जलंधरवर्णनम्
व्यास उवाच
विधेः श्रेष्ठसुत प्राज्ञः कथेयं श्राविताद्भुता ।
ततश्च किमभूदाजौ कथं दैत्यो हतो वद
॥१॥सनत्कुमार उवाच
अदृश्य गिरिजां तत्र दैत्येन्द्रे रणमागते ।
गांधर्वे च विलीने हि चैतन्योऽभूद्वृषध्वजः
॥२॥अंतर्धानगतां मायां दृष्ट्वा बुद्धो हि शंकरः ।
चुक्रोधातीव संहारी लौकिकीं गतिमाश्रितः
॥३॥ततश्शिवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा ।
स चापि दैत्यः पुनरागतं शिवं दृष्ट्वा शरोघैस्समवाकिरद्रणे
॥४॥क्षिप्तं प्रभुस्तं शरजालमुग्रं जलंधरेणातिबलीयसा हरः ।
प्रचिच्छेद शरैर्वरैर्निजैर्नचित्रमत्र त्रिभवप्रहंतुः
॥५॥ततो जलंधरो दृष्ट्वा रुद्र्मद्भुतविक्रमम् ।
चकार मायया गौरीं त्र्यम्बकं मोहयन्निव
॥६॥रथोपरि गतां बद्धां रुदंतीं पार्वतीं शिवः ।
निशुंभ शुंभदैत्यैश्च बध्यमानां ददर्श सः
॥७॥गौरीं तथाविधां दृष्ट्वा लौकिकीं दर्शयन्गतिम् ।
बभूव प्राकृत इव शिवोप्युद्विग्नमानसः
॥८॥अवाङ्मुखस्थितस्तूष्णीं नानालीलाविशारदः ।
शिथिलांगो विषण्णात्मा विस्मृत्य स्वपराक्रमम्
॥९॥ततो जलंधरो वेगात्त्रिभिर्विव्याध सायकैः ।
आपुंखमग्नैस्तं रुद्रं शिरस्युरसि चोदरे
॥१०॥ततो रुद्रो महालीलो ज्ञानतत्त्वः क्षणात्प्रभुः ।
रौद्ररूपधरो जातो ज्वालामालातिभीषणः
॥११॥तस्यातीव महारौद्ररूपं दृष्ट्वा महासुराः ।
न शेकुः प्रमुखे स्थातुं भेजिरे ते दिशो दश
॥१२॥निशुंभशुंभावपि यौ विख्यातौ वीरसत्तमौ ।
आपे तौ शेकतुर्नैव रणे स्थातुं मुनीश्वर
॥१३॥जलंधरकृता मायांतर्हिताभूच्च तत्क्षणम् ।
हाहाकारो महानासीत्संग्रामे सर्वतोमुखे
॥१४॥ततश्शापं ददौ रुद्रस्तयोश्शुंभनिशुंभयोः ।
पलायमानौ तौ दृष्ट्वा धिक्कृत्य क्रोधसंयुतः
॥१५॥रुद्र उवाच
युवां दुष्टावतिखलावपराधकरौ मम ।
पार्वतीदंडदातारौ रणादस्मात्पराङ्मुखौ
॥१६॥पराङ्मुखो न हंतव्य इति वध्यौ न मे युवाम् ।
मम युद्धादतिक्रांतौ गौर्य्या वध्यौ भविष्यतः
॥१७॥एवं वदति गौरीशे सिन्धुपुत्रो जलंधरः ।
चुक्रोधातीव रुद्राय ज्वलज्ज्वलनसन्निभः
॥१८॥रुद्रे रणे महावेगाद्ववर्ष निशिताञ्छरान् ।
बाणांधकारसंछन्नं तथा भूमितलं ह्यभूत्
॥१९॥यावद्रुद्रः प्रचिच्छेद तस्य बाणगणान्द्रुतम् ।
तावत्सपरिघेणाशु जघान वृषभं बली
॥२०॥वृषस्तेन प्रहारेण परवृत्तो रणांगणात् ।
रुद्रेण कृश्यमाणोऽपि न तस्थौ रणभूमिषु
॥२१॥अथ लोके महारुद्रस्स्वीयं तेजोऽतिदुस्सहम् ।
दर्शयामास सर्वस्मै सत्यमेतन्मुनीश्वर
॥२२॥ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्धरः ।
प्रलयानलवद्धोरो बभूव सहसा प्रभुः
॥२३॥दृष्ट्वा पुरः स्थितं दैत्यं मेघकूटमिव स्थितम् ।
अवध्यत्वमपि श्रुत्वाप्यन्यैरभ्युद्यतोऽभवत्
॥२४॥ब्रह्मणो वचनं रक्षन्रक्षको जगतां प्रभुः ।
हृदानुग्रहमातन्वंस्तद्वधाय मनो दधत्
॥२५॥कोपं कृत्वा परं शूली पादांगुष्ठेन लीलया ।
महांभसि चकाराशु रथांगं रौद्रमद्भुतम्
॥२६॥कृत्वार्णवांभसि शितं भगवान्रथांगं स्मृत्वा जगत्त्रयमनेन हतं पुरारिः ।
दक्षान्धकांतकपुरत्रययज्ञहंता लोकत्रयांतककरः प्रहसन्नुवाच
॥२७॥महारुद्र उवाच
पादेन निर्मितं चक्रं जलंधर महाम्भसि ।
बलवान्यदि चोद्धर्त्तुं तिष्ठ योद्धुं न चान्यथा
॥२८॥सनत्कुमार उवाच
तस्य तद्वचनं श्रुत्वा क्रोधेनादीप्तलोचनः ।
प्रदहन्निव चक्षुर्भ्यां प्राहालोक्य स शंकरम्
॥२९॥जलंधर उवाच
रेखामुद्धृत्य हत्वा च सगणं त्वां हि शंकर ।
हत्वा लोकान्सुरैस्सार्द्धं स्वभागं गरुडो यथा
॥३०॥हंतुं चराचरं सर्वं समर्थोऽहं सवासवम् ।
को महेश्वर मद्बाणैरभेद्यो भुवनत्रये ।
बालभावेन भगवांतपसैव विनिर्जितः ।
ब्रह्मा बलिष्ठः स्थाने मे मुनिभिस्सुरपुंगवैः
॥३२॥दग्धं क्षणेन सकलं त्रैलोक्यं सचराचरम् ।
तपसा किं त्वया रुद्र निर्जितो भगवानपि
॥३३॥इन्द्राग्नियमवित्तेशवायुवारीश्वरादयः ।
न सेहिरे यथा नागा गंधं पक्षिपतेरिव
॥३४॥न लब्धं दिवि भूमौ च वाहनं मम शंकर ।
समस्तान्पर्वतान्प्राप्य धर्षिताश्च गणेश्वराः
॥३५॥गिरीन्द्रो मन्दरः श्रीमान्नीलो मेरुस्सुशोभनः ।
धर्षितो बाहुदण्डेन कण्डा उत्सर्पणाय मे
॥३६॥गंगा निरुद्धा बाहुभ्यां लीलार्थं हिमवद्गिरौ ।
अरोणां मम भृत्यैश्च जयो लब्धो दिवौकसात्
॥३७॥वडवाया मुखं बद्धं गृहीत्वा तां करेण तु ।
तत्क्षणादेव सकलमेकार्णवमभूत्तदा
॥३८॥ऐरावतादयो नागाः क्षिप्ताः सिन्धुजलोपरि ।
सरथो भगवानिन्द्रः क्षिप्तश्च शतयोजनम्
॥३९॥गरुडोऽपि मया बद्धो नागपाशेन विष्णुना ।
उर्वश्याद्या मयानीता नार्यः कारागृहांतरम्
॥४०॥मां न जानासि रुद्र त्वं त्रैलोक्यजयकारिणाम् ।
जलंधरं महादैत्यं सिंधुपुत्रं महाबलम्
॥४१॥सनत्कुमार उवाच
इत्युक्त्वाथ महादेवं तदा वारिधिनन्दनः ।
न चचाल न सस्मार निहतान्दानवान्युधि
॥४२॥दुर्मदेनाविनीतेन दोर्भ्यामास्फोट्य दोर्बलात् ।
तिरस्कृतो महादेवो वचनैः कटुकाक्षरैः
॥४३॥तच्छ्रुत्वा दैत्यवचनममंगलमतीरितम् ।
विजहास महादेवाः परमं क्रोधमादधे
॥४४॥सुदर्शनाख्यं यच्चक्रं पदांगुष्ठविनिर्मितम् ।
जग्राह तत्करे रुद्रस्तेन हंतुं समुद्यतः
॥४५॥सुदर्शनाख्यं तच्चक्रं चिक्षेप भगवान्हरः ।
कोटिसूर्यप्रतीकाशं प्रलयानलसन्निभम्
॥४६॥प्रदहद्रोदसी वेगात्तदासाद्य जलंधरम् ।
जहार तच्छिरो वेगान्महदायतलोचनम्
॥४७॥रथात्कायः पपातोर्व्यां नादयन्वसुधातलम् ।
शिरश्चाप्यब्धिपुत्रस्य हाहाकारो महानभूत्
॥४८॥द्विधा पपात तद्देहो ह्यंजनाद्रिरिवाचलः ।
कुलिशेन यथा वारांनिधौ गिरिवरो द्विधा
॥४९॥तस्य रौद्रेण रक्तेन सम्पूर्णमभवज्जगत् ।
ततस्समस्ता पृथिवी विकृताभून्मुनीश्वर
॥५०॥तद्रक्तमखिलं रुद्रनियोगान्मांसमेव च ।
महारौरवमासाद्य रक्तकुंडमभूदिह
॥५१॥तत्तेजो निर्गतं देहाद्रुद्रे च लयमागमत् ।
वृन्दादेहोद्भवं यद्वद्गौर्य्यां हि विलयं गतम्
॥५२॥जलंधरं हतं दृष्ट्वा देवगन्धर्वपन्नगाः ।
अभवन्सुप्रसन्नाश्च साधु देवेति चाब्रुवन्
॥५३॥सर्वे प्रसन्नतां याता देवसिद्धमुनीश्वराः ।
पुष्पवृष्टिं प्रकुर्वाणास्तद्यशो जगुरुच्चकैः
॥५४॥देवांगना महामोदान्ननृतुः प्रेमविह्वलाः ।
कलस्वराः कलपदं किन्नरैस्सह संजगुः
॥५५॥दिशः प्रसेदुस्सर्वाश्च हते वृन्दापतौ मुने ।
ववुः पुण्यास्सुखस्पर्शा वायवस्त्रिविधा अपि
॥५६॥चन्द्रमाः शीततां यातो रविस्तेपे सुतेजसा ।
अग्नयो जज्वलुश्शांता बभूव विकृतं नभः
॥५७॥एवं त्रैलोक्यमखिलं स्वास्थ्यमापाधिकं मुने ।
हतेऽब्धितनये तस्मिन्हरेणानतमूर्तिना
॥५८॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवर्णनं नाम चतुर्विशोऽध्यायः ॥ २४ ॥