शंखचूडसैन्यवधवर्णनम्
व्यास उवाच
श्रुत्वा काल्युक्तमीशानो किं चकार किमुक्तवान् ।
तत्त्वं वद महाप्राज्ञ परं कौतूहलं मम
॥१॥सनत्कुमार उवाच
काल्युक्तं वचनं श्रुत्वा शंकरः परमेश्वरः ।
महालीलाकरश्शंभुर्जहासाश्वासयञ्च ताम्
॥२॥व्योमवाणीं समाकर्ण्य तत्त्वज्ञानविशारदः ।
ययौ स्वयं च समरे स्वगणैस्सह शंकरः
॥३॥महावृषभमारूढो वीरभद्रादिसंयुतः ।
भैरवैः क्षेत्रपालैश्च स्वसमानैस्समन्वितः
॥४॥रणं प्राप्तो महेशश्च वीररूपं विधाय च ।
विरराजाधिकं तत्र रुद्रो मूर्त इवांतकः
॥५॥शंखचूडश्शिवं दृष्ट्वा विमानादवरुह्य सः ।
ननाम परया भक्त्या शिरसा दंडवद्भुवि
॥६॥तं प्रणम्य तु योगेन विमानमारुरोह सः ।
तूर्णं चकार सन्नाहं धनुर्जग्राह सेषुकम्
॥७॥शिवदानवयोर्युद्धं शतमब्दं बभूव ह ।
बाणवर्षमिवोग्रं तद्वर्षतोर्मोघयोस्तदा
॥८॥शंखचूडो महावीरश्शरांश्चिक्षेप दारुणान् ।
चिच्छेद शंकरस्तान्वै लीलया स्वशरोत्करैः
॥९॥तदंगेषु च शस्त्रोघैस्ताडयामास कोपतः ।
महारुद्रो विरूपाक्षो दुष्टदण्डस्सतां गति
॥१०॥दानवो निशितं खड्गं चर्म चादाय वेगवान् ।
वृषं जघान शिरसि शिवस्य वरवाहनम्
॥११॥ताडिते वाहने रुद्रस्तं क्षुरप्रेण लीलया ।
खड्गं चिच्छेद तस्याशु चर्म चापि महोज्ज्वलम्
॥१२॥छिन्नेऽसौ चर्मणि तदा शक्तिं चिक्षेप सोऽसुरः ।
द्विधा चक्रे स्वबाणेन हरस्तां संमुखागताम्
॥१३॥कोपाध्मातश्शंखचूडश्चक्रं चिक्षेप दानवः ।
मुष्टिपातेन तच्चाप्यचूर्णयत्सहसा हरः
॥१४॥गदामाविध्य तरसा संचिक्षेप हरं प्रति ।
शंभुना सापि सहसा भिन्ना भस्मत्वमागता
॥१५॥ततः परशुमादाय हस्तेन दानवेश्वरः ।
धावति स्म हरं वेगाच्छंखचूडः क्रुधाकुलः
॥१६॥समाहृत्य स्वबाणौघैरपातयत शंकरः ।
द्रुतं परशुहस्तं तं भूतले लीलयासुरम्
॥१७॥ततः क्षणेन संप्राप्य संज्ञामारुह्य सद्रथम् ।
धृतदिव्यायुधशरो बभौ व्याप्याखिलं नभः
॥१८॥आयांतं तं निरीक्ष्यैव डमरुध्वनि मादरात् ।
चकार ज्यारवं चापि धनुषो दुस्सहं हर
॥१९॥पूरयामास ककुभः शृंगनादेन च प्रभुः ।
स्वयं जगर्ज गिरिशस्त्रासयन्नसुरांस्तदा
॥२०॥त्याजितेभ महागर्वैर्महानादैर्वृषेश्वरः ।
पूरयामास सहसा खं गां वसुदिशस्तथा
॥२१॥महाकालस्समुत्पत्या ताडयद्गां तथा नभः ।
कराभ्यां तन्निनादेन क्षिप्ता आसन्पुरारवाः
॥२२॥अट्टाट्टहासमशिवं क्षेत्रपालश्चकार ह ।
भैरवोऽपि महानादं स चकार महाहवे
॥२३॥महाकोलाहलो जातो रणमध्ये भयंकरः ।
वीरशब्दो बभूवाथ गणमध्ये समंततः
॥२४॥संत्रेसुर्दानवास्सर्वे तैश्शब्दैर्भयदैः खरैः ।
चुकोपातीव तच्छ्रुत्वा दानवेन्द्रो महाबलः
॥२५॥तिष्ठतिष्ठेति दुष्टात्मन्व्याजहार यदा हरः ।
देवैर्गणैश्च तैः शीघ्रमुक्तं जय जयेति च
॥२६॥अथागत्य स दंभस्य तनयस्सुप्रतापवान् ।
शक्तिं चिक्षेप रुद्राय ज्वालामालातिभीषणाम्
॥२७॥वह्निकूटप्रभा यांती क्षेत्रपालेन सत्वरम् ।
निरस्तागत्य साजौ वै मुखोत्पन्नमहोल्कया
॥२८॥पुनः प्रववृते युद्धं शिवदानवयोर्महत् ।
चकंपे धरणी द्यौश्च सनगाब्धिजलाशया
॥२९॥दांभिमुक्ताच्छराञ्शंभुश्शरांस्तत्प्रहितान्स च ।
सहस्रशश्शरैरुग्रैश्चिच्छेद शतशस्तदा
॥३०॥ततश्शंभुस्त्रिशूलेन संकुद्धस्तं जघान ह ।
तत्प्रहारमसह्याशु कौ पपात स मूर्च्छितः
॥३१॥ततः क्षणेन संप्राप संज्ञां स च तदासुरः ।
आजघान शरै रुद्रं तान्सर्वानात्तकार्मुकः
॥३२॥बाहूनागयुतं कृत्वा छादयामास शंकरम् ।
चक्रायुतेन सहसा शंखचूडः प्रतापवान्
॥३३॥ततो दुर्गापतिः क्रुद्धो रुद्रो दुर्गार्तिनाशनः ।
तानि चक्राणि चिच्छेद स्वशरैरुत्तमै द्रुतम्
॥३४॥ततो वेगेन सहसा गदामादाय दानवः ।
अभ्यधावत वै हंतुं बहुसेनावृतो हरम्
॥३५॥गदां चिच्छेद तस्याश्वापततः सोऽसिना हरः ।
शितधारेण संक्रुद्धो दुष्टगर्वापहारकः
॥३६॥छिन्नायां स्वगदायां च चुकोपातीव दानवः ।
शूलं जग्राह तेजस्वी परेषां दुस्सहं ज्वलत्
॥३७॥सुदर्शनं शूलहस्तमायांते दानवेश्वरम् ।
स्वत्रिशूलेन विव्याध हृदि तं वेगतो हरः
॥३८॥त्रिशूलभिन्नहृदयान्निष्क्रांतः पुरुषः परः ।
तिष्ठतिष्ठेति चोवाच शंखचूडस्य वीर्यवान्
॥३९॥निष्क्रामतो हि तस्याशु प्रहस्य स्वनवत्ततः ।
चिच्छेद च शिरो भीम मसिनासोऽपतद्भुवि
॥४०॥ततः कालीं चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान् ।
असुरांस्तान् बहून् क्रोधात् प्रसार्य स्वमुखं तदा
॥४१॥क्षेत्रपालश्चखादान्यान्बहून्दैत्यान्क्रुधाकुलः ।
केचिन्नेशुर्भैरवास्त्रच्छिन्ना भिन्नास्तथापरे
॥४२॥वीरभद्रोऽपरान्धीमान्बहून् क्रोधादनाशयत् ।
नन्दीश्वरो जघानान्यान्बहूनमरमर्दकान्
॥४३॥एवं बहुगणा वीरास्तदा संनह्य कोपतः ।
व्यनाशयन्बहून्दैत्यानसुरान् देव मर्दकान्
॥४४॥इत्थं बहुतरं तत्र तस्य सैन्यं ननाश तत् ।
विद्रुताश्चापरे वीरा बहवो भयकातराः
॥४५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडसैन्यवधवर्णनं नाम नवत्रिंशोऽध्यायः ॥ ३९ ॥