परस्परयुद्धवर्णनम्
सनत्कुमार उवाच
स दूतस्तत्र गत्वा च शिववाक्यं जगाद ह ।
सविस्तरं यथार्थं च निश्चयं तस्य तत्त्वतः
॥१॥तच्छुत्वा शंखचूडोऽसौ दानवेन्द्रः प्रतापवान् ।
अंगीचकार सुप्रीत्या रणमेव स दानवः
॥२॥समारुरोह यानं च सहामात्यैश्च सत्वरः ।
आदिदेश स्वसैन्यं च युद्धार्थं शंकरेण च
॥३॥शिवस्स्वसैन्यं देवांश्च प्रेरयामास सत्वरः ।
स्वयमप्यखिलेशोपि सन्नद्धोभूच्च लीलया
॥४॥युद्धारंभो बभूवाशु नेदुर्वाद्यानि भूरिशः ।
कोलाहलश्च संजातो वीरशब्दस्तथैव च
॥५॥देवदानवयोर्युद्धं स्परमभून्मुने ।
धर्मतो युयुधे तत्र देवदानवयोर्गणः
॥६॥स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ।
भास्करो युयुधे विप्रचित्तिना सह धर्मतः
॥७॥दंभेन सह विष्णुश्च चकार परमं रणम् ।
कालासुरेण कालश्च गोकर्णेन हुताशनः
॥८॥कुबेरः कालकेयेन विश्वकर्मा मयेन च ।
भयंकरेण मृत्युश्च संहारेण यमस्तथा
॥९॥कालम्बिकेन वरुणश्चंचलेन समीरणः ।
बुधश्च घटपृष्ठेन रक्ताक्षेण शनैश्चरः
॥१०॥जयन्तो रत्नसारेण वसवो वर्चसां गणैः ।
अश्विनौ दीप्तिमद्भ्यां च धूम्रेण नलकूबरः
॥११॥धुरंधरेण धर्मश्च गणकाक्षेण मंगलः ।
शोभाकरेण वैश्वानः पिपिटेन च मन्मथः
॥१२॥गोकामुखेन चूर्णेन खड्गनाम्नाऽसुरेण च ।
धूम्रेण संहलेनापि विश्वेन च प्रतापिना
॥१३॥पलाशेन द्वादशाऽर्का युयुधुर्धर्मतः परे ।
असुरैरमरास्सार्द्धं शिवसाहाय्यशालिनः
॥१४॥एकादश महारुद्राश्चैकादशभयंकरैः ।
असुरैर्युयुधुर्वीरैर्मैहाबलपराक्रमैः
॥१५॥महामणिश्च युयुधे चोग्रचंडादिभिस्सह ।
राहुणा सह चन्द्रश्च जीवः शुक्रेण धर्मतः
॥१६॥नन्दीश्वरादयस्सर्वे दानवप्रवरैस्सह ।
युयुधुश्च महायुद्धे नोक्ता विस्तरतः पृथक्
॥१७॥वटमूले तदा शंभुस्तस्थौ काल्याः सुतेन च ।
सर्वे च युयुधुस्सैन्यसमूहास्सततं मुने
॥१८॥रत्नसिंहासने रम्ये कोटिदानवसंयुतः ।
उवास शंखचूडश्च रत्नभूषणभूषितः
॥१९॥महायुद्धो बभूवाथ देवासुरविमर्दनः ।
नानायुधानि दिव्यानि चलंतिस्म महामृधे
॥२०॥गदर्ष्टिपट्टिशाश्चक्रभुशुंडिप्रासमुद्गराः ।
निस्त्रिंशभल्लपरिघाः शक्त्युन्मुखपरश्वधाः
॥२१॥शरतोमरखड्गाश्च शतघ्न्यश्च सहस्रशः ।
भिंदिपालादयश्चान्ये वीरहस्तेषु शोभिताः
॥२२॥शिरांसि चिच्छिदुश्चैभिर्वीरास्तत्र महो त्सवाः ।
वीराणामुभयोश्चैव सैन्ययोर्गर्जतो रणे
॥२३॥गजास्तुरंगा बहवः स्यन्दनाश्च पदातयः ।
सारोहवाहा विविधास्तत्रासन् सुविखंडिताः
॥२४॥निकृत्तबाहूरुकरकटिकर्णयुगांघ्रयः ।
संछिन्नध्वजबाणासितनुत्र वरभूषणाः
॥२५॥समुद्धतकिरीटैश्च शिरोभिस्सह कुंडलैः ।
संरंभनष्टैरास्तीर्णा बभौ भूः करभोरुभिः
॥२६॥महाभुजैस्साभरणैस्संछिन्नैस्सायुधैस्तथा ।
अंगैरन्यैश्च सहसा पटलैर्वा ससारघैः
॥२७॥मृधे भटाः प्रधावंतः कबंधान् स्वशिरोक्षिभिः ।
पश्यंतस्तत्र चोत्पेतुरुद्यतायुधसद्भुजैः
॥२८॥वल्गंतोऽतितरां वीरा युयुधुश्च परस्परम् ।
शस्त्रास्त्रैर्विविधैस्तत्र महाबलपराक्रमाः
॥२९॥केचित्स्वर्णमुखैर्बाणैर्विनिहत्य भटान्मृधे ।
व्यनदन् वीरसन्नादं सतोया इव तोयदाः
॥३०॥सर्वतश्शरकूटेन वीरस्सरथसारथिम् ।
वीरं संछादयामास प्रावृट्सूर्यमिवांबुदः
॥३१॥अन्योन्यमभिसंसृत्य युयुधुर्द्वन्द्वयोधिनः ।
आह्वयंतो विशंतोऽग्रे क्षिपंतो मर्मभिर्मिथः
॥३२॥सर्वतो वीरसंघाश्च नानाबाहुध्वजायुधाः ।
व्यदृश्यंत महासंख्ये कुर्वंतः सिंहसंरवम्
॥३३॥महारवान्स्वशंखांश्च विदध्मुर्वै पृथक् पृथक् ।
वल्गनं चक्रिरे तत्र महावीराः प्रहर्षिताः
॥३४॥एवं चिरतरं कालं देवदानवयोर्महत् ।
बभूव युद्धं विकटं करालं वीरहर्षदम्
॥३५॥महाप्रभोश्च लीलेयं शंकरस्य परात्मनः ।
यया समीहितं सर्वं सदेवासुरमानुषम्
॥३६॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधे परस्परयुद्धवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥