मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय २९

3
रुद्रसंहिता · युद्धखण्डः · 29

स्वगेहमागते तस्मिञ्शंखचूडे विवाहिते

सनत्कुमार उवाच

स्वगेहमागते तस्मिञ्शंखचूडे विवाहिते ।

तपः कृत्वा वरं प्राप्य मुमुदुर्दानवादयः

॥१॥

स्वलोकादाशु निर्गत्य गुरुणा स्वेन संयुताः ।

सर्वे सुरास्संमिलितास्समाजग्मुस्तदंतिकम्

॥२॥

प्रणम्य तं सविनयं संस्तुत्य विविधादरात् ।

स्थितास्तत्रैव सुप्रीत्या मत्वा तेजस्विनं विभुम्

॥३॥

सोपि दम्भात्मजो दृष्ट्वा गतं कुल गुरुं च तम् ।

प्रणनाम महाभक्त्या साष्टांगं परमादरात्

॥४॥

अथ शुक्रः कुलाचार्यो दृष्ट्वाशिषमनुत्तमम् ।

वृत्तांतं कथयामास देवदानवयोस्तदा

॥५॥

स्वाभाविकं च तद्वैरमसुराणां पराभवम् ।

विजयं निर्जराणां च जीवसाहाय्यमेव च

॥६॥

ततस्स सम्मतं कृत्वा सुरैस्सर्वैस्समुत्सवम् ।

दानवाद्यसुराणां तमधिपं विदधे गुरुः

॥७॥

तदा समुत्सवो जातोऽसुराणां मुदितात्मनाम् ।

उपायनानि सुप्रीत्या ददुस्तस्मै च तेऽखिलाः

॥८॥

अथ दम्भात्मजो वीरश्शंखचूडः प्रतापवान् ।

राज्याभिषेकमासाद्य स रेजे सुरराट् तदा

॥९॥

स सेनां महतीं कर्षन्दैत्यदानवरक्षसाम् ।

रथमास्थाय तरसा जेतुं शक्रपुरीं ययौ

॥१०॥

गच्छन्स दानवेन्द्रस्तु तेषां सेवनकुर्वताम् ।

विरेजे शशिवद्भानां ग्रहाणां ग्रहराडिव

॥११॥

आगच्छंतं शङ्खचूडमाकर्ण्याखण्डलस्स्वराट् ।

निखिलैरमरैस्सार्द्धं तेन योद्धुं समुद्यतः

॥१२॥

तदाऽसुरैस्सुराणां च संग्रामस्तुमुलो ह्यभूत् ।

वीराऽऽनन्दकरः क्लीबभयदो रोमहर्षणः

॥१३॥

महान्कोलाहलो जातो वीराणां गर्जतां रणे ।

वाद्यध्वनिस्तथा चाऽऽसीत्तत्र वीरत्ववर्द्धिनी

॥१४॥

देवाः प्रकुप्य युयुधुरसुरैर्बलवत्तराः ।

पराजयं च संप्रापुरसुरा दुद्रुवुर्भयात्

॥१५॥

पलायमानास्तान्दृष्ट्वा शंखचूडस्स्वयं प्रभुः ।

युयुधे निर्जरैस्साकं सिंहनादं प्रगर्ज्य च

॥१६॥

तरसा सहसा चक्रे कदनं त्रिदिवौकसाम् ।

प्रदुद्रुवुस्सुरास्सर्वे तत्सुतेजो न सेहिरे

॥१७॥

यत्र तत्र स्थिता दीना गिरीणां कंदरासु च ।

तदधीना न स्वतंत्रा निष्प्रभाः सागरा यथा

॥१८॥

सोपि दंभात्मजश्शूरो दानवेन्द्रः प्रतापवान् ।

सुराधिकारान्संजह्रे सर्वाँल्लोकान्विजित्य च

॥१९॥

त्रैलोक्यं स्ववशंचक्रे यज्ञभागांश्च कृत्स्नशः ।

स्वयमिन्द्रो बभूवापि शासितं निखिलं जगत्

॥२०॥

कौबेरमैन्दवं सौर्यमाग्नेयं याम्यमेव च ।

कारयामास वायव्यमधिकारं स्वशक्तितः

॥२१॥

देवानामसुराणां च दानवानां च रक्षसाम् ।

गंधर्वाणां च नागानां किन्नराणां रसौकसाम्

॥२२॥

त्रिलोकस्य परेषां च सकलानामधीश्वरः ।

स बभूव महावीरश्शंखचूडो महाबली

॥२३॥

एवं स बुभुजे राज्यं राजराजेश्वरो महान् ।

सर्वेषां भुवनानां च शंखचूडश्चिरं समाः

॥२४॥

तस्य राज्ये न दुर्भिक्षं न मारी नाऽशुभग्रहाः ।

आधयो व्याधयो नैव सुखिन्यश्च प्रजाः सदा

॥२५॥

अकृष्टपच्या पृथिवी ददौ सस्यान्यनेकशः ।

ओषध्यो विविधाश्चासन्सफलास्सरसाः सदा

॥२६॥

मण्याकराश्च नितरां रत्नखन्यश्च सागराः ।

सदा पुष्पफला वृक्षा नद्यस्तु सलिलावहाः

॥२७॥

देवान् विनाखिला जीवास्सुखिनो निर्विकारकाः ।

स्वस्वधर्मा स्थितास्सर्वे चतुर्वर्णाश्रमाः परे

॥२८॥

तस्मिच्छासति त्रैलोक्ये न कश्चिद् दुःखितोऽभवत् ।

भ्रातृवैरत्वमाश्रित्य केवलं दुःखिनोऽमराः

॥२९॥

स शंखचूडः प्रबलः कृष्णस्य परमस्सखा ।

कृष्णभक्तिरतस्साधुस्सदा गोलोकवासिनः

॥३०॥

पूर्वशापप्रभावेण दानवीं योनिमाश्रितः ।

न दानवमतिस्सोभूद्दानवत्वेऽपि वै मुने

॥३१॥

ततस्सुरगणास्सर्वे हृतराज्या पराजिताः ।

संमंत्र्य सर्षयस्तात प्रययुर्ब्रह्मणस्सभाम्

॥३२॥

तत्र दृष्ट्वा विधातारं नत्वा स्तुत्वा विशेषतः ।

ब्रह्मणे कथयामासुस्सर्वं वृत्तांतमाकुलाः

॥३३॥

ब्रह्मा तदा समाश्वास्य सुरान् सर्वान्मुनीनपि ।

तैश्च सार्द्धं ययौ लोके वैकुण्ठं सुखदं सताम्

॥३४॥

ददर्श तत्र लक्ष्मीशं ब्रह्मा देवगणैस्सह ।

किरीटिनं कुंडलिनं वनमालाविभूषितम्

॥३५॥

शंखचक्रगदापद्मधरं देवं चतुर्भुजम् ।

सनंदनाद्यैः सिद्धैश्च सेवितं पीतवाससम्

॥३६॥

दृष्ट्वा विष्णुं सुरास्सर्वे ब्रह्माद्यास्समुनीश्वराः ।

प्रणम्य तुष्टुवुर्भक्त्या बद्धाञ्जलिकरा विभुम्

॥३७॥

देवा ऊचु ।

देवदेव जगन्नाथ वैकुंठाधिपते प्रभो ।

रक्षास्माञ्शरणापन्नाञ्छ्रीहरे त्रिजगद्गुरो

॥३८॥

त्वमेव जगतां पाता त्रिलोकेशाच्युत प्रभो ।

लक्ष्मीनिवास गोविन्द भक्तप्राण नमोऽस्तु ते

॥३९॥

इति स्तुत्वा सुरास्सर्वे रुरुदुः पुरतो हरेः ।

तच्छ्रुत्वा भगवान्विष्णुर्ब्रह्माणमिदमब्रवीत्

॥४०॥

विष्णुरुवाच

किमर्थमागतोसि त्वं वैकुंठं योगिदुर्लभम् ।

किं कष्टं ते समुद्भूतं तत्त्वं वद ममाग्रतः

॥४१॥

सनत्कुमार उवाच

इति श्रुत्वा हरेर्वाक्यं प्रणम्य च मुहुर्मुहुः ।

बद्धाञ्जलिपुटो भूत्वा विन यानतकन्धरः

॥४२॥

वृत्तांतं कथयामास शंखचूडकृतं तदा ।

देवकष्टसमाख्यानं पुरो विष्णोः परात्मनः

॥४३॥

हरिस्तद्वचनं श्रुत्वा सर्वतसर्वभाववित् ।

प्रहस्योवाच भगवांस्तद्रहस्यं विधिं प्रति

॥४४॥

श्रीभगवानुवाच

शंखचूडस्य वृत्तांतं सर्वं जानामि पद्मज ।

मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा

॥४५॥

शृणुतस्सर्ववृत्तान्तमितिहासं पुरातनम् ।

संदेहो नैव कर्तव्यश्शं करिष्यति शङ्करः

॥४६॥

सर्वोपरि च यस्यास्ति शिवलोकः परात्परः ।

यत्र संराजते शंभुः परब्रह्म परमेश्वरः

॥४७॥

प्रकृतेः पुरुषस्यापि योधिष्ठाता त्रिशक्तिधृक् ।

निर्गुणस्सगुणस्सोपि परं ज्योतिः स्वरूपवान्

॥४८॥

यस्यांगजास्तु वै ब्रह्मंस्त्रयस्सृष्ट्यादिकारकाः ।

सत्त्वादिगुणसंपन्ना विष्णुब्रह्महराभिधाः

॥४९॥

स एव परमात्मा हि विहरत्युमया सह ।

यत्र मायाविनिर्मुक्तो नित्यानित्य प्रकल्पकः

॥५०॥

तत्समीपे च गोलोको गोशाला शंकरस्य वै ।

तस्येच्छया च मद्रूपः कृष्णो वसति तत्र ह

॥५१॥

तद्गवां रक्षणार्थाय तेनाज्ञप्तस्सदा सुखी ।

तत्संप्राप्तसुखस्सोपि संक्रीडति विहारवित्

॥५२॥

तस्य नारी समाख्याता राधेति जगदम्बिका ।

प्रकृतेः परमा मूर्तिः पंचमी सुविहारिणी

॥५३॥

बहुगोपाश्च गोप्यश्च तत्र संति तदंगजाः ।

सुविहारपरा नित्यं राधाकृष्णानुवर्तिनः

॥५४॥

स एव लीलया शंभोरिदानीं मोहितोऽनया ।

संप्राप्तो दानवीं योनिं मुधा शापात्स्वदुःखदाम्

॥५५॥

रुद्रशूलेन तन्मृत्यु कृष्णेन विहितः पुरा ।

ततस्स्वदेहमुत्सृज्य पार्षदस्स भविष्यति

॥५६॥

इति विज्ञाय देवेश न भयं कर्तुमर्हसि ।

शंकर शरणं यावस्स सद्यश्शंविधास्यति

॥५७॥

अहं त्वं चामरास्सर्वे तिष्ठंतीह विसाध्वसाः

॥५८॥

सनत्कुमार उवाच

इत्युक्त्वा सविधिर्विष्णुः शिवलोकं जगाम ह ।

संस्मरन्मनसा शंभुं सर्वेशं भक्तवत्सलम्

॥५९॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधोपाख्याने शंखचूडराज्यकरणवर्णनपूर्वक तत्पूर्वभववृत्तचरित्रवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥