ब्रह्मपुत्र महाप्राज्ञ धन्यस्त्वं शैवसत्तम
व्यास उवाच
ब्रह्मपुत्र महाप्राज्ञ धन्यस्त्वं शैवसत्तम ।
किमकार्षुस्ततो देवा दग्धे च त्रिपुरेऽखिलाः
॥१॥मयः कुत्र गतो दग्धो पतयः कुत्र ते गताः ।
तत्सर्वं मे समाचक्ष्व यदि शंभुकथाश्रयम्
॥२॥सूत उवाच
इत्याकर्ण्य व्यासवाक्यं भगवान्भवकृत्सुतः ।
सनत्कुमारः प्रोवाच शिवपादयुगं स्मरन्
॥३॥सनत्कुमार उवाच
शृणु व्यास महाबुद्धे पाराशर्यं महेशितुः ।
चरितं सर्वपापघ्नं लोकलीलानुसाररिणः
॥४॥महेश्वरेण सर्वस्मिंस्त्रिपुरे दैत्यसंकुले ।
दग्धे विशेषतस्तत्र विस्मितास्तेऽभवन्सुराः
॥५॥न किंचिदब्रुवन्देवाः सेन्द्रोपेंद्रादयस्तदा ।
महातेजस्विनं रुद्रं सर्वे वीक्ष्य ससंभ्रमाः
॥६॥महाभयंकरं रौद्रं प्रज्वलंतं दिशो दश ।
कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम्
॥७॥भयाद्देवं निरीक्ष्यैव देवीं च हिमवत्सुताम् ।
बिभ्यिरे निखिला देवप्रमुखा स्तस्थुरानताः
॥८॥दृष्ट्वानीकं तदा भीतं देवानामृषिपुंगवाः ।
न किंचिदूचुस्संतस्थुः प्रणेमुस्ते समंततः
॥९॥अथ ब्रह्मापि संभीतो दृष्ट्वा रूपं च शांकरम् ।
तुष्टाव तुष्टहृदयो देवैस्सह समाहितः
॥१०॥विष्णुना च सभीतेन देवदेवं भवं हरम् ।
त्रिपुरारिं सगिरिजं भक्ताधीनं महेश्वरम्
॥११॥ब्रह्मोवाच
देवदेव महादेव भक्तानुग्रहकारक ।
प्रसीद परमेशान सर्व देवहितप्रद
॥१२॥प्रसीद जगतां नाथ प्रसीदानंददायक ।
प्रसीद शंकर स्वामिन् प्रसीद परमेश्वर
॥१३॥ॐकाराय नमस्तुभ्यमाकारपरतारक ।
प्रसीद सर्वदेवेश त्रिपुरघ्न महेश्वर
॥१४॥नानावाच्याय देवाय वरणप्रिय शंकर ।
अगुणाय नमस्तुभ्यं प्रकृतेः पुरुषात्पर
॥१५॥निर्विकाराय नित्याय नित्यतृप्ताय भास्वते ।
निरंजनाय दिव्याय त्रिगु णाय नमोऽस्तु ते
॥१६॥सगुणाय नमस्तुभ्यं स्वर्गेशाय नमोस्तु ते ।
सदाशिवाय शांताय महेशाय पिनाकिने
॥१७॥सर्वज्ञाय शरण्याय सद्योजाताय ते नमः ।
वामदेवाय रुद्राय तदाप्यपुरुषाय च
॥१८॥अघोराय सुसेव्याय भक्ताधीनाय ते नमः ।
ईशानाय वरेण्याय भक्तानंदप्रदायिने
॥१९॥रक्षरक्ष महादेव भीतान्नस्सकलामरान् ।
दग्ध्वा च त्रिपुरं सर्वे कृतार्था अमराः कृ ताः
॥२०॥स्तुत्वैवं देवतास्सर्वा नमस्कारं पृथक्पृथक् ।
चक्रुस्ते परमप्रीता ब्रह्माद्यास्तु सदाशिवम्
॥२१॥अथ ब्रह्मा स्वयं देवं त्रिपुरारिं महेश्वरम् ।
तुष्टाव प्रणतो भूत्वा नतस्कंधः कृतांजलिः
॥२२॥ब्रह्मोवाच
भगवन्देवदेवेश त्रिपुरान्तक शंकर ।
त्वयि भक्तिः परा मेऽस्तु महादेवानपायिनी
॥२३॥सर्वदा मेऽस्तु सारथ्यं तव देवेश शंकर ।
अनुकूलो भव विभो सदा त्वं परमेश्वर
॥२४॥सनत्कुमार उवाच
इति स्तुत्वा विधिश्शंभुं भक्तवत्सलमानतः ।
विरराम नतस्कंधः कृतांजलिरुदारधीः
॥२५॥जनार्दनोऽपि भगवान् नमस्कृत्य महेश्वरम् ।
कृतांजलिपुटो भूत्वा तुष्टाव च महेश्वरम्
॥२६॥विष्णुरुवाच
देवाधीश महेशान दीनबंधो कृपाकर ।
प्रसीद परमेशान कृपां कुरु नतप्रिय
॥२७॥निर्गुणाय नमस्तुभ्यं पुनश्च सगुणाय च ।
पुनः प्रकृतिरूपाय पुनश्च पुरुषाय च
॥२८॥पश्चाद्गुणस्वरूपाय नतो विश्वात्मने नमः ।
भक्तिप्रियाय शांताय शिवाय परमात्मने
॥२९॥सदाशिवाय रुद्राय जगतां पतये नमः ।
त्वयि भक्तिर्दृढा मेऽद्य वर्द्धमाना भवत्विति
॥३०॥सनत्कुमार उवाच
इत्युक्त्वा विररामासौ शैवप्रवरसत्तमः ।
सर्वे देवाः प्रणम्योचुस्ततस्तं परमेश्वरम्
॥३१॥देवा ऊचुः
देवनाथ महादेव करुणाकर शंकर ।
प्रसीद जगतां नाथ प्रसीद परमेश्वर
॥३२॥प्रसीद सर्वकर्ता त्वं नमामस्त्वां वयं मुदा ।
भक्तिर्दृढास्माकं नित्यं स्यादनपायिनी
॥३३॥सनत्कुमार उवाच
इति स्तुतश्च देवेशो ब्रह्मणा हरिणामरैः ।
प्रत्युवाच प्रसन्नात्मा शंकरो लोकशंकरः
॥३४॥शंकर उवाच
हे विधे हे हरे देवाः प्रसन्नोऽस्मि विशेषतः ।
मनोऽभिलषितं ब्रूत वरं सर्वे विचा रतः
॥३५॥सनत्कुमारः उवाच
इत्युक्तं वचनं श्रुत्वा हरेण मुनिसत्तम ।
प्रत्यूचुस्सर्वदेवाश्च प्रसन्नेनान्तरात्मना
॥३६॥सर्वे देवा ऊचुः
यदि प्रसन्नो भगवन्यदि देयो वरस्त्वया ।
देवदेवेश चास्मभ्यं ज्ञात्वा दासान्हि नस्सुरान्
॥३७॥यदा दुःखं तु देवानां संभवेद्देवसत्तम ।
तदा त्वं प्रकटो भूत्वा दुःखं नाशय सर्वदा
॥३८॥सनत्कुमार उवाच
इत्युक्तो भगवानुद्रो ब्रह्मणा हरिणामरैः ।
युगपत्प्राह तुष्टात्मा तथेत्यस्तु निरंतरम्
॥३९॥स्तवैरेतैश्च तुष्टोऽस्मि दास्यामि सर्वदा ध्रुवम् ।
यदभीष्टतमं लोके पठतां शृण्वतां सुराः
॥४०॥इत्युक्त्वा शंकरः प्रीतो देवदुःखहरस्सदा ।
सर्वदेवप्रियं यद्वै तत्सर्वं च प्रदत्तवान्
॥४१॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥