मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय २१

3
रुद्रसंहिता · युद्धखण्डः · 21

ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान्

सनत्कुमार उवाच

ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान् ।

अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः

॥१॥

नन्दिनं कालनेमिश्च शुंभो लंबोदरं तथा ।

निशुंभः षण्मुखं देवमभ्यधावत शंकितः

॥२॥

निशुंभः कार्तिकेयस्य मयूरं पंचभिश्शरैः ।

हृदि विव्याध वेगेन मूर्छितस्स पपात ह

॥३॥

ततः शक्तिधरः क्रुद्धो बाणैः पंचभिरेव च ।

विव्याध स्यंदने तस्य हयान्यन्तारमेव च

॥४॥

शरेणान्येन तीक्ष्णेन निशुंभं देववैरिणम् ।

जघान तरसा वीरो जगर्ज रणदुर्मदः

॥५॥

असुरोऽपि निशुंभाख्यो महावीरोऽतिवीर्यवान् ।

जघान कार्तिकेयं तं गर्जंतं स्वेषुणा रणे

॥६॥

ततश्शक्तिं कार्तिकेयो यावजग्राह रोषतः ।

तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत्

॥७॥

एवं बभूव तत्रैव कार्तिकेयनिशुंभयोः ।

आहवो हि महान्व्यास वीरशब्दं प्रगर्जतोः

॥८॥

ततो नन्दीश्वरो बाणैः कालनेमिमविध्यत ।

सप्तभिश्च हयान्केतुं रथं सारथिमाच्छिनत्

॥९॥

कालनेमिश्च संकुद्धो धनुश्चिच्छेद नंदिनः ।

स्वशरासननिर्मुक्तैर्महातीक्ष्णैश्शिलीमुखैः

॥१०॥

अथ नन्दीश्वरो वीरः कालनेमिं महासुरम् ।

तमपास्य च शूलेन वक्षस्यभ्यहनद्दृढम्

॥११॥

स शूलभिन्नहृदयो हताश्वो हतसारथिः ।

अद्रेः शिखरमुत्पाट्य नन्दिनं समताडयत्

॥१२॥

अथ शुंभो गणेशश्च रथमूषक वाहनौ ।

युध्यमानौ शरव्रातैः परस्परमविध्यताम्

॥१३॥

गणेशस्तु तदा शुंभं हृदि विव्याध पत्रिणा ।

सारथिं च त्रिभिर्बाणैः पातयामास भूतले

॥१४॥

ततोऽतिक्रुद्धश्शुंभोऽपि बाणदृष्ट्या गणाधिपम् ।

मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः

॥१५॥

मूषकश्शरभिन्नाङ्गश्चचाल दृढवेदनः ।

लम्बोदरश्च पतितः पदातिरभवत्स हि

॥१६॥

ततो लम्बोदरश्शुंभं हत्वा परशुना हृदि ।

अपातयत्तदा भूमौ मूषकं चारुरोह सः

॥१७॥

समरायोद्यतश्चाभूत्पुनर्गजमुखो विभुः ।

प्रहस्य जघ्नतुः क्रोधात्तोत्रेणैव महाद्विपम्

॥१८॥

कालनेमिर्निशुंभश्च ह्युभौ लंबोदरं शरैः ।

युगपच्चख्नतुः क्रोधादाशीविषसमैर्द्रुतम्

॥१९॥

तं पीड्यमानमालोक्य वीरभद्रो महाबलः ।

अभ्यधावत वेगेन कोटिभूतयुतस्तथा

॥२०॥

कूष्मांडा भैरवाश्चापि वेताला योगिनीगणाः ।

पिशाचा डाकिनीसंघा गणाश्चापि समं ययुः

॥२१॥

ततः किलकिला शब्दैस्सिंहनादैश्सघर्घरैः ।

विनादिता डमरुकैः पृथिवी समकंपत

॥२२॥

ततो भूताः प्रधावंतो भक्षयंति स्म दानवान् ।

उत्पत्य पातयंति स्म ननृतुश्च रणांगणे

॥२३॥

एतस्मिन्नंतरे व्यासाभूतां नन्दीगुहश्च तौ ।

उत्थितावाप्तसंज्ञौ हि जगर्जतुरलं रणे

॥२४॥

स नन्दी कार्तिकेयश्च समायातौ त्वरान्वितौ ।

जघ्नतुश्च रणे दैत्यान्निरंतरशरव्रजैः ।

छिन्नैर्भिन्नैर्हतैर्दैत्यैः पतितैर्भक्षितैस्तथा ।

व्याकुला साभवत्सेना विषण्णवदना तदा

॥२६॥

एवं नन्दी कार्तिकेयो विकटश्च प्रतापवान् ।

वीरभद्रो गणाश्चान्ये जगर्जुस्समरेऽधिकम्

॥२७॥

निशुंभशुंभौ सेनान्यौ सिन्धुपुत्रस्य तौ तथा ।

कालनेमिर्महादैत्योऽसुराश्चान्ये पराजिताः

॥२८॥

प्रविध्वस्तां ततस्सेनां दृष्ट्वा सागरनन्दनः ।

रथेनातिपताकेन गणानभिययौ बली

॥२९॥

ततः पराजिता दैत्या अप्यभूवन्महोत्सवाः ।

जगर्जुरधिकं व्यास समरायोद्यतास्तदा

॥३०॥

सर्वे रुद्रगणाश्चापि जगर्जुर्जयशालिनः ।

नन्दिकार्तिकदंत्यास्यवीरभद्रादिका मुने

॥३१॥

हस्त्यश्वरथसंह्रादश्शंखभेरीरवस्तथा ।

अभवत्सिंहनादश्च सेनयोरुभयोस्तथा

॥३२॥

जलंधरशरव्रातैर्नीहारपटलैरिव ।

द्यावापृथिव्योराच्छन्नमंतरं समपद्यत

॥३३॥

शैलादिं पंचभिर्विद्ध्वा गणेशं पंचभिश्शरैः ।

वीरभद्रं च विंशत्या ननाद जलदस्वनः

॥३४॥

कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरम् ।

जलंधरं महावीरो रुद्रपुत्रो ननाद च

॥३५॥

स पूर्णनयनो दैत्यः शक्तिनिर्भिन्नदेहकः ।

पपात भूमौ त्वरितमुदतिष्ठन्महाबलः

॥३६॥

ततः क्रोधपरीतात्मा कार्तिकेयं जलंधरः ।

गदया ताडयामास हृदये दैत्यपुंगवः

॥३७॥

गदाप्रभावं सफलं दर्शयन्शंकरात्मजः ।

विधिदत्तवराद्व्यास स तूर्णं भूतलेऽपतत्

॥३८॥

तथैव नंदी ह्यपतद्भूतले गदया हतः ।

महावीरोऽपि रिपुहा किंचिद्व्याकुलमानसः

॥३९॥

ततो गणेश्वरः क्रुद्धस्स्मृत्वा शिवपदाम्बुजम् ।

संप्राप्यातिबलो दैत्य गदां परशुनाच्छिनत्

॥४०॥

वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ।

सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे

॥४१॥

ततोऽतिक्रुद्धो दैत्येन्द्रश्शक्तिमुद्यम्य दारुणाम् ।

गणेशं पातयामास रथमन्यं समारुहत्

॥४२॥

अभ्यगादथ वेगेन स दैत्येन्द्रो महाबलः ।

विगणय्य हृदा तं वै वीरभद्रं रुषान्वितः

॥४३॥

वीरभद्रं जघानाशु तीक्ष्णेनाशीविषेण तम् ।

ननाद च महावीरो दैत्यराजो जलंधरः

॥४४॥

वीरभद्रोऽपि संकुद्धस्सितधारेण चेषुणा ।

चिच्छेद तच्छरं चैव विव्याध महेषुणा

॥४५॥

ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम् ।

नानाशस्त्रैस्तथास्त्रैश्च चिरं वीरवरोत्तमौ

॥४६॥

वीरभद्रस्ततस्तस्य हयान्बाणैरपातयत् ।

धनुश्चिच्छेद रथिनः पताकां चापि वेगतः

॥४७॥

अथो स दैत्यराजो हि पुप्लुवे परिघायुधः ।

वीरभद्रोपकठं स द्रुतमाप महाबलः

॥४८॥

परिघेनातिमहता वीरभद्रं जघान ह ।

सबलोऽब्धितनयो मूर्ध्नि वीरो जगर्ज च

॥४९॥

परिघेनातिमहता भिन्नमूर्द्धा गणाधिपः ।

वीरभद्रः पपातोर्व्यां मुमोच रुधिरं बहु

॥५०॥

पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात् ।

अपागच्छन्रणं हित्वा क्रोशमाना महेश्वरम्

॥५१॥

अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः ।

निजपार्श्वस्थितान् वीरानपृच्छद्गणसत्तमान्

॥५२॥

शंकर उवाच

किमर्थं मद्गणानां हि महाकोलाहलोऽभवत् ।

विचार्यतां महावीराश्शांतिः कार्या मया ध्रुवम्

॥५३॥

यावत्स देवेशो गणान्पप्रच्छ सादरम् ।

तावद्गणवरास्ते हि समायाताः प्रभुं प्रति

॥५४॥

तान्दृष्ट्वा विकलान्रुद्रः पप्रच्छ इति कुशलं प्रभुः ।

यथावत्ते गणा वृत्तं समाचख्युश्च विस्तरात्

॥५५॥

तच्छ्रुत्वा भगवानुद्रो महालीलाकरः प्रभुः ।

अभयं दत्तवांस्तेभ्यो महोत्साहं प्रवर्द्धयन्

॥५६॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरोपाख्याने विशे षयुद्धवर्णनं नामैकविंशतितमोऽध्यायः ॥ २१ ॥