गजासुरवधः
सनत्कुमार उवाच
शृणु व्यास महाप्रेम्णा चरितं शशिमौलिनः ।
यथाऽवधीत्त्रिशूलेन दानवेन्द्रं गजासुरम्
॥१॥दानवे निहते देव्या समरे महिषासुरे ।
देवानां च हितार्थाय पुरा देवाः सुखं ययुः
॥२॥तस्य पुत्रो महावीरो मुनीश्वर गजासुरः ।
पितुर्वधं हि संस्मृत्य कृतं देव्या सुरार्थनात्
॥३॥स तद्वैरमनुस्मृत्य तपोर्थं गतवान्वने ।
समुद्दिश्य विधिं प्रीत्या तताप परमं तपः
॥४॥अवध्योहं भविष्यामि स्त्रीपुंसैः कामनिर्जितः ।
संविचार्येति मनसाऽभूत्तपोरतमानसः
॥५॥स तेपे हिमवद्द्रोण्यां तपः परमदारु णम् ।
ऊर्द्ध्वबाहुर्नभोदृष्टिः पादांगुष्ठाश्रितावनिः
॥६॥जटाभारैस्स वै रेजे प्रलयार्क इवांशुभिः ।
महिषासुरपुत्रोऽसौ गजासुर उदारधीः
॥७॥तस्य मूर्ध्नः समुद्भूतस्सधूमोग्निस्तपोमयः ।
तिर्यगूर्ध्वमधोलोकास्तापयन्विष्वगीरितः
॥८॥चुक्षुभुर्नद्युदन्वंतश्चाग्नेर्मूर्द्धसमुद्भवात् ।
निपेतुस्सग्रहास्तारा जज्वलुश्च दिशो दश
॥९॥तेन तप्तास्तुरास्सर्वे दिवं त्यक्त्वा सवासवाः ।
ब्रह्मलोकं ययुर्विज्ञापयामासुश्चचाल भूः
॥१०॥देवा ऊचुः
विधे गजासुरतपस्तप्ता वयमथाकुलाः ।
न शक्नुमो दिवि स्थातुमतस्ते शरणं गताः
॥११॥विधेह्युपशमं तस्य चान्याञ्जीवयितुं कृपा ।
लोका नंक्ष्यत्यन्यथा हि सत्यंसत्यं ब्रुवामहे
॥१२॥इति विज्ञापितो देवैर्वासवाद्यैस्स आत्मभूः ।
भृगुदक्षादिभिर्ब्रह्मा ययौ दैत्यवराश्रमम्
॥१३॥तपंतं तपसा लोका न्यथाऽभ्रापिहितं दिवि ।
विलक्ष्य विस्मितः प्राह विहसन्सृष्टिकारकः
॥१४॥ब्रह्मोवाच
उत्तिष्ठोत्तिष्ठ दैत्येन्द्र तपस्सिद्धोसि माहिषे ।
प्राप्तोऽहं वरदस्तात वरं वृणु यथेप्सितम्
॥१५॥सनत्कुमार उवाच
उत्थायोत्थाय दैत्येन्द्र ईक्षमाणो दृशा विभुम् ।
गिरा गद्गदया प्रीतोऽगृणाद्देवं स माहिषिः ।
गजासुर उवाच ।
नमस्ते देवदेवेश यदि दास्यसि मे वरम् ।
अवध्योऽहं भवेयं वै स्त्रीपुंसैः कामनिर्जितैः
॥१७॥महाबलो महावीर्योऽजेयो देवादिभिस्सदा ।
सर्वेषां लोकपालानां निखिलर्द्धिसुभुग्विभो
॥१८॥सनत्कुमार उवाच
एवं वृतश्शतधृतिर्दानवेन स तेन वै ।
प्रादात्तत्तपसा प्रीतो वरं तस्य सुदुर्लभम्
॥१९॥एवं लब्धवरो दैत्यो माहिषिश्च गजासुरः ।
सुप्रसन्नमनास्सोऽथ स्वधाम प्रत्यपद्यत
॥२०॥स विजित्य दिशस्सर्वा लोकांश्च त्रीन्महासुरः ।
देवासुरमनुष्येन्द्रान्गंधर्वगरुडोरगान्
॥२१॥इत्यादीन्निखिलाञ्जित्वा वशमानीय विश्वजित् ।
जहार लोकपालानां स्थानानि सह तेजसा
॥२२॥देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम् ।
महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा
॥२३॥तस्मिन्महेन्द्रस्य गृहे महाबलो महामना निर्जितलोक एकराट् ।
रेमेऽभिवंद्यांघ्रियुगः सुरादिभिः प्रतापितैरूर्जितचंडशासनः
॥२४॥स इत्थं निर्जितककुबेकराड् विषयान्प्रियान् ।
यथोपजोषं भुंजानो नातृप्यदजितेन्द्रियः
॥२५॥एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः ।
काले व्यतीते महति पापबुद्धिरभूत्ततः
॥२६॥महिषासुरपुत्रोऽसौ संचिक्लेश द्विजान्वरान् ।
तापसान्नितरां पृथ्व्यां दानवस्सुखमर्दनः
॥२७॥सुरान्नरांश्च प्रमथान्सर्वाञ्चिक्लेश दुर्मतिः ।
धर्मान्वितान्विशेषेण पूर्ववैरमनुस्मरन्
॥२८॥एकस्मिन्समये तात दानवोऽसौ महाबलः ।
अगच्छद्राजधानीं व शंकरस्य गजासुरः
॥२९॥समागतेऽसुरेन्द्रे हि महान्कलकलो मुने ।
त्रातत्रातेति तत्रासीदानंदनवासिनाम्
॥३०॥महिषाऽसुरपुत्रोऽसौ यदा पुर्यां समागतः ।
प्रमथन्प्रमथान्सर्वान्निजवीर्यमदोद्धतः
॥३१॥तस्मिन्नवसरे देवाश्शक्राद्यास्तत्पराजिताः ।
शिवस्य शरणं जग्मुर्नत्वा तुष्टुवुरादरात्
॥३२॥न्यवेदयन्दानवस्य तस्य काश्यां समागमम् ।
क्लेशाधिक्यं तत्रत्यानां तन्नाथानां विशेषतः
॥३३॥देवा ऊचुः
देवदेव महादेव तव पुर्यां गतोसुरः ।
कष्टं दत्ते त्वज्जनानां तं जहि त्वं कृपानिधे
॥३४॥यत्रयत्र धरायां च चरणं प्रमिणोति हि ।
अचलां सचलां तत्र करोति निज भारतः
॥३५॥ऊरुवेगेन तरवः पतंति शिखरैस्सह ।
यस्य दोर्दंडघातेन चूर्णा स्युश्च शिलोच्चयाः
॥३६॥यस्य मौलिजसंघर्षाद्घना व्योम त्यजंत्यपि ।
नीलिमानं न चाद्यापि जह्युस्तत्केशसंगजम्
॥३७॥यस्य विश्वाससंभारैरुत्तरंगा महाब्धयः ।
नद्योप्यमन्दकल्लोला भवंति तिमिभिस्सह
॥३८॥योजनानां सहस्राणि नव यस्य समुच्छ्रयः ।
तावानेव हि विस्तारस्तनोर्मायाविनोऽस्य हि
॥३९॥यन्नेत्रयोः पिंगलिमा तथा तरलिमा पुनः ।
विद्युताः नोह्यतेऽद्यापि सोऽयं स्माऽऽयाति सत्वरम्
॥४०॥यां यां दिशं समभ्येति सोयं दुस्सह दानवः ।
अवध्योऽहं भवामीति स्त्रीपुंसैः कामनिर्जितैः
॥४१॥इत्येवं चेष्टितं तस्य दानवस्य निवेदितम् ।
रक्षस्व भक्तान्देवेश काशीरक्षणतत्पर
॥४२॥सनत्कुमार उवाच
इति संप्रार्थितो देवैर्भक्तरक्षणतत्परः ।
तत्राऽऽजगाम सोरं तद्वधकामनया हरः
॥४३॥आगतं तं समालोक्य शंकरं भक्तवत्सलम् ।
त्रिशूलहस्तं गर्जंतं जगर्ज स गजासुरः
॥४४॥ततस्तयोर्महानासीत्समरो दारुणोऽद्भुतः ।
नानास्त्रशस्त्रसंपातैर्वीरारावं प्रकुर्वतोः
॥४५॥गजासुरोतितेजस्वी महाबलपराक्रमः ।
विव्याध गिरिशं बाणैस्तीक्ष्णैर्दानवघातिनम्
॥४६॥अथ रुद्रो रौद्रतनुः स्वशरैरतिदारुणैः ।
तच्छरांश्चिच्छिदे तूर्णमप्राप्तांस्तिलशो मुने
॥४७॥ततो गजासुरः कुद्धोऽभ्यधावत्तं महेश्वरम् ।
खड्गहस्तः प्रगर्ज्योच्चैर्हतोसीत्यद्य वै मया
॥४८॥ततस्त्रिशूलहेतिस्तमायांतं दैत्यपुंगवम् ।
विज्ञायावध्यमन्येन शूलेनाभिजघान तम्
॥४९॥प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः ।
छत्रीकृतमिवात्मानं मन्यमाना जगौ हरम्
॥५०॥गजासुर उवाच
देवदेव महादेव तव भक्तोऽस्मि सर्वथा ।
जाने त्वां त्रिदिवेशानं त्रिशूलिन्स्मरहारिणम्
॥५१॥तव हस्ते मम वधो महाश्रेयस्करो मतः ।
अंधकारे महेशान त्रिपुरांतक सर्वग
॥५२॥किंचिद्विज्ञप्तुमिच्छामि तच्छृणुष्व कृपाकर ।
सत्यं ब्रवीमि नासत्यं मृत्युंजय विचारय
॥५३॥त्वमेको जगतां वंद्यो विश्वस्योपरि संस्थितः ।
कालेन सर्वैर्मर्तव्यं श्रेयसे मृत्युरीदृशः
॥५४॥सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्य शंकरः करुणानिधिः ।
प्रहस्य प्रत्युवाचेशो माहिषेयं गजासुरम्
॥५५॥ईश्वर उवाच
महापराक्रमनिधे दानवोत्तम सन्मते ।
गजासुर प्रसन्नोस्मि स्वानकूलं वरं वृणु
॥५६॥सनत्कुमार उवाच
इत्याकर्ण्य महेशस्य वचनं वरदस्य हि ।
प्रत्युवाच प्रसन्नात्मा दानवेन्द्रो गजासुरः
॥५७॥गजासुर उवाच
यदि प्रसन्नो दिग्वासस्तदा दित्यं वसान मे ।
इमां कृत्तिं महेशान त्वत्त्रिशूलाग्निपाविताम्
॥५८॥स्वप्रमाणां सुखस्पर्शां रणांगणपणीकृताम् ।
दर्शनीयां महादिव्यां सर्वदैव सुखावहाम्
॥५९॥इष्टगंधिस्सदैवास्तु सदैवास्त्वतिकोमला ।
सदैव निर्मला चास्तु सदैवास्त्वतिमंडनाम्
॥६०॥महातपोनलज्वालां प्राप्यापि सुचिरं विभो ।
न दग्धा कृत्तिरेषा मे पुण्यगंधनिधेस्ततः
॥६१॥यदि पुण्यवती नैषा मम कृत्ति दिगंबर ।
तदा त्वदंगसंगोस्याः कथं जातो रणांगणे
॥६२॥अन्यं च मे वरं देहि यदि तुष्टोऽसि शंकर ।
नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम्
॥६३॥सनत्कुमार उवाच
श्रुत्वेति स वचस्तस्य शंकरो भक्तवत्सलः ।
तथेत्युवाच सुप्रीतो महिषासुरजं च तम्
॥६४॥पुनः प्रोवाच प्रीतात्मा दानवं तं गजासुरम् ।
भक्तप्रियो महेशानो भक्तिनिर्मलमानसम्
॥६५॥ईश्वर उवाच
इदं पुण्यं शरीरं ते क्षेत्रेऽस्मिन्मुक्तिसाधने ।
मम लिंगं भवत्वत्र सर्वेषां मुक्तिदायकम्
॥६६॥कृत्तिवासेश्वरं नाम महापातकनाशनम् ।
सर्वेषामेव लिंगानां शिरोभूतं विमुक्तिदम्
॥६७॥कथयित्वेति देवेशस्तत्कृतिं परिगृह्य च ।
गजासुरस्य महतीं प्रावृणोद्धि दिगंबरः
॥६८॥महामहोत्सवो जातस्तस्मिन्नह्नि मुनीश्वर ।
हर्षमापुर्जनास्सर्वे काशीस्थाः प्रमथास्तथा
॥६९॥हरि ब्रह्मादयो देवा हर्षनिर्भरमानसाः ।
तुष्टुवुस्तं महेशानं नत्वा सांजलयस्ततः
॥७०॥हते तस्मिन्दानवेशे माहिषे हि गजासुरे ।
स्वस्थानं भेजिरे देवा जगत्स्वास्थ्यमवाप च
॥७१॥इत्युक्तं चरितं शंभोर्भक्तवात्सल्यसूचकम् ।
स्वर्ग्यं यशस्यमायुष्यं धनधान्यप्रवर्द्धनम्
॥७२॥य इदं शृणुयात्प्रीत्या श्रावयेद्वा शुचिव्रतः ।
स भुक्त्वा च महासौख्यं लभेतांते परं सुखम्
॥७३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे गजासुरवधो नाम सप्तपंचाशत्तमोऽध्यायः ॥ ५७ ॥