मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ९

3
रुद्रसंहिता · युद्धखण्डः · 9

शिवयात्रावर्णनम्

सनत्कुमार उवाच

ईदृग्विधं महादिव्यं नानाश्चर्यमयं रथम् ।

संनह्य निगमानश्वांस्तं ब्रह्मा प्रार्पयच्छिवम्

॥१॥

शंभवेऽसौ निवेद्याधिरोपयामास शूलिनम् ।

बहुशः प्रार्थ्य देवेशं विष्ण्वादिसुरसमतम्

॥२॥

ततस्तस्मिन्रथे दिव्ये रथप्राकारसंयुते ।

सर्वदेवमयः शंभुरारुरोह महाप्रभुः

॥३॥

ऋषिभिः स्तूयमानश्च देवगंधर्वपन्नगैः ।

विष्णुना ब्रह्मणा चापि लोकपालैर्बभूव ह

॥४॥

उपावृतश्चाप्सरसां गणैर्गीतविशारदः ।

शुशुभे वरदश्शम्भुस्स तं प्रेक्ष्य च सारथिम्

॥५॥

तस्मिन्नारोऽहतिरथं कल्पितं लोकसंभृतम् ।

शिरोभिः पतिता भूमौ तुरगा वेदसंभवाः

॥६॥

चचाल वसुधा चेलुस्सकलाश्च महीधराः ।

चकंपे सहसा शेषोऽसोढा तद्भारमातुरः

॥७॥

अथाधः स रथस्यास्य भगवान्धरणीधरः ।

वृषेन्द्ररूपी चोत्थाय स्थापयामास वै क्षणम्

॥८॥

क्षणांतरे वृषेन्द्रोऽपि जानुभ्यामगमद्धराम् ।

रथारूढमहेशस्य सुतेजस्सोढुमक्षमः

॥९॥

अभीषुहस्तो भगवानुद्यम्य च हयांस्तदा ।

स्थापयामास देवस्य पचनाद्वैरथं वरम्

॥१०॥

ततोऽसौ नोदयामास मनोमारुतरंहसः ।

ब्रह्मा हयान्वेदमयान्नद्धान्रथवरे स्थितः

॥११॥

पुराण्युद्दिश्य वै त्रीणि तेषां खस्थानि तानि हि ।

अधिष्ठिते महेशे तु दानवानां तरस्विनाम्

॥१२॥

अथाह भगवान्रुद्रो देवानालोक्य शंकरः ।

पशूनामाधिपत्यं मे धद्ध्वं हन्मि ततोऽसुरान्

॥१३॥

पृथक्पशुत्वं देवानां तथान्येषां सुरोत्तमाः ।

कल्पयित्वैव वध्यास्ते नान्यथा दैत्यसत्तमाः

॥१४॥

सनत्कुमार उवाच

इति श्रुत्वा वचस्तस्य देवदेवस्य धीमतः ।

विषादमगमन्सर्वे पशुत्वं प्रतिशंकिताः

॥१५॥

तेषां भावमथ ज्ञात्वा देवदेवोऽम्बिकापतिः ।

विहस्य कृपया देवाञ्छंभुस्तानिदमब्रवीत्

॥१६॥

शंभुरुवाच

मा वोऽस्तु पशुभावेऽपि पातो विबुधसत्तमाः ।

श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः

॥१७॥

यौ वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यति ।

पशुत्वादिति सत्यं वः प्रतिज्ञातं समाहिताः

॥१८॥

ये चाप्यन्ये करिष्यंति व्रतं पाशुपतं मम ।

मोक्ष्यंति ते न संदेहः पशुत्वात्सुरसत्तमाः

॥१९॥

नैष्ठिकं द्वादशाब्दं वा तदर्थं वर्षकत्रयम् ।

शुश्रूषां कारयेद्यस्तु स पशुत्वाद्विमुच्यते

॥२०॥

तस्मात्परमिदं दिव्यं चरिष्यथ सुरोत्तमाः ।

पशुत्वान्मोक्ष्यथ तदा यूयमत्र न संशयः

॥२१॥

सनत्कुमार उवाच

इत्याकर्ण्य वचस्तस्य महेशस्य परात्मनः ।

तथेति चाब्रुवन्देवा हरिब्रह्मादयस्तथा

॥२२॥

तस्माद्वै पशवस्सर्वे देवासुरवराः प्रभोः ।

रुद्रः पशुपतिश्चैव पशुपाशविमोचकः

॥२३॥

तदा पक्षुपतीत्येतत्तस्य नाम महेशितुः ।

प्रसिद्धमभवद्वध्वा सर्वलोकेषु शर्मदम्

॥२४॥

मुदा जयेति भाषंतस्सर्वे देवर्षयस्तदा ।

अमुदंश्चाति देवेशो ब्रह्मा विष्णुः परेऽपि च

॥२५॥

तस्मिंश्च समये यच्च रूपं तस्य महात्मनः ।

जातं तद्वर्णितुं शक्यं न हि वर्षशतैरपि

॥२६॥

एवं विधो महेशानो महेशान्यखिलेश्वरः ।

जगाम त्रिपुरं हंतुं सर्वेषां सुखदायकः

॥२७॥

तं देवदेवं त्रिपुरं निहंतुं तदानु सर्वे तु रविप्रकाशाः ।

गजैर्हयैस्सिंहवरै रथैश्च वृषैर्ययुस्तेऽमरराजमुख्याः

॥२८॥

हलैश्च शालैर्मुशलैर्भुशुण्डैर्गिरीन्द्रकल्पैर्गिरिसंनिभाश्च ।

नानायुधैस्संयुतबाहवस्ते ततो नु हृष्टाः प्रययुस्सुरेशाः

॥२९॥

नानायुधाढ्याः परमप्रकाशा महोत्सवश्शंभुजयं वदंतः ।

ययुः पुरस्तस्य महेश्वरस्य तदेन्द्रपद्मोद्भवविष्णुमुख्याः

॥३०॥

जहृषुर्मुनयस्सर्वे दंडहस्ता जटाधराः ।

ववृषुः पुष्पवर्षाणि खेचरा सिद्धचारणाः

॥३१॥

पुत्रत्रयं च विप्रेन्द्रा व्रजन्सर्वे गणेश्वराः ।

तेषां संख्या च कः कर्तुं समर्थो वच्मि कांश्चन

॥३२॥

गणेश्वरैर्देवगणैश्च भृङ्गी समावृतस्सर्वगणेन्द्रवर्यः ।

जगाम योगांस्त्रिपुरं निहंतुं विमानमारुह्य यथा महेन्द्रः

॥३३॥

केशो विगतवासश्च महाकेशो महाज्वरः ।

सोमवल्लीसवर्णश्च सोमदस्सनकस्तथा

॥३४॥

सोमधृक् सूर्यवर्चाश्च सूर्यप्रेषणकस्तथा ।

सूर्याक्षस्सूरिनामा च सुरस्सुन्दर एव च

॥३५॥

प्रस्कंदः कुन्दरश्चंडः कंपनश्चातिकंपनः ।

इन्द्रश्चेन्द्रजवश्चैव यंता हिमकरस्तथा

॥३६॥

शताक्षश्चैव पंचाक्षः सहस्राक्षो महोदरः ।

सतीजहुश्शतास्यश्च रंकः कर्पूरपूतनः

॥३७॥

द्विशिखस्त्रिशिखश्चैव तथाहंकारकारकः ।

अजवक्त्रोऽष्टवक्त्रश्च हयवक्त्रोऽर्द्धवक्त्रकः

॥३८॥

इत्याद्या गणपा वीरा बहवोऽपरिमेयकाः ।

प्रययुः परिवार्येशं लक्ष्यलक्षणवर्जिताः

॥३९॥

समावृत्य महादेवं तदापुस्ते पिनाकिनम् ।

दग्धुं समर्था मनसा क्षणेन सचराचरम्

॥४०॥

दग्धुं जगत्सर्वमिदं समर्थाः किंत्वत्र दग्धुं त्रिपुरं पिनाकी ।

रथेन किं चात्र शरेण तस्य गणैश्च किं देवगणैश्च शम्भोः

॥४१॥

स एव दग्धुं त्रिपुराणि तानि देवद्विषां व्यास पिनाकपाणिः ।

स्वयं गतस्तत्र गणैश्च सार्द्धं निजैस्सुराणामपि सोऽद्भुतोतिः

॥४२॥

किं तत्र कारणं चान्यद्वच्मि ते ऋषिसत्तम ।

लोकेषु ख्यापनार्थं वै यशः परमलापहम्

॥४३॥

अन्यच्च कारणं ह्येतद्दुष्टानां प्रत्ययाय वै ।

सर्वेष्वपि च देवेषु यस्मान्नान्यो विशिष्यते

॥४४॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शिवयात्रावर्णनं नाम नवमोऽध्यायः ॥ ९ ॥