मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ४१

3
रुद्रसंहिता · युद्धखण्डः · 41

नारायणश्च भगवान् वीर्याधानं चकार ह

व्यास उवाच

नारायणश्च भगवान् वीर्याधानं चकार ह ।

तुलस्याः केन यत्नेन योनौ तद्वक्तुमर्हसि

॥१॥

सनत्कुमार उवाच

नारायणो हि देवानां कार्यकर्ता सतां गतिः ।

शंखचूडस्य रूपेण रेमे तद्रमया सह

॥२॥

तदेव शृणु विष्णोश्च चरितं प्रमुदावहम् ।

शिवशासनकर्तुश्च मातुश्च जगतां हरेः

॥३॥

रणमध्ये व्योमवचः श्रुत्वा देवेन शंभुना ।

प्रेरितश्शंखचूडस्य गृहीत्वा कवचं परम्

॥४॥

विप्ररूपेण त्वरितं मायया निजया हरिः ।

जगाम शंखचूडस्य रूपेण तुलसीगृहम्

॥५॥

दुन्दुभिं वादयामास तुलसी द्वारसन्निधौ ।

जयशब्दं च तत्रैव बोधयामास सुन्दरीम्

॥६॥

तच्छ्रुत्वा चैव सा साध्वी परमानन्दसंयुता ।

राजमार्गं गवाक्षेण ददर्श परमादरात्

॥७॥

ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मंगलम् ।

द्रुतं चकार शृंगारं ज्ञात्वाऽऽयातं निजं पतिम्

॥८॥

अवरुह्य रथाद्विष्णुस्तद्देव्याभवनं ययौ ।

शंखचूडस्वरूपः स मायावी देवकार्यकृत्

॥९॥

दृष्ट्वा तं च पुरः प्राप्तं स्वकांतं सा मुदान्विता ।

तत्पादौ क्षालयामास ननाम च रुरोद च

॥१०॥

रत्नसिंहासने रम्ये वासयामास मंगलम् ।

ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम्

॥११॥

अद्य मे सफलं जन्म जीवनं संबभूव ह ।

रणे गतं च प्राणेशं पश्यंत्याश्च पुनर्गृहे

॥१२॥

इत्युक्त्वा सकटाक्षं सा निरीक्ष्य सस्मितं मुदा ।

पप्रच्छ रणवृत्तांतं कांतं मधुरया गिरा

॥१३॥

तुलस्युवाच

असंख्यविश्वसंहर्ता स देवप्रवरः प्रभुः ।

यस्याज्ञावर्त्तिनो देवा विष्णुब्रह्मादयस्सदा

॥१४॥

त्रिदेवजनकस्सोत्र त्रिगुणात्मा च निर्गुणः ।

भक्तेच्छया च सगुणो हरिब्रह्मप्रवर्तकः

॥१५॥

कुबेरस्य प्रार्थनया गुणरूपधरो हरः ।

कैलासवासी गणपः परब्रह्म सतां गतिः

॥१६॥

यस्यैकपलमात्रेण कोटिब्रह्मांडसंक्षयः ।

विष्णुब्रह्मादयोऽतीता बहवः क्षणमात्रतः

॥१७॥

कर्तुं सार्द्धं च तेनैव समरं त्वं गतः प्रभो ।

कथं बभूव संग्रामस्तेन देवसहायिना

॥१८॥

कुशली त्वमिहायातस्तं जित्वा परमेश्वरम् ।

कथं बभूव विजयस्तव ब्रूहि तदेव मे

॥१९॥

श्रुत्वेत्थं तुलसीवाक्यं स विहस्य रमापतिः ।

शंखचूडरूपधरस्तामुवाचामृतं वचः

॥२०॥

भगवानुवाच

यदाहं रणभूमौ च जगाम समरप्रियः ।

कोलाहलो महान् जातः प्रवृत्तोऽभून्महारणः

॥२१॥

देवदानवयोर्युद्धं संबभूव जयैषिणोः ।

दैत्याः पराजितास्तत्र निर्जरैर्बलगर्वितैः

॥२२॥

तदाहं समरं तत्राकार्षं देवैर्बलोत्कटैः ।

पराजिताश्च ते देवाश्शंकरं शरणं ययुः

॥२३॥

रुद्रोऽपि तत्सहायार्थमाजगाम रणं प्रति ।

तेनाहं वै चिरं कालमयौत्संबलदर्पित

॥२४॥

आवयोस्समरः कान्ते पूर्णमब्दं बभूव ह ।

नाशो बभूव सर्वेषामसुराणां च कामिनि

॥२५॥

प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः ।

देवानामधिकाराश्च प्रदत्ता ब्रह्मशासनात्

॥२६॥

मयागतं स्वभवनं शिवलोकं शिवो गतः ।

सर्वस्वास्थ्यमतीवाप दूरीभूतो ह्युपद्रवः

॥२७॥

सनत्कुमार उवाच

इत्युक्त्वा जगतां नाथः शयनं च चकार ह ।

रेमे रमापतिस्तत्र रमया स तया मुदा

॥२८॥

सा साध्वी सुखसंभावकर्षणस्य व्यतिक्रमात् ।

सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा

॥२९॥

तुलस्युवाच

को वा त्वं वद मामाशु भुक्ताहं मायया त्वया ।

दूरीकृतं यत्सतीत्वमथ त्वां वै शपाम्यहम्

॥३०॥

सनत्कुमार उवाच

तुलसीवचनं श्रुत्वा हरिश्शापभयेन च ।

दधार लीलया ब्रह्मन्स्वमूर्तिं सुमनोहराम्

॥३१॥

तद्दृष्ट्वा तुलसीरूपं ज्ञात्वा विष्णुं तु चिह्नतः ।

पातिव्रत्यपरित्यागात् क्रुद्धा सा तमुवाच ह

॥३२॥

तुलस्युवाच

हे विष्णो ते दया नास्ति पाषाणसदृशं मनः ।

पतिधर्मस्य भंगेन मम स्वामी हतः खलु

॥३३॥

पाषाणसदृशस्त्वं च दयाहीनो यतः खलः ।

तस्मात्पाषाणरूपस्त्वं मच्छापेन भवाधुना

॥३४॥

ये वदंति दयासिन्धुं त्वां भ्रांतास्ते न संशयः ।

भक्तो विनापराधेन परार्थे च कथं हतः

॥३५॥

सनत्कुमार उवाच

इत्युक्त्वा तुलसी सा वै शंखचूडप्रिया सती ।

भृशं रुरोद शोकार्ता विललाप भृशं मुहुः

॥३६॥

ततस्तां रुदतीं दृष्ट्वा स विष्णुः परमेश्वरः ।

सस्मार शंकरं देवं येन संमोहितं जगत्

॥३७॥

ततः प्रादुर्बभूवाथ शंकरो भक्तवत्सलः ।

हरिणा प्रणतश्चासीत्संनुतो विनयेन सः

॥३८॥

शोकाकुलं हरिं दृष्ट्वा विलपंतीं च तत्प्रियाम् ।

नयेन बोधयामास तं तां कृपणवत्सलाम्

॥३९॥

शंकर उवाच

मा रोदीस्तुलसि त्वं हि भुंक्ते कर्मफलं जनः ।

सुखदुःखदो न कोप्यस्ति संसारे कर्मसागरे

॥४०॥

प्रस्तुतं शृणु निर्दुःखं शृणोति सुमना हरिः ।

द्वयोस्सुखकरं यत्तद्ब्रवीमि सुखहेतवे

॥४१॥

तपस्त्वया कृतं भद्रे तस्यैव तपसः फलम् ।

तदन्यथा कथं स्याद्वै जातं त्वयि तथा च तत्

॥४२॥

इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च ।

रमस्व हरिणा नित्यं रमया सदृशी भव

॥४३॥

तवेयं तनुरुत्सृष्टा नदीरूपा भवेदिह ।

भारते पुण्यरूपा सा गण्डकीति च विश्रुता

॥४४॥

कियत्कालं महादेवि देवपूजनसाधने ।

प्रधानरूपा तुलसी भविष्यति वरेण मे

॥४५॥

स्वर्गं मर्त्ये च पाताले तिष्ठ त्वं हरिसन्निधौ ।

भव त्वं तुलसीवृक्षो वरा पुष्पेषु सुन्दरी

॥४६॥

वृक्षाधिष्ठातृदेवी त्वं वैकुंठे दिव्यरूपिणी ।

सार्द्धं रहसि हरिणा नित्यं क्रीडां करिष्यसि

॥४७॥

नद्यधिष्ठातृदेवी या भारते बहु पुण्यदा ।

लवणोदस्य पत्नी सा हर्यंशस्य भविष्यसि

॥४८॥

हरिर्वे शैलरूपी च गंडकी तीरसंनिधौ ।

संकरिष्यत्यधिष्ठानं भारते तव शापतः

॥४९॥

तत्र कोट्यश्च कीटाश्च तीक्ष्णदंष्ट्रा भयंकराः ।

तच्छित्त्वा कुहरे चक्रं करिष्यंति तदीयकम्

॥५०॥

शालग्रामशिला सा हि तद्भेदादतिपुण्यदा ।

लक्ष्मीनारायणाख्यादिश्चक्रभेदाद्भविष्यति

॥५१॥

शालग्रामशिला विष्णो तुलस्यास्तव संगमः ।

सदा सादृश्यरूपा या बहुपुण्यविवर्द्धिनी

॥५२॥

तुलसीपत्रविच्छेदं शालग्रामे करोति यः ।

तस्य जन्मान्तरे भद्रे स्त्रीविच्छेदो भविष्यति

॥५३॥

तुलसीपत्रविच्छेदं शंखं हित्वा करोति यः ।

भार्याहीनो भवेत्सोपि रोगी स्यात्सप्तजन्मसु

॥५४॥

शालग्रामश्च तुलसी शंखं चैकत्र एव हि ।

यो रक्षति महाज्ञानी स भवेच्छ्रीहरिप्रियः

॥५५॥

त्वं प्रियः शंखचूडस्य चैकमन्वन्तरावधि ।

शंखेन सार्द्धं त्वद्भेदः केवलं दुःखदस्तव

॥५६॥

सनत्कुमार उवाच

इत्युक्त्वा शंकरस्तत्र माहात्म्यमूचिवांस्तदा ।

शालग्रामशिलायाश्च तुलस्या बहुपुण्यदम्

॥५७॥

ततश्चांतर्हितो भूत्वा मोदयित्वा हरिं च ताम् ।

जगाम् स्वालयं शंभुः शर्मदो हि सदा सताम्

॥५८॥

इति श्रुत्वा वचश्शंभोः प्रसन्ना तु तुलस्यभूत् ।

तद्देहं च परित्यज्य दिव्यरूपा बभूव ह

॥५९॥

प्रजगाम तया सार्द्धं वैकुंठं कमलापतिः ।

सद्यस्तद्देहजाता च बभूव गंडकी नदी

॥६०॥

शैलोभूदच्युतस्सोऽपि तत्तीरे पुण्यदो नृणाम् ।

कुर्वंति तत्र कीटाश्च छिद्रं बहुविधं मुने

॥६१॥

जले पतंति यास्तत्र शिलास्तास्त्वतिपुण्यदाः ।

स्थलस्था पिंगला ज्ञेयाश्चोपतापाय चैव हि

॥६२॥

इत्येवं कथितं सर्वं तव प्रश्नानुसारतः ।

चरितं पुण्यदं शंभोः सर्वकामप्रदं नृणाम्

॥६३॥

आख्यानमिदमाख्यातं विष्णुमाहात्म्यमिश्रितम् ।

भुक्तिमुक्तिप्रदं पुण्यं किं भूयः श्रोतुमिच्छसि

॥६४॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडव धोपाख्याने तुलसीशापवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥