मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय १४

3
रुद्रसंहिता · युद्धखण्डः · 14

जलंधरोत्पत्तिविवाहवर्णनम्

व्यास उवाच

सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोस्तु ते ।

श्रुतेयमद्भुता मेऽद्य कथा शंभोर्महात्मनः

॥१॥

क्षिप्ते स्वतेजसि ब्रह्मन्भालनेत्रसमुद्भवे ।

लवणांभसि किं ताताभवत्तत्र वदाशु तत्

॥२॥

सनत्कुमार उवाच

शृणु तात महाप्राज्ञ शिवलीलां महाद्भुताम् ।

यच्छ्रुत्वा श्रद्धया भक्तो योगिनां गतिमाप्नुयात्

॥३॥

अथो शिवस्य तत्तेजो भालनेत्रसमुद्भवम् ।

क्षिप्तं च लवणाम्भोधौ सद्यो बालत्वमाप ह

॥४॥

तत्र वै सिंधुगंगायाः सागरस्य च संगमे ।

रुरोदोच्चैस्स वै बाल सर्वलोक भयंकरः

॥५॥

रुदतस्तस्य शब्देन प्राकंपद्धरणी मुहुः ।

स्वर्गश्च सत्यलोकश्च तत्स्वनाद्बधिरीकृतः

॥६॥

बालस्य रोदनेनैव सर्वे लोकाश्च तत्रसुः ।

सर्वतो लोकपालाश्च विह्वलीकृतमानसाः

॥७॥

किं बहूक्तेन विप्रेन्द्र चचाल सचराचरम् ।

भुवनं निखिलं तात रोदनात्तच्छिशोर्विभो

॥८॥

अथ ते व्याकुलास्सर्वे देवास्समुनयो द्रुतम् ।

पितामहं लोकगुरुं ब्रह्माणं शरणं ययुः

॥९॥

तत्र गत्वा च ते देवा सुनयश्च सवासवाः ।

प्रणम्य च सुसंस्तुत्य प्रोचुस्तं परमेष्ठिनम्

॥१०॥

देवा ऊचुः

लोकाधीश सुराधीश भयन्नस्समुपस्थितम् ।

तन्नाशय महायोगिञ्जातोयं ह्यद्भुतो रवः

॥११॥

सनत्कुमार उवाच

इत्याकर्ण्य वचस्तेषां ब्रह्मा लोकपितामहः ।

गंतुमैच्छत्ततस्तत्र किमेतदिति विस्मितः

॥१२॥

ततो ब्रह्मा सुरैस्तातावतरत्सत्यलोकतः ।

रसां तज्ज्ञातुमिच्छन्स समुद्रमगमत्तदा

॥१३॥

यावत्तत्रागतो ब्रह्मा सर्वलोकपितामहः ।

तावत्समुद्रस्योत्संगे तं बालं स ददर्श ह

॥१४॥

आगतं विधिमालोक्य देवरूप्यथ सागरः ।

प्रणम्य शिरसा बालं तस्योत्संगे न्यवेशयत्

॥१५॥

ततो ब्रह्माब्रवीद्वाक्यं सागरं विस्मयान्वितः ।

जलराशे द्रुतं ब्रूहि कस्यायं शिशुरद्भुतः

॥१६॥

सनत्कुमार उवाच

ब्रह्मणो वाक्यमाकर्ण्य मुदितस्सागरस्तदा ।

प्रत्युवाच प्रजेशं स नत्वा स्तुत्वा कृतांजलिः

॥१७॥

समुद्र उवाच

भो भो ब्रह्मन्मया प्राप्तो बालकोऽयमजानता ।

प्रभवं सिंधुगंगायामकस्मात्सर्वलोकप

॥१८॥

जातकर्मादिसंस्कारान्कुरुष्वास्य जगद्गुरो ।

जातकोक्तफलं सर्वं विधातर्वक्तुमर्हसि

॥१९॥

सनत्कुमार उवाच

एवं वदति पाथोधौ स बालस्सागरात्मजः ।

ब्रह्माणमग्रहीत्कण्ठे विधुन्वंतं मुहुर्मुहुः

॥२०॥

विधूननं च तस्यैवं सर्वलोककृतो विधेः ।

पीडितस्य च कालेय नेत्राभ्यामगमज्जलम्

॥२१॥

कराभ्यामब्धिजातस्य तत्सुतस्य महौजसः ।

कथंचिन्मुक्तकण्ठस्तु ब्रह्मा प्रोवाच सादरम्

॥२२॥

ब्रह्मोवाच

शृणु सागर वक्ष्यामि तवास्य तनयस्य हि ।

जातकोक्तफलं सर्वं समाधानरतः खलु

॥२३॥

नेत्राभ्यां विधृतं यस्मादनेनैव जलं मम ।

तस्माज्जलंधरेतीह ख्यातो नाम्ना भवत्वसौ

॥२४॥

अधुनैवैष तरुणस्सर्वशास्त्रार्थपारगः ।

महापराक्रमो धीरो योद्धा च रणदुर्मदः

॥२५॥

भविष्यति च गंभीरस्त्वं यथा समरे गुहः ।

सर्वजेता च संग्रामे सर्वसंपद्विराजितः

॥२६॥

दैत्यानामधिपो बालः सर्वेषां च भविष्यति ।

विष्णोरपि भवेज्जेता न कुत श्चित्पराभवः

॥२७॥

अवध्यस्सर्वभूतानां विना रुद्रं भविष्यति ।

यत एष समुद्भूतस्तत्रेदानीं गमिष्यति

॥२८॥

पतिव्रतास्य भविता पत्नी सौभाग्यवर्द्धिनी ।

सर्वाङ्गसुन्दरी रम्या प्रियवाक्छीलसागरा

॥२९॥

सनत्कुमार उवाच

इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत् ।

आमंत्र्य सरितान्नाथं ब्रह्मांतर्द्धानमन्वगात्

॥३०॥

अथ तद्दर्शनोत्फुल्लनयनस्सागरस्तदा ।

तमात्मजं समादाय स्वगेहमगमन्मुदा

॥३१॥

अपोषयन्महोपायैस्स्वबालं मुदितात्मकः ।

सर्वांगसुन्दरं रम्यं महाद्भुतसुतेजसम्

॥३२॥

अथाम्बुधिस्समाहूय कालनेमिं महासुरम् ।

वृन्दाभिधां सुतां तस्य तद्भार्यार्थमयाचत

॥३३॥

कालनेम्यसुरो वीरोऽसुराणां प्रवरस्सुधीः ।

साधु येनेम्बुधेर्याञ्चां स्वकर्मनिपुणो मुने

॥३४॥

जलंधराय वीराय सागरप्रभवाय च ।

ददौ ब्रह्मविधानेन स्वसुतां प्राणवल्लभाम्

॥३५॥

तदोत्सवो महानासीद्विवाहे च तयोस्तदा ।

सुखं प्रापुर्नदा नद्योऽसुराश्चैवाखिला मुने

॥३६॥

समुद्रोऽति सुखं प्राप सुतं दृष्ट्वा हि सस्त्रियम् ।

दानं ददौ द्विजातिभ्योऽप्यन्येभ्यश्च यथाविधि

॥३७॥

ये देवैर्निर्जिताः पूर्वं दैत्याः पाताल संस्थिताः ।

ते हि भूमंडलं याता निर्भयास्तमुपाश्रिताः

॥३८॥

ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां सिंधुसुताय दत्त्वा ।

बभूवुरत्यन्तमुदान्विता हि तमाश्रिता देव विनिर्जयाय

॥३९॥

स चापि वीरोम्बुधिबालकोऽसौ जलंधराख्योऽसुरवीरवीरः ।

संप्राप्य भार्यामतिसुन्दरी वशी चकार राज्यं हि कविप्रभावात्

॥४०॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलं धरवधोपाख्याने जलंधरोत्पत्तिविवाहवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥