देवस्तुतिवर्णनम्
सनत्कुमार उवाच
एतच्छुत्वा तु सर्वेषां देवादीनां वचो हरः ।
अंगीचकार सुप्रीत्या शरण्यो भक्तवत्सलः
॥१॥एतस्मिन्नंतरे देवी पुत्राभ्यां संयुता शिवा ।
आजगाम मुने तत्र यत्र देवान्वितो हरः
॥२॥अथागतां शिवां दृष्ट्वा सर्वे विष्ण्वादयो द्रुतम् ।
प्रणेमुरतिनम्रास्ते विस्मिता गतसंभ्रमाः
॥३॥प्रोचुर्जयेति सद्वाक्यं मुने सर्वे सुलक्षणम् ।
तूष्णीमासन्नजानंतस्तदागमनकारणम्
॥४॥अथ सर्वैः स्तुता देवैर्देव्यद्भुतकुतूहला ।
उवाच स्वामिनं प्रीत्या नानालीलाविशारदम्
॥५॥देव्युवाच
क्रीडमानं विभो पश्य षण्मुखं रविसंनिभम् ।
पुत्रं पुत्रवतां श्रेष्ठ भूषितं भूषणैर्वरैः
॥६॥इत्येवं लोकमात्रा च वाग्भिस्संबोधितश्शिवः ।
न ययौ तृप्तिमीशानः पिबन् स्कंदाननामृतम्
॥७॥न सस्मारागतान्दैत्यान्निजतेजोनिपीडितान् ।
स्कंदमालिंग्य चाघ्राय मुगोदाति महेश्वरः
॥८॥जगदम्बाथ तत्रैव संमंत्र्य प्रभुणा च सा ।
स्थित्वा किञ्चित्समुत्तस्थौ नानालीलाविशारदा
॥९॥ततस्सनंदी सह षण्मुखेन तया च सार्द्धं गिरिराजपुत्र्या ।
विवेश शम्भुर्भवनं सुलीलः सुरैस्समस्तैरभिवंद्यमानः
॥१०॥द्वारस्य पार्श्वतः तस्थुर्देवदेवस्य धीमतः ।
तेऽथ देवा महाव्यग्रा विमनस्का मुनेऽखिलः
॥११॥किं कर्तव्यं क्व गंतव्यं कः स्यादस्मत्सुखप्रदः ।
किं तु किंत्विति संजातं हा हताः स्मेति वादिनम्
॥१२॥अन्योन्यं प्रेक्ष्य शक्राद्या बभूवुश्चातिविह्वलाः ।
प्रोचुर्विकलवाक्यं ते धिक्कुर्वन्तो निजं विधिम्
॥१३॥पापा वयमिहेत्यन्ये ह्यभाग्याश्चेति चापरे ।
ते भाग्यवंतो दैत्येन्द्रा इति चान्येऽब्रुवन् सुराः
॥१४॥तस्मिन्नेवांतरे तेषां श्रुत्वा शब्दाननेकशः ।
कुंभोदरो महातेजा दंडेनाताडयत्सुरान्
॥१५॥दुद्रुवुस्ते भयाविष्टा देवा हाहेति वादिनः ।
अपतन्मुनयश्चान्ये विह्वलत्वं बभूव ह
॥१६॥इन्द्रस्तु विकलोतीव जानुभ्यामवनीं गतः ।
अन्ये देवर्षयोतीव विकलाः पतिता भुवि
॥१७॥सर्वे मिलित्वा मुनयस्सुराश्च सममाकुलाः ।
संगता विधिहर्योस्तु समीपं मित्रचेतसोः
॥१८॥अहो विधिबलं चैतन्मुनयः कश्यपादयः ।
वदंति स्म तदा सर्वे हरि लोकभयापदम्
॥१९॥अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः ।
कस्माद्विघ्नमिदं जातमित्यन्ये ह्यति विस्मिताः
॥२०॥इत्येवं वचनं श्रुत्वा कश्यपाद्युदितं मुने ।
आश्वासयन्मुनीन्देवान् हरिर्वाक्यमुपाददे
॥२१॥विष्णुरुवाच
हे देवा मुनयस्सर्वे मद्वचः शृणुतादरात् ।
किमर्थं दुःखमापन्ना दुखं तु त्यजताखिलम्
॥२२॥महदाराधनं देवा न सुसाध्यं विचार्य्यताम् ।
महदाराधने पूर्वं भवेद्दुःखमिति श्रुतम् ।
विज्ञाय दृढतां देवाः प्रसन्नो भवति ध्रुवम्
॥२३॥शिवस्सर्वगणायक्षस्सहसा परमेश्वरः ।
विचार्यतां हृदा सर्वैः कथं वश्यो भवेदिति
॥२४॥प्रणवं पूर्वमुच्चार्य्य नमः पश्चादुदाहरेत् ।
शिवायेति ततः पश्चाच्छुभद्वयमतः परम्
॥२५॥कुरुद्वयं ततः प्रोक्तं शिवाय च ततः पुनः ।
नमश्च प्रणवश्चैव मंत्रमेवं सदा बुधाः
॥२६॥अवर्तध्वं पुनर्यूयं यदि शंभुकृते तदा ।
कोटिमेकं तथा जप्त्वा शिवः कार्यं करिष्यति
॥२७॥इत्युक्ते च तदा तेन हरिणा प्रभविष्णुना ।
तथा देवाः पुनश्चक्रुर्हरस्याराधनं मुने
॥२८॥संजजाप हरिश्चापि सविधिश्शिवमानसः ।
देवानां कार्यसिद्ध्यर्थं मुनीनां च विशेषतः
॥२९॥मुहुः शिवेति भाषंतो देवा धैर्यसमन्विताः ।
कोटिसंख्यं तदा कृत्वा स्थितास्ते मुनिसत्तम
॥३०॥एतस्मिन्नंतरे साक्षाच्छिवः प्रादुरभूत्स्वयम् ।
यथोक्तेन स्वरूपेण वचनं चेदमब्रवीत्
॥३१॥श्रीशिव उवाच
हे हरे हे विधे देवा मुनयश्च शुभव्रताः ।
प्रसन्नोऽस्मि वरं ब्रूत जयेनानेन चेप्सितम्
॥३२॥देवा ऊचुः
यदि प्रसन्नो देवेश जगदीश्वर शंकर ।
सुरान् विज्ञाय विकलान् हन्यंतां त्रिपुराणि च
॥३३॥रक्षास्मान्परमेशान दीनबंधो कृपाकर ।
त्वयैव रक्षिता देवास्सदापद्भ्यो मुहुर्मुहुः
॥३४॥सनत्कुमार उवाच
इत्युक्तं वचनं तेषां श्रुत्वा सहरिवेधसाम् ।
विहस्यांतस्तदा ब्रह्मन्महेशः पुनरब्रवीत्
॥३५॥महेश उवाच
हे हरे हे विधे देवा मुनयश्चाखिला वचः ।
मदीयं शृणुतादृत्य नष्टं मत्वा पुरत्रयम्
॥३६॥रथं च सारथिं दिव्यं कार्मुकं शरमुत्तमम् ।
पूर्वमंगीकृतं सर्वमुपपादयताचिरम्
॥३७॥हे विष्णो हे विधे त्वं हि त्रिलोकाधिपतिर्ध्रुवम् ।
सर्वसम्राट्प्रकारं मे कर्तुमर्हसि यत्नतः
॥३८॥नष्टं पुरत्रयं मत्वा देवसाहाय्यमित्युत ।
करिष्यथः प्रयत्नेनाधिकृतौ सर्गपालने
॥३९॥अयं मंत्रो महापुण्यो मत्प्रीतिजनकश्शुभः ।
भुक्तिमुक्तिप्रदस्सर्वकामदश्शैवकावह
॥४०॥धन्यो यशस्य आयुष्यः स्वर्गकामार्थिनां नृणाम् ।
अपवर्गो ह्यकामानां मुक्तानां भुक्तिमुक्तिदः
॥४१॥य इमं कीर्तयेन्मंत्रं शुचिर्भूत्वा सदा नरः ।
शृणुयाच्छ्रावयेद्वापि सर्वान्कामानवाप्नुयात्
॥४२॥सनत्कुमार उवाच
इति श्रुत्वा वचस्तस्य शिवस्य परमात्मनः ।
सर्वे देवा मुदं प्रापुर्हरिर्ब्रह्माधिकं तथा
॥४३॥सर्वदेवमयं दिव्यं रथं परमशोभनम् ।
रचयामास विश्वार्थे विश्वकर्मा तदाज्ञया
॥४४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥