दूतसंवादः
सनत्कुमार उवाच
ततो हिरण्याक्षसुतः कदाचित्संश्रावितो नर्मयुतैर्मदांधैः ।
तैर्भ्रातृभिस्संप्रयुतो विहारे किमंध राज्येन तवाद्य कार्यम्
॥१॥हिरण्यनेत्रस्तु बभूव मूढः कलिप्रियं नेत्रविहीनमेव ।
यो लब्धवांस्त्वां विकृतं विरूपं घोरैस्तपोभिर्गिरिशं प्रसाद्य
॥२॥स त्वं न भागी खलु राज्यकस्य किमन्यजातोऽपि लभेत राज्यम् ।
विचार्यतां तद्भवतैव नूनं वयं तु तद्भागिन एव सत्यम्
॥३॥सनत्कुमार उवाच
तेषां तु वाक्यानि निशम्य तानि विचार्य बुद्ध्या स्वयमेव दीनः ।
ताञ्छांतयित्वा विविधैर्वचोभिर्गतस्त्वरण्यं निशि निर्जनं तु
॥४॥वर्षायुतं तत्र तपश्चचार जजाप जाप्यं विधृतैकपादः ।
आहारहीनो नियमोर्द्ध्वबाहुः कर्त्तुं न शक्यं हि सुरा सुरैर्यत्
॥५॥प्रजाल्य वह्निं स्म जुहोति गात्रमांसं सरक्तं खलु वर्षमात्रम् ।
तीक्ष्णेन शस्त्रेण निकृत्य देहात्समंत्रकं प्रत्यहमेव हुत्वा
॥६॥स्नाय्वस्थिशेषं कुणपं तदासौ क्षयं गतं शोणितमेव सर्वम् ।
यदास्य मांसानि न संति देहं प्रक्षेप्तुकामस्तु हुताशनाय
॥७॥ततः स दृष्टस्त्रिदशालयैर्जनैः सुविस्मितैर्भीतियुतैस्समस्तैः ।
अथामरैश्शीघ्रतरं प्रसादितो बभूव धाता नुतिभिर्नुतो हि
॥८॥निवारयित्वाथ पितामहस्तं ह्युवाच तं चाद्यवरं वृणीष्व ।
यस्याप्तिकामस्तव सर्वलोके सुदुर्लभं दानव तं गृहाण
॥९॥स पद्मयोनेस्तु वचो निशम्य प्रोवाच दीनः प्रणतस्तु दैत्यः ।
यैर्निष्ठुरैर्मे प्रहृतं तु राज्यं प्रह्रादमुख्या मम संतु भृत्याः
॥१०॥अंधस्य दिव्यं हि तथास्तु चक्षुरिन्द्रादयो मे करदा भवंतु ।
मृत्युस्तु माभून्मम देवदैत्यगंधर्वयक्षोरगमानुषेभ्यः
॥११॥नारायणाद्वा दितिजेन्द्रशत्रोस्सर्वाज्जनात्सर्वमयाच्च शर्वात् ।
श्रुत्वा वचस्तस्य सुदारुणं तत्सुशंकितः पद्मभवस्तमाह
॥१२॥ब्रह्मोवाच
दैत्येन्द्र सर्वं भविता तदेतद्विनाशहेतुं च गृहाण किंचित् ।
यस्मान्न जातो न जनिष्यते वा यो न प्रविष्टो मुखमंतकस्य
॥१३॥अत्यन्तदीर्घं खलु जीवितं तु भवादृशास्सत्पुरुषास्त्यजंतु ।
एतद्वचस्सानुनयं निशम्य पितामहात्प्राह पुनस्तस्य दैत्यः
॥१४॥अंधक उवाच
कालत्रये याश्च भवंति नार्यः श्रेष्ठाश्च मध्याश्च तथा कनिष्ठाः ।
तासां च मध्ये खलु रत्नभूता ममापि नित्यं जननीव काचित्
॥१५॥कायेन वाचा मनसाप्यगम्या नारी नृलोकस्य च दुर्लभाय ।
तां कामयानस्य ममास्तु नाशो दैत्येन्द्रभावाद्भगवान्स्वयंभूः
॥१६॥वाक्यं तदाकर्ण्य स पद्मयोनिः सुविस्मितश्शंकरपादपद्ममम् ।
सस्मार संप्राप्य निर्देशमाशु शंभोस्तु तं प्राह ततोंधकं वै
॥१७॥ब्रह्मोवाच
यत्कांक्षसे दैत्यवरास्तु ते वै सर्वं भवत्येव वचस्सकामम् ।
उत्तिष्ठ दैत्येन्द्र लभस्व कामं सदैव वीरैस्तु कुरुष्व युद्धम्
॥१८॥श्रुत्वा तदेतद्वचनं मुनीश विधातुराशु प्रणिपत्य भक्त्या ।
लोकेश्वरं हाटकनेत्रपुत्रः स्नाय्वस्थिशेषस्तु तमाह देवम्
॥१९॥अंधक उवाच
कथं विभो वैरिबलं प्रविश्य ह्यनेन देहेन करोमि युद्धम् ।
स्नाय्वस्थिशेषं कुरु मांसपुष्टं करेण पुण्ये न च मां स्पृशाद्य
॥२०॥सनत्कुमार उवाच
श्रुत्वा वचस्तस्य स पद्मयोनिः करेण संस्पृश्य च तच्छरीरम् ।
गतस्सुरेन्द्रैस्सहितः स्वधाम संपूज्यमानो मुनिसिद्धसंघैः
॥२१॥संस्पृष्टमात्रस्स च दैत्यराजस्संपूर्णदेहो बलवान्बभूव ।
संजातनेत्रस्सुभगो बभूव हृष्टस्स्वमेव नगरं विवेश
॥२२॥उत्सृज्य राज्यं सकलं च तस्मै प्रह्लादमुख्यास्त्वथ दानवेन्द्राः ।
तमागतं लब्धवरं च मत्वा भृत्या बभूवुर्वश गास्तु तस्य
॥२३॥ततोन्धकः स्वर्गमगाद्विजेतुं सेनाभियुक्तस्सहभृत्यवर्गः ।
विजित्य लेखान्प्रधने समस्तान्करप्रदं वज्रधरं चकार
॥२४॥नागान्सुपर्णान्वरराक्षसांश्च गंधर्वयक्षानपि मानुषांस्तु ।
गिरीन्द्रवृक्षान्समरेषु सर्वांश्चतुष्पदः सिंहमुखान्विजिग्ये
॥२५॥त्रैलोक्यमेतद्धि चराचरं वै वशं चकारात्मनि संनियोज्य ।
स ??कूलानि सुदर्शनानि नारीसहस्राणि बहूनि गत्वा
॥२६॥रसातले चैव तथा धरायां त्रिविष्टपे याः प्रमदाः सुरूपाः ।
ताभिर्युतोऽन्येषु सपर्वतेषु रराम रम्येषु नदीतटेषु
॥२७॥क्रीडायमानस्स तु मध्यवर्ती तासां प्रहर्षादथ दानवेन्द्रः ।
तत्पीतशिष्टानि पिबन्प्रवृत्त्यै दिव्यानि पेयानि सुमानुषाणि
॥२८॥अन्यानि दिव्यानि तु यद्रसानि फलानि मूलानि सुगंधवंति ।
संप्राप्य यानानि सुवाहनानि मयेन सृष्टानि गृहोत्तमानि
॥२९॥पुष्पार्घधूपान्नविलेपनैश्च सुशोभितान्यद्भुतदर्शनैश्च ।
संक्रीडमानस्य गतानि तस्य वर्षायुतानीह तथांधकस्य
॥३०॥जानाति किंचिन्न शुभं परत्र यदात्मनस्सौख्यकरं भवेद्धि ।
सदान्धको दैत्यवरस्स मूढो मदांधबुद्धिः कृतदुष्टसंगः
॥३१॥ततः प्रमत्तस्तु सुतान्प्रधानान्कुतर्कवादैरभिभूय सर्वान् ।
चचार दैत्यैस्सहितो महात्मा विनाशयन्वैदिकसर्वधर्मान्
॥३२॥वेदान्द्विजान्वित्त मदाभिभूतो न मन्यते स्माप्यमरान्गुरूंश्च ।
रेमे तथा दैवगतो हतायुः स्वस्यैरहोभिर्गमयन्वयश्च
॥३३॥ततः कदाचिद्गतवान्ससैन्यो बहुप्रयाता पृथिवीतलेऽस्मिन् ।
अनेकसंख्या अपि वर्षकोट्यः प्रहर्षितो मंदरपर्वतं तु
॥३४॥स्वर्णोपमां तत्र निरीक्ष्य शोभां बभ्राम सैन्यैस्सह मानमत्तः ।
क्रीडार्थमासाद्य च तं गिरीन्द्रं मतिं स वासाय चकार मोहात्
॥३५॥शुभं दृढं तत्र पुरं स कृत्वा मुदास्थितो दैत्यपतिः प्रभावात् ।
निवेशयामास पुनः क्रमेण अत्यद्भुतं मन्दरशैलसानौ
॥३६॥दुर्योधनो वैधसहस्तिसंज्ञौ तन्मंत्रिणौ दानवसत्तमस्य ।
ते वै कदाचिद्गिरिसुस्थले हि नारीं सुरूपां ददृशुस्त्रयोऽपि
॥३७॥ते शीघ्रगा दैत्यवरास्तु हर्षाद्द्रुतं महादैत्यपतिं समेत्य ।
ऊचुर्यथादृष्टमतीव प्रीत्या तथान्धकं वीरवरं हि सर्वे
॥३८॥मंत्रिणः ऊचुः
गुहांतरे ध्याननिमीलिताक्षो दैत्येन्द्र कश्चिन्मुनिरत्र दृष्टः ।
रूदान्वितश्चन्द्रकलार्द्धचूडः कटिस्थले बद्धगजेन्द्रकृत्तिः
॥३९॥नागेन्द्रभोगावृतसर्वगात्रः कपालमालाभरणो जटालः ।
स शूलहस्तश्शरतूणधारी महाधनुष्मान्विवृताक्षसूत्रः
॥४०॥खड्गी त्रिशूली लकुटी कपर्दी चतुर्भुजो गौरतराकृतिर्हि ।
भस्मानुलिप्तो विलसत्सुतेजास्तपस्विवर्योऽद्भुतसर्ववेशः
॥४१॥तस्याविदूरे पुरुषश्च दृष्टस्स वानरो घोरमुखःकरालः ।
सर्वायुधो रूक्षकरश्च रक्षन्स्थितो जरद्गोवृषभश्च शुक्लः
॥४२॥तस्योपविष्टस्य तपस्विनोपि सुचारुरूपा तरुणी मनोज्ञा ।
नारी शुभा पार्श्वगता हि तस्य दृष्टा च काचिद्भुवि रत्नभूता
॥४३॥प्रवालमुक्तामणि हेमरत्नवस्त्रावृता माल्यशुभोपगूढा ।
सा येन दृष्टा स च दृष्टिमान्स्याद् दृष्टेन चान्येन किमत्र कार्यम्
॥४४॥मान्या महेशस्य च दिव्यनारी भार्य्या मुनेः पुण्यवतः प्रिया सा ।
योग्या हि द्रष्टुं भवतश्च सम्यगानाय्य दैत्येन्द्र सुरत्नभोक्तः
॥४५॥सनत्कुमार उवाच
श्रुत्वेति तेषां वचनानि तानि कामातुरो घूर्णितसर्वगात्रः ।
विसर्जयामास मुनैस्सकाशं दुर्योधनादीन्सहसा स दैत्यः
॥४६॥आसाद्य ते तं मुनिमप्रमेयं बृहद्व्रतं मंत्रिवरा हि तस्य ।
सुराजनीतिप्रवणा मुनीश प्रणम्य तं दैत्यनिदेशमाहुः
॥४७॥मंत्रिण ऊचुः
हिरण्यनेत्रस्य सुतो महात्मा दैत्याधिराजोऽन्धकनामधेयः ।
त्रैलोक्यनाथो भवकृन्निदेशादिहोपविष्टोऽद्य विहारशाली
॥४८॥तन्मंत्रिणो वै वयमंगवीरास्तवोपकंठं च समागताः स्मः ।
तत्प्रेषितास्त्वां यदुवाच तद्वै शृणुष्व संदत्तमनास्तपस्विन्
॥४९॥त्वं कस्य पुत्रोऽसि किमर्थमत्र सुखोपविष्टो मुनिवर्य धीमन् ।
कस्येयमीदृक्तरुणी सुरूपा देया शुभा दैत्यपतेर्मुनीन्द्र
॥५०॥क्वेदं शरीरं तव भस्मदिग्धं कपालमालाभरणं विरूपम् ।
तूणीरसत्कार्मुकबाणखड्गभुशुंडिशूलाशनितोमराणि
॥५१॥क्व जाह्नवी पुण्यतमा जटाग्रे क्वायं शशी वा कुणपास्थिखण्डम् ।
विषानलो दीर्घमुखः क्व सर्पः क्व संगमः पीनपयोधरायाः
॥५२॥जरद्गवारोहणमप्रशस्तं क्षमावतस्तस्य न दर्शनं च ।
संध्याप्रणामः क्वचिदेष धर्मः क्व भोजनं लोकविरुद्धमेतत्
॥५३॥प्रयच्छ नारीं सम सान्त्वपूर्वं स्त्रिया तपः किं कुरुषे विमूढ ।
अयुक्तमेतत्त्वयि नानुरूपं यस्मादहं रत्नपतिस्त्रिलोके
॥५४॥विमुंच शस्त्राणि मयाद्य चोक्तः कुरुष्व पश्चात्तव एव शुद्धम् ।
उल्लंघ्य मच्छासनमप्रधृष्यं विमोक्ष्यसे सर्वमिदं शरीरम्
॥५५॥मत्वांधकं दुष्टमतिं प्रधानो महेश्वरो लौकिकभावशीलः ।
प्रोवाच दैत्यं स्मितपूर्वमेवमाकर्ण्य सर्वं त्वथ दूतवाक्यम्
॥५६॥शिव उवाच
यद्यस्मि रुद्रस्तव किं मया स्यात्किमर्थमेवं वदसीति मिथ्या ।
शृणु प्रभावं मम दैत्यनाथ न्याय्यं न वक्तुं वचनं त्वयैवम्
॥५७॥नाहं क्वचित्स्वं पितरं स्मरामि गुहांतरे घोरमनन्यचीर्णम् ।
एतद्व्रतं पशुपातं चरामि न मातरं त्वज्ञतमो विरूपः
॥५८॥अमूलमेतन्मयि तु प्रसिद्धं सुदुस्त्यजं सर्वमिदं ममास्ति ।
भार्या ममेयं तरुणी सुरूपा सर्वंसहा सर्वगतस्य सिद्धिः
॥५९॥एतर्हि यद्यद्रुचितं तवास्ति गृहाण तद्वै खलु राक्षस त्वम् ।
एतावदुक्त्वा विरराम शंभुस्तपस्विवेषः पुरतस्तु तेषाम्
॥६०॥सनत्कुमार उवाच
गंभीरमेतद्वचनं निशम्य ते दानवास्तं प्रणिपत्य मूर्ध्ना ।
जग्मुस्ततो दैत्यवरस्य सूनुं त्रैलोक्यनाशाय कृतप्रतिज्ञम्
॥६१॥बभाषिरे दैत्यपतिं प्रमत्तं प्रणम्य राजानमदीनसत्त्वाः ।
ते तत्र सर्वे जयशब्दपूर्वं रुद्रेण यत्तत्स्मितपूर्वमुक्तम्
॥६२॥मंत्रिण उचुः ।
निशाचरश्चंचलशौर्यधैर्यः क्व दानवः कृपणस्सत्त्वहीनः ।
क्रूरः कृतघ्नश्च सदैव पापी क्व दानवः सूर्यसुताद्बिभेति
॥६३॥राजत्वमुक्तोऽखिलदैत्यनाथस्तपस्विना तन्मुनिना विहस्य ।
मत्वा स्वबुद्ध्या तृणवत्त्रिलोकं महौजसा वीरवरेण नूनम्
॥६४॥क्वाहं च शस्त्राणि च दारुणानि मृत्योश्च संत्रासकरं क्व युद्ध ।
क्व वीरको वानरवक्त्रतुल्यो निशाचरो जरसा जर्जरांगः
॥६५॥क्वायं स्वरूपः क्व च मंदभाग्यो बलं त्वदीयं क्व च वीरुधो वा ।
शक्तोऽपि चेत्त्वं प्रयतस्व युद्धं कर्तुं तदा ह्येहि कुरुष्व किंचित्
॥६६॥वज्राशनेस्तुल्यमिहास्ति शस्त्रं भवादृशां नाशकरं च घोरम् ।
क्व ते शरीरं मृदुपद्मतुल्यं विचार्य चैवं कुरु रोचते यत्
॥६७॥मंत्रिण ऊचुः
इत्येवमादीनि वचांसि भद्रं तपस्विनोक्तानि च दानवेश ।
युक्तं न ते तेन सहात्र युद्धं त्वामाह राजन्स्मयमान एव
॥६८॥विवस्तुशून्यैर्बहुभिः प्रलापैरस्माभिरुक्तैर्यदि बुध्यसे त्वम् ।
तपोभियुक्तेन तपस्विना वै स्मर्तासि पश्चान्मुनिवाक्यमेतत्
॥६९॥सनत्कुमार उवाच
ततस्स तेषां वचनं निशम्य जज्वाल रोषेण स मंदबुद्धिः ।
आज्यावसिक्तस्त्विव कृष्णवर्त्मा सत्यं हितं तत्कुटिलं सुतीक्ष्णम्
॥७०॥गृहीतखड्गो वरदानमत्तः प्रचंडवातानुकृतिं च कुर्वन् ।
गंतुं च तत्र स्मरबाणविद्धस्समुद्यतोऽभूद्विप रीतदेवः
॥७१॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे अंधकगाणपत्यलाभोपाख्याने दूतसंवादो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥