणैर्द्विधाकरोत्
॥३०॥तथापि मुष्टिमुद्यम्य महाक्रुद्धो महासुरः ।
अभ्युद्ययौ महावेगाद्द्रुतं तं तज्जिघांसया
॥३१॥तावदेवेश्वरेणाशु बाणोघैस्स जलंधरः ।
अक्लिष्टकर्मकारेण क्रोशमात्रमपाकृतः
॥३२॥ततो जलंधरो दैत्यो रुद्रं मत्वा बलाधिकम् ।
ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम्
॥३३॥तस्य मायाप्रभावात्तु गंधर्वाप्सरसां गणाः ।
आविर्भूता अनेके च रुद्रमोहनहेतवे
॥३४॥ततो जगुश्च ननृतुर्गंधर्वाप्सरसां गणाः ।
तालवेणुमृदंगांश्च वादयन्तिस्म चापरे
॥३५॥तद्दृष्ट्वा महदाश्चर्यं गणै रुद्रो विमोहितः ।
पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः
॥३६॥एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलंधरः ।
कामतस्स जगामाशु यत्र गौरी स्थिताऽभवत्
॥३७॥युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबलौ ।
दशदोर्दण्डपंचास्यस्त्रिनेत्रश्च जटाधरः
॥३८॥महावृषभमारूढस्सर्वथा रुद्रसंनिभः ।
आसुर्य्या मायया व्यास स बभूव जलंधरः
॥३९॥अथ रुद्रं समायातमालोक्य भववल्लभा ।
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत्
॥४०॥यावद्ददर्श चार्वंगी पार्वतीं दनुजेश्वरः ।
तावत्स वीर्यं मुमुचे जडांगश्चाभवत्तदा
॥४१॥अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला ।
जगामांतर्हिता वेगात्सा तदोत्तरमानसम्
॥४२॥तामदृश्य ततो दैत्यः क्षणाद्विद्युल्लतामिव ।
जवेनागात्पुनर्योद्धुं यत्र देवो महेश्वरः
॥४३॥पार्वत्यपि महाविष्णुं सस्मार मनसा तदा ।
तावद्ददर्श तं देवं सोपविष्टं समीपगम्
॥४४॥तं दृष्ट्वा पार्वती विष्णुं जगन्माता शिवप्रिया ।
प्रसन्नमनसोवाच प्रणमंतं कृतांजलिम्
॥४५॥पार्वत्युवाच
विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम् ।
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः
॥४६॥तच्छ्रुत्वा जगदम्बाया वचनं गरुडध्वजः ।
प्रत्युवाच शिवां नत्वा सांजलिर्नम्रकंधरः
॥४७॥श्रीभगवानुवाच
भवत्याः कृपया देवि तद्वृत्तं विदितं मया ।
यदाज्ञापय मां मातस्तत्कुर्य्यां त्वदनुज्ञया
॥४८॥सनत्कुमार उचाच ।
तच्छ्रुत्वा विष्णुवचन्ं पुनरप्याह पार्वती ।
हृषीकेशं जगन्माता धर्मनीतिं सुशिक्षयन्
॥४९॥पार्वत्युवाच
तेनैव दर्शितः पन्था बुध्यस्व त्वं तथैव हि ।
तत्स्त्रीपातिव्रतं धर्मं भ्रष्टं कुरु मदाज्ञया
॥५०॥नान्यथा स महादैत्यो भवेद्वध्यो रमेश्वर ।
पातिव्रतसमो नान्यो धर्मोऽस्ति पृथिवीतले
॥५१॥सनत्कुमार उवाच
इत्यनुज्ञां समाकर्ण्य शिरसाधाय तां हरिः ।
छल कर्त्तुं जगामाशु पुनर्जालंधरं पुरम्
॥५२॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायांपञ्चमे युद्धखंडे जलंधरवधोपाख्याने जलंधरयुद्धवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥