दूतगमनम्
सनत्कुमार उवाच
अथेशानो महारुद्रो दुष्टकालस्सतांगतिः ।
शंखचूडवधं चित्ते निश्चिकाय सुरेच्छया
॥१॥दूतं कृत्वा चित्ररथं गंधर्वेश्वरमीप्सितम् ।
शीघ्रं प्रस्थापयामास शंखचूडांतिके मुदा
॥२॥सर्वेश्वराज्ञया दूतो ययौ तन्नगरं च सः ।
महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम्
॥३॥गत्वा ददर्श तन्मध्ये शंखचूडालयं वरम् ।
राजितं द्वादशैर्द्वारैर्द्वारपालसमन्वितम्
॥४॥स दृष्ट्वा पुष्पदन्तस्तु वरं द्वारं ददर्श सः ।
कथयामास वृत्तांतं द्वारपालाय निर्भयः
॥५॥अतिक्रम्य च तद्द्वारं जगामाभ्यंतरे मुदा ।
अतीव सुन्दरं रम्यं विस्तीर्णं समलंकृतम्
॥६॥स गत्वा शंखचूडं तं ददर्श दनुजाधिपम् ।
वीरमंडल मध्यस्थं रत्नसिंहासनस्थितम्
॥७॥दानवेन्द्रैः परिवृतं सेवितं च त्रिकोटिभिः ।
शतः कोटिभिरन्यैश्च भ्रमद्भिश्शस्त्रपाणिभिः
॥८॥एवंभूतं च तं दृष्ट्वा पुष्पदंतस्सविस्मयः ।
उवाच रणवृत्तांतं यदुक्तं शंकरेण च
॥९॥पुष्पदंत उवाच
राजेन्द्र शिवदूतोऽहं पुष्पदंताभिधः प्रभो ।
यदुक्तं शंकरेणैव तच्छृणु त्वं ब्रवीमि ते
॥१०॥शिव उवाच
राज्यं देहि च देवानामधिकारं हि सांप्रतम् ।
नोचेत्कुरु रणं सार्द्धं परेण च मया सताम्
॥११॥देवा मां शरणापन्ना देवेशं शंकरं सताम् ।
अहं क्रुद्धो महारुद्रस्त्वां वधिष्याम्यसंशयम्
॥१२॥हरोऽस्मि सर्वदेवेभ्यो ह्यभयं दत्तवानहम् ।
खलदंडधरोऽहं वै शरणागतवत्सलः
॥१३॥राज्यं दास्यसि किं वा त्वं करिष्यसि रणं च किम् ।
तत्त्वं ब्रूहि द्वयोरेकं दानवेन्द्र विचार्य वै
॥१४॥पुष्पदंत उवाच
इत्युक्तं यन्महेशेन तुभ्यं तन्मे निवेदितम् ।
वितथं शंभुवाक्यं न कदापि दनुजाधिप
॥१५॥अहं स्वस्वामिनं गंतुमिच्छामि त्वरितं हरम् ।
गत्वा वक्ष्यामि किं शंभोस्तथा त्वं वद मामिह
॥१६॥सनत्कुमार उवाच इत्थं च पुष्पदंतस्य शिवदूतस्य सत्पतेः ।
आकर्ण्य वचनं राजा हसित्वा तमुवाच सः
॥१७॥शंखचूड उवाच
राज्यं दास्ये न देवेभ्यो वीरभोग्या वसुंधरा ।
रणं दास्यामि ते रुद्र देवानां पक्षपातिने
॥१८॥यस्योपरि प्रयायी स्यात्स वीरो भुवेनऽधमः।
अतः पूर्वमहं रुद्र त्वां गमिष्याम्यसंशयम्
॥१९॥प्रभात आगमिष्यामि वीरयात्रा विचारतः ।
त्वं गच्छाचक्ष्व रुद्राय हीदृशं वचनं मम
॥२०॥इति श्रुत्वा शंखचूडवचनं सुप्रहस्य सः ।
उवाच दानवेन्द्रं स शंभुदूतस्तु गर्वितम्
॥२१॥अन्येषामपि राजेन्द्र गणानां शंकरस्य च ।
न स्थातुं संमुखे योग्यः किं पुनस्तस्य संमुखम्
॥२२॥स त्वं देहि च देवानामधिकाराणि सर्वशः ।
त्वमरे गच्छ पातालं यदि जीवितुमिच्छसि
॥२३॥सामान्यममरं तं नो विद्धि दानवसत्तम ।
शंकरः परमात्मा हि सर्वेषामीश्वरेश्वरः
॥२४॥इन्द्राद्यास्सकला देवा यस्याज्ञावर्तिनस्सदा ।
सप्रजापतयस्सिद्धा मुनयश्चाप्यहीश्वराः
॥२५॥हरेर्विधेश्च स स्वामी निर्गुणस्सगुणस्स हि ।
यस्य भ्रूभंगमात्रेण सर्वेषां प्रलयो भवेत्
॥२६॥शिवस्य पूर्णरूपश्च लोकसंहारकारकः ।
सतां गतिर्दुष्टहंता निर्विकारः परात्परः
॥२७॥ब्रह्मणोधिपतिस्सोऽपि हरेरपि महेश्वरः ।
अवमान्या न वै तस्य शासना दानवर्षभ
॥२८॥किं बहूक्तेन राजेन्द्र मनसा संविचार्य च ।
रुद्रं विद्धि महेशानं परं ब्रह्म चिदात्मकम्
॥२९॥देहि राज्यं हि देवानामधिकारांश्च सर्वशः ।
एवं ते कुशलं तात भविष्यत्यन्यथा भयम् ।
सन्त्कुमार उवाच ।
इति श्रुत्वा दानवेंद्रः शंखचूडः प्रतापवान् ।
उवाच शिवदूतं तं भवितव्यविमोहितः
॥३१॥शंखचूड उवाच
स्वतो राज्यं न दास्यामि नाधिकारान् विनिश्चयात् ।
विना युद्धं महेशेन सत्यमेतद्ब्रवीम्यहम्
॥३२॥कालाधीनं जगत्सर्वं विज्ञेयं सचराचरम् ।
कालाद्भवति सर्वं हि विनश्यति च कालतः
॥३३॥त्वं गच्छ शंकरं रुद्रं मयोक्तं वद तत्त्वत ।
स च युक्तं करोत्वेवं बहुवार्तां कुरुष्व नो
॥३४॥सनत्कुमार उवाच
इत्युक्त्वा शिवदूतोऽसौ जगाम स्वामिनं निजम् ।
यथार्थं कथयामास पुष्पदंतश्च सन्मुने
॥३५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडवधे दूतगमनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥