शुक्रे निगीर्णे रुद्रेण किमकार्षुश्च दानवाः
व्यास उवाच
शुक्रे निगीर्णे रुद्रेण किमकार्षुश्च दानवाः ।
अंधकेशा महावीरा वद तत्त्वं महामुने
॥१॥सनत्कुमार उवाच
काव्ये निगीर्णे गिरिजेश्वरेण दैत्या जयाशारहिता बभूवुः ।
हस्तैर्विमुक्ता इव वारणेन्द्राः शृंगैर्विहीना इव गोवृषाश्च
॥२॥शिरो विहीना इव देवसंघा द्विजा यथा चाध्ययनेन हीनाः ।
निरुद्यमास्सत्त्वगणा यथा वै यथोद्यमा भाग्यविवर्जिताश्च
॥३॥पत्या विहीनाश्च यथैव योषा यथा विपक्षाः खलु मार्गणौघाः ।
आयूंषि हीनानि यथैव पुण्यैर्व्रतैर्विहीनानि यथा श्रुतानि
॥४॥विना यथा वैभवशक्तिमेकां भवंति हीनास्स्वफलैः क्रियौघाः ।
यथा विशूराः खलु क्षत्रियाश्च सत्यं विना धर्मगणो यथैव
॥५॥नन्दिना चा हृते शुक्रे गिलिते च विषादिना ।
विषादमगमन्दैत्या यतमानरणोत्सवाः
॥६॥तान् वीक्ष्य विगतोत्साहानंधकः प्रत्यभाषत ।
दैत्यांस्तुहुंडाहुंडदीन्महाधीरपराक्रमः
॥७॥अंधक उवाच
कविं विक्रम्य नयता नन्दिना वंचिता वयम् ।
तनूर्विना कृताः प्राणास्सर्वेषामद्य नो ननु
॥८॥धैर्यं वीर्यं गतिः कीर्तिस्सत्त्वं तेजः पराक्रमः ।
युगपन्नो हृतं सर्वमेकस्मिन् भार्गवे हृते
॥९॥धिगस्मान् कुलपूज्यो यैरेकोपि कुलसत्तमः ।
गुरुस्सर्वसमर्थश्च त्राता त्रातो न चापदि
॥१०॥तद्यूयमविलंब्येह युध्यध्वमरिभिस्सह ।
वीरैस्तैः प्रमथैवीराः स्मृत्वा गुरुपदांबुजम् ।
गुरोः काव्यस्य सुखदौ स्मृत्वा चरणपंकजौ ।
सूदयिष्याम्यहं सर्वान् प्रमथान् सह नन्दिना
॥१२॥अद्यैतान् विवशान् हत्वा सहदेवैस्सवासवैः ।
भार्गवं मोचयिष्यामि जीवं योगीव कर्मतः
॥१३॥स चापि योगी योगेन यदि नाम स्वयं प्रभुः ।
शरीरात्तस्य निर्गच्छेदस्माकं शेषपालिता
॥१४॥सनत्कुमार उवाच
इत्यन्धकवचः श्रुत्वा दानवा मेघनिस्स्वनाः ।
प्रमथान् निर्दयाः प्राहुर्मर्तव्ये कृतनिश्चयाः
॥१५॥सत्यायुषि न नो जातु शक्तास्स्युः प्रमथा बलात् ।
असत्यायुपि किं गत्वा त्यक्त्वा स्वामिनमाहवे
॥१६॥ये स्वामिनं विहायातो बहुमानधना जनाः ।
यांति ते यांति नियतमंधतामिस्रमालयम्
॥१७॥अयशस्तमसा ख्यातिं मलिनीकृत्य भूरिशः ।
इहामुत्रापि सुखिनो न स्युर्भग्ना रणाजिरे
॥१८॥किं दानै किं तपोभिश्च किं तीर्थपरिमज्जनैः ।
धारातीर्थे यदि स्नानं पुनर्भवमलापहे
॥१९॥संप्रथार्येति तद्वाक्यं दैत्यास्ते दनुजास्तथा ।
ममंथुः प्रमथानाजौ रणभेरीं निनाद्य च
॥२०॥तत्र बाणासिवज्रौघैः कठिनैश्च शिलामयैः ।
भुशुण्डिभिंदिपालैश्च शक्ति भल्लपरश्वधैः
॥२१॥खट्वांगैः पट्टिशैश्शूलैर्लकुटैर्मुसलैरलम् ।
परस्परमभिघ्नंतः प्रचक्रुः कदनं महत्
॥२२॥कार्मुकाणां विकृष्टानां पततां च पतत्त्रिणाम् ।
भिंदिपालभुशुंडीनां क्ष्वेडितानां रवोऽभवत्
॥२३॥रणतूर्य्यनिनादैश्च गजानां बहुबृंहितैः ।
हेषारवैर्हयानां च महान्कोलाहलोऽभवत्
॥२४॥अस्तिस्वनैरवापूरि द्यावाभूम्योर्यदंतरम् ।
अभीरूणां च भीरूणां महारोमोद्गमोऽभवत्
॥२५॥गजवाजिमहारावस्फुटशब्दग्रहाणि च ।
भग्नध्वजपताकानि क्षीणप्रहरणानि च
॥२६॥रुधिरोद्गारचित्राणि व्यश्वहस्तिरथानि च ।
पिपासितानि सैन्यानि मुमूर्च्छुरुभयत्र वै
॥२७॥अथ ते प्रमथा वीरा नंदिप्रभृतयस्तदा ।
बलेन जघ्नुरसुरान्सर्वान्प्रापुर्जयं मुने
॥२८॥दृष्ट्वा सैन्यं च प्रमथेर्भज्यमानमितस्ततः ।
दुद्राव रथमास्थाय स्वयमेवांधको गणान्
॥२९॥शरावारप्रयुक्तैस्तैर्वज्रपातैर्नगा इव ।
प्रमथा नेशिरे चास्त्रैर्निस्तोया इव तोयदाः
॥३०॥यांतमायांतमालोक्य दूरस्थं निकटस्थितम् ।
प्रत्येकं रोमसंख्याभिर्विव्याधेषुभिरन्धकः
॥३१॥दृष्ट्वा सैन्यं भज्यमानमंधकेन बलीयसा ।
स्कंदो विनायको नंदी सोमनंद्यादयः परे
॥३२॥प्रमथा प्रबला वीराश्शंकरस्य गणा निजाः ।
चुक्रुधुस्समरं चक्रुर्विचित्रं च महाबलाः
॥३३॥विनायकेन स्कंदेन नंदिना सोमनंदिना ।
वीरेण नैगमेयेन वैशाखेन बलीयसा
॥३४॥इत्याद्यैस्तु गणैरुग्रैरंधकोप्यधकीकृतः ।
त्रिशूलशक्तिबाणौघधारासंपातपातिभिः
॥३५॥ततः कोलाहलो जातः प्रमथासुरसैन्ययोः ।
तेन शब्देन महता शुक्रश्शंभूदरे स्थ्ग्तिः
॥३६॥छिद्रान्वेषी भ्रमन्सोथ विनिकेतो यथानिलः ।
सप्तलोकान्सपातालान्रुद्रदेहे व्यलोकयत्
॥३७॥ब्रह्मनारायणेन्द्राणां सादित्याप्सरसां तथा ।
भुवनानि विचित्राणि युद्धं च प्रमथासुरम्
॥३८॥स वर्षाणां शतं कुक्षौ भवस्य परितो भ्रमन् ।
न तस्य ददृशे रन्ध्रं शुचे रंध्रं खलो यथा
॥३९॥शांभवेनाथ योगेन शुक्ररूपेण भार्गवः ।
इमं मंत्रवरं जप्त्वा शंभोर्जठरपंजरात्
॥४०॥निष्क्रांतं लिंगमार्गेण प्रणनाम ततश्शिवम् ।
गौर्य्या गृहीतः पुत्रार्थं तदविघ्नेश्वरीकृतः
॥४१॥अथ काव्यं विनिष्क्रातं शुक्रमार्गेण भार्गवम् ।
दृष्ट्वोवाच महेशानो विहस्य करुणानिधिः
॥४२॥महेश्वर उवाच
शुक्रवन्निस्सृतो यस्माल्लिंगान्मे भृगुनन्दन ।
कर्मणा तेन शुक्लत्वं मम पुत्रोसि गम्यताम्
॥४३॥सनत्कुमार उवाच
इत्येवमुक्तो देवेन शुक्रोर्कसदृशद्युतिः ।
प्रणनाम शिवं भूयस्तुष्टाव विहितांजलिः
॥४४॥शुक्र उवाच
अनंतपादस्त्वमनंतमूर्तिरनंतमूर्द्धांतकरश्शिवश्च ।
अनंतबाहुः कथमीदृशं त्वां स्तोष्ये ह नुत्यं प्रणिपत्य मूर्ध्ना
॥४५॥त्वमष्टमूर्तिस्त्वमनंतमूर्तिस्त्वमिष्टदस्सर्वसुरासुराणाम् ।
अनिष्टदृष्टश्च विमर्दकश्च स्तोष्ये ह नुत्यं कथमीदृशं त्वाम्
॥४६॥सनत्कुमार उवाच
इति स्तुत्वा शिवं शुक्रः पुनर्नत्वा शिवाज्ञया ।
विवेश दानवानीकं मेघमालां यथा शशी
॥४७॥निगीर्णनमिति प्रोक्तं शंकरेण कवे रणे ।
शृणु मंत्रं च तं जप्तो यश्शंभोः कविनोदरे
॥४८॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां पञ्चमे युद्धखंडे शुक्रनिगीर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥