मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ३३

3
रुद्रसंहिता · युद्धखण्डः · 33

महादेवयुद्धयात्रावर्णनम्

सनत्कुमार उवाच

तस्य तद्वाक्यमाकर्ण्य सुरराट् ततः ।

सक्रोधः प्राह गिरिशो वीरभद्रादिकान्गणान्

॥१॥

रुद्र उवाच

हे वीरभद्र हे नंदिन्क्षेत्रपालष्टभैरवाः ।

सर्वे गणाश्च सन्नद्धास्सायुधा बलशालिनः

॥२॥

कुमाराभ्यां सहैवाद्य निर्गच्छंतु ममाज्ञया ।

स्वसेनया भद्रकाली निर्गच्छतु रणाय च ।

शंखचूडवधार्थाय निर्गच्छाम्यद्य सत्वरम्

॥३॥

सनत्कुमार उवाच

इत्याज्ञाप्य महेशानो निर्ययौ सैन्यसंयुतः ।

सर्वे वीरगणास्तस्यानु ययुस्संप्रहर्षिताः

॥४॥

एतस्मिन्नंतरे स्कंदगणेशौ सर्वसैन्यपौ ।

यततुर्मुदितौ नद्धौ सायुधौ च शिवांतिके

॥५॥

वीरभद्रश्च नन्दी च महाकालस्सुभद्रकः ।

विशालाक्षश्च बाणश्च पिंगलाक्षो विकंपनः

॥६॥

विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ।

कपिलाख्यो दीर्घदंष्द्रो विकरस्ताम्रलोचनः

॥७॥

कालंकरो बलीभद्रः कालजिह्वः कुटीचरः ।

बलोन्मत्तो रणश्लाघ्यो दुर्जयो दुर्गमस्तथा

॥८॥

इत्यादयो गणेशानास्सैन्यानां पतयो वराः ।

तेषां च गणनां वच्मि सावधानतया शृणु

॥९॥

शंखकर्णः कोटिगणैर्युतः परविमर्दकः ।

दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च

॥१०॥

चतुष्षष्ट्या विशाखश्च नवभिः पारियात्रिकः ।

षड्भिस्सर्वान्तकः श्रीमांस्त थैव विकृताननः

॥११॥

जालको हि द्वादशभिः कोटिभिर्गणपुंगवः ।

सप्तभिस्समदः श्रीमान्दुन्दुभोऽष्टाभिरेव च

॥१२॥

पंचभिश्च करालाक्षः षड्भिस्संदारको वरः ।

कोटिकोटिभिरेवेह कंदुकः कुंडकस्तथा

॥१३॥

विष्टंभोऽष्टाभिरेवेह गणपस्सर्वस त्तमः ।

पिप्पलश्च सहस्रेण संनादश्च तथाविधः

॥१४॥

आवेशनस्तथाष्टाभिस्त्वष्टभिश्चन्द्रतापनः ।

महाकेशः सहस्रेण कोटीनां गणपो वृतः

॥१५॥

कुंडी द्वादशभिर्वीरस्तथा पर्वतकश्शुभः ।

कालश्च कालकश्चैव महाकालश्शतेन वै

॥१६॥

अग्निकश्शत कोट्या च कोट्याग्निमुख एव च ।

आदित्यो ह्यर्द्धकोट्या च तथा चैवं घनावहः

॥१७॥

सनाहश्च शतेनैव कुमुदः कोटिभिस्तथा ।

अमोघः कोकिलश्चैव शतकोट्या सुमंत्रकः

॥१८॥

काकपादः कोटिषष्ट्या षष्ट्या संतानकस्तथा ।

महाबलश्च नवभिः पञ्चभिर्मधुपिंगल

॥१९॥

नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ।

कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः

॥२०॥

कोटिकोटिसहस्राणां शतैर्विंशतिभिस्तथा ।

तत्राजग्मुस्तथा वीरास्ते सर्वे संगरोत्सवे

॥२१॥

भूतकोटिसहस्रेण प्रमथैर्कोटिभि स्त्रिभिः ।

वीरभद्रश्चतुष्षष्ट्या लोमजानां त्रिकोटिभिः

॥२२॥

काष्ठारूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा ।

विरूपाक्षश्च भगवांश्चतुष्षष्ट्या सनातनः

॥२३॥

तालकेतुः षडास्यश्च पंचास्यश्च प्रतापवान् ।

संवर्तकस्तथा चैत्रो लंकुलीशस्स्वयं प्रभुः

॥२४॥

लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः ।

देवो भृङ्गीरिटिः श्रीमान्देवदेवप्रियस्तथा

॥२५॥

अशनिर्भानुकश्चैव चतुः षष्ट्या सहस्रशः ।

कंकालः कालकः कालो नन्दी सर्वान्तकस्तथा

॥२६॥

एते चान्ये च गणपा असंख्याता महाबलाः ।

युद्धार्थं निर्ययुः प्रीत्या शंखचूडेन निर्भयाः

॥२७॥

सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।

चन्द्ररेखावतंसाश्च नीलकंठास्त्रिलोचनाः

॥२८॥

रुद्राक्षाभरणास्सर्वे तथा सद्भस्मधारिणः ।

हारकुंडलकेयूरमुकुटाद्यैरलंकृताः

॥२९॥

ब्रह्मेन्द्रविष्णुसंकाशा अणिमादिगुणैर्वृताः ।

सूर्यकोटिप्रतीकाशाः प्रवीणा युद्धकर्मणि

॥३०॥

पृथिवीचारिणः केचित्केचित्पातालचारिणः ।

केचिद्व्योमचराः केचित्सप्तस्वर्गचरा मुने

॥३१॥

किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः ।

ययुश्शिवगणास्सर्वे युद्धार्थं दानवैस्सह

॥३२॥

अष्टौ च भैरवा रौद्रा रुद्रा श्चैकादशाशु ये ।

वसवोऽष्टौ वासवश्चादित्या द्वादश ते द्रुतम्

॥३३॥

हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ ।

कुबेरश्च यमश्चैव निर्ऋतिर्नलकूबरः

॥३४॥

वायुश्च वरुणश्चैव बुधश्च मंगलश्च वै ।

ग्रहाश्चान्ये महेशेन कामदेवश्च वीर्यवान्

॥३५॥

उग्रदंष्ट्रश्चोग्रदण्डः कोरटः कोटभस्तथा ।

स्वयं शतभुजा देवी भद्रकाली महेश्वरी

॥३६॥

रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता ।

रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना

॥३७॥

नृत्यंती च हसंती च गायंती सुस्वरं मुदा ।

अभयं ददती स्वेभ्यो भयं चारिभ्य एव सा

॥३८॥

बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ।

शंखचक्रगदापद्मखङ्गचर्मधनुश्शरान्

॥३९॥

खर्परं वर्तुलाकारं गंभीरं योजनायतम् ।

त्रिशूलं गगनस्पर्शिं शक्तिं च योजनायताम्

॥४०॥

मुद्गरं मुसलं वक्त्रं खङ्गं फलकमुल्बणम् ।

वैष्णवास्त्रं वारुणास्त्रं वायव्यं नागपाशकम्

॥४१॥

नारायणास्त्रं गांधर्वं ब्रह्मास्त्रं गारुडं तथा ।

पार्जन्यं च पाशुपतं जृंभणास्त्रं च पार्वतम्

॥४२॥

महावीरं च सौरं च कालकालं महानलम् ।

महेश्वरास्त्रं याम्यं च दंडं संमोहनं तथा

॥४३॥

समर्थमस्त्रकं दिव्यं दिव्यास्त्रं शतकं परम् ।

बिभ्रती च करैस्सर्वैरन्यान्यपि च सा तदा

॥४४॥

आगत्य तस्थौ सा तत्र योगिनीनां त्रिकोटिभिः ।

सार्द्धं च डाकिनीनां वै विकटानां त्रिकोटिभिः

॥४५॥

भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।

वेताला राक्षसाश्चैव यक्षाश्चैव सकिन्नराः

॥४६॥

तश्चैवाभिवृतः स्कंदः प्रणम्य चन्द्रशेखरम् ।

पितुः पार्श्वे सहायो यः समुवास तदाज्ञया

॥४७॥

अथ शम्भुस्समानीय स्वसैन्यं सकलं तदा ।

युद्धार्थमगमद्रुद्रश्शंङ्खचूडेन निर्भयः

॥४८॥

चन्द्रभागानदीतीरे वटमूले मनोहरे ।

तत्र तस्थौ महादेवो देवनिस्ता रहेतवे

॥४९॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे महादेवयुद्धयात्रावर्णनं नाम त्रय स्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥