जलंधरवधानंतरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनम्
व्यास उवाच
ब्रह्मपुत्र नमस्तेऽस्तु धन्यस्त्वं शैवसत्तम ।
यच्छ्राविता महादिव्या कथेयं शांकरी शुभा
॥१॥इदानीं ब्रूहि सुप्रीत्या चरितं वैष्णवं मुने ।
स वृन्दां मोहयित्वा तु किमकार्षीत्कुतो गतः
॥२॥सनत्कुमार उवाच
शृणु व्यास महाप्राज्ञ शैवप्रवर सत्तम ।
वैष्णवं चरितं शंभुचरिताढ्यं सुनिर्मलम्
॥३॥मौनीभूतेषु देवेषु ब्रह्मादिषु महेश्वरः ।
सुप्रसन्नोऽवदच्छंभुश्शरणागत वत्सलः
॥४॥शंभुरुवाच
ब्रह्मन्देववरास्सर्वे भवदर्थे मया हतः ।
जलंधरो मदंशोपि सत्यं सत्यं वदाम्यहम्
॥५॥सुखमापुर्न वा तातास्सत्यं ब्रूतामराः खलु ।
भवत्कृते हि मे लीला निर्विकारस्य सर्वदा
॥६॥सनत्कुमार उवाच
अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः ।
प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम्
॥७॥देवा ऊचुः
महादेव त्वया देवा रक्षिता श्शत्रुजाद्भयात् ।
किंचिदन्यत्समुद्भूतं तत्र किं करवामहै
॥८॥वृन्दां विमोहिता नाथ विष्णुना हि प्रयत्नतः ।
भस्मीभूता द्रुतं वह्नौ परमां गतिमागता
॥९॥वृन्दालावण्यसंभ्रांतो विष्णुस्तिष्ठति मोहितः ।
तच्चिताभस्म संधारी तव मायाविमोहितः
॥१०॥स सिद्धमुनिसंघैश्च बोधितोऽस्माभिरादरात् ।
न बुध्यते हरिस्सोथ तव मायाविमोहितः
॥११॥कृपां कुरु महेशान विष्णुं बोधय बोधय ।
त्वदधीनमिदं सर्वं प्राकृतं सचराचरम्
॥१२॥सनत्कुमार उवाच
इत्याकर्ण्य महेशो हि वचनं त्रिदिवौकसाम् ।
प्रत्युवाच महालीलस्स्वच्छन्दस्तान्कृतांजलीन्
॥१३॥महेश उवाच
हे ब्रह्मन्हे सुरास्सर्वे मद्वाक्यं शृणुतादरात् ।
मोहिनी सर्वलोकानां मम माया दुरत्यया
॥१४॥तदधीनं जगत्सर्वं यद्देवासुरमानुषम् ।
तयैव मोहितो विष्णुः कामाधीनोऽभवद्धरिः
॥१५॥उमाख्या सा महादेवी त्रिदेवजननी परा ।
मूलप्रकृतिराख्याता सुरामा गिरिजात्मिका
॥१६॥गच्छध्वं शरणा देवा विष्णुमोहापनुत्तये ।
शरण्यां मोहिनीमायां शिवाख्यां सर्वकामदाम्
॥१७॥स्तुतिं कुरुत तस्याश्च मच्छक्तेस्तोषकारिणीम् ।
सुप्रसन्ना यदि च सा सर्वकार्यं करिष्यति
॥१८॥सनत्कुमार उवाच
इत्युक्त्वा तान्सुराञ्शंभुः पञ्चास्यो भगवान्हरः ।
अंतर्दधे द्रुतं व्यास सर्वैश्च स्वगणैस्सह
॥१९॥देवाश्च शासनाच्छंभोर्ब्रह्माद्या हि सवासवा ।
मनसा तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम्
॥२०॥देवा ऊचुः
यदुद्भवास्सत्त्वरजस्तमोगुणाः सर्गस्थितिध्वंसविधान कारका ।
यदिच्छया विश्वमिदं भवाभवौ तनोति मूलप्रकृतिं नताः स्म ताम्
॥२१॥पाहि त्रयोविंशगुणान्सुशब्दिताञ्जगत्यशेषे समधिष्ठिता परा ।
यद्रूपकर्माणिजगत्त्रयोऽपि ते विदुर्न मूलप्रकृतिं नताः स्म ताम्
॥२२॥यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यमोहात्ययसंभवादीन् ।
न प्राप्नुवंत्येव हि भक्तवत्सलां सदैव मूलप्रकृतिं नताः स्म ताम्
॥२३॥कुरु कार्यं महादेवि देवानां नः परेश्वरि ।
विष्णुमोहं ह शिवे दुर्गे देवि नमोऽस्तु ते
॥२४॥जलंधरस्य शंभोश्च रणे कैलासवासिनः ।
प्रवृत्ते तद्वधार्थाय गौरीशासनतश्शिवे
॥२५॥वृन्दा विमोहिता देवि विष्णुना हि प्रयत्नतः ।
स्ववृषात्त्याजिता वह्नौ भस्मीभूता गतिं गता
॥२६॥जलंधरो हतो युद्धे तद्भयान्मो चिता वयम् ।
गिरिशेन कृपां कृत्वा भक्तानुग्रहकारिणा
॥२७॥तदाज्ञया वयं सर्वे शरणं ते समागताः ।
त्वं हि शंभुर्युवां देवि भक्तोद्धारपरायणौ
॥२८॥वृन्दालावण्यसंभ्रातो विष्णुस्तिष्ठति तत्र वै ।
तच्चिताभस्मसंधारी ज्ञानभ्रष्टो विमोहितः
॥२९॥संसिद्धसुरसंघैश्च बोधितोऽपि महेश्वरि ।
न बुध्यते हरिस्सोथ तव मायाविमोहितः
॥३०॥कृपां कुरु महादेवि हरिं बोधय बोधय ।
यथा स्वलोकं पायात्स सुचित्तस्सुरकार्यकृत्
॥३१॥इति स्तुवंतस्ते देवास्तेजोमंडलमास्थितम् ।
ददृशुर्गगने तत्र ज्वालाव्याप्ता दिगंतरम्
॥३२॥तन्मध्याद्भारतीं सर्वे ब्रह्माद्याश्च सवासवाः ।
अमराश्शुश्रुवुर्व्यास कामदां व्योमचारिणीम्
॥३३॥आकाशवाण्युवाच
अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ।
गौरी लक्ष्मीः सुरा ज्योती रजस्सत्त्वतमोगुणैः ।
तत्र गच्छत यूयं वै तासामंतिक आदरात् ।
मदाज्ञया प्रसन्नास्ता विधास्यंते तदीप्सितम्
॥३५॥सनत्कुमार उवाच
शृण्वतामिति तां वाचमंतर्द्धानमगान्महः ।
देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा मुने
॥३६॥ततस्सवेंऽपि ते देवाः श्रुत्वा तद्वाक्यमादरात् ।
गौरीं लक्ष्मीं सुरां चैव नेमुस्तद्वाक्यचोदिताः
॥३७॥तुष्टुवुश्च महाभक्त्या देवीस्तास्सकलास्सुराः ।
नानाविधाभिर्वाग्भिस्ते ब्रह्माद्या नतमस्तकाः
॥३८॥ततोऽरं व्यास देव्यस्ता आविर्भूताश्च तत्पुरः ।
महाद्भुतैस्स्वतेजोभिर्भासयंत्यो दिगंतरम्
॥३९॥अथ ता अमरा दृष्ट्वा सुप्रसन्नेन चेतसा ।
प्रणम्य तुष्टुवुर्भक्त्या स्वकार्यं च न्यवेदयन्
॥४०॥ततश्चैतास्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलः ।
बीजानि प्रददुस्तेभ्यो वाक्यमूचुश्च सादरम्
॥४१॥देव्य ऊचुः
इमानि तत्र बीजानि विष्णुर्यत्रावतिष्ठति ।
निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति
॥४२॥सनत्कुमार उवाच
इत्युक्त्वा तास्ततो देव्योंतर्हिता अभवन्मुने ।
रुद्रविष्णुविधीनां हि शक्तयस्त्रिगुणात्मिकाः
॥४३॥ततस्तुष्टाः सुरास्सर्वे ब्रह्माद्याश्च सवासवाः ।
तानि बीजानि संगृह्य ययुर्यत्र हरिः स्थितः
॥४४॥वृन्दाचिताभूमितले चिक्षिपुस्तानि ते सुराः ।
स्मृत्वा तास्संस्थितास्तत्र शिवशक्त्यंशका मुने
॥४५॥निक्षिप्तेभ्यश्च बीजेभ्यो वनस्पत्यस्त्रयोऽभवन् ।
धात्री च मालती चैव तुलसी च मुनीश्वर
॥४६॥धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ।
गौरीभवा च तुलसी तमस्सत्त्वरजोगुणाः
॥४७॥विष्णुर्वनस्पतीर्दृष्ट्वा तदा स्त्रीरूपिणीर्मुने ।
उदतिष्ठत्तदा तासु रागातिशयविभ्रमात्
॥४८॥दृष्ट्वा स याचते मोहात्कामासक्तेन चेतसा ।
तं चापि तुलसी धात्री रागेणैवावलोकताम्
॥४९॥यच्च बीजं पुरा लक्ष्म्या माययैव समर्पितम् ।
तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराभवत्
॥५०॥अतस्सा बर्बरीत्याख्यामवापातीव गर्हिताम् ।
धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा
॥५१॥ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ।
वैकुंठमगमत्तुष्टस्सर्वदेवैर्नमस्कृतः ।
कार्तिके मासि विप्रेन्द्र धात्री च तुलसी सदा ।
सर्वदेवप्रियाज्ञेया विष्णोश्चैव विशेषतः
॥५३॥तत्रापि तुलसी धन्यातीव श्रेष्ठा महामुने ।
त्यक्त्वा गणेशं सर्वेषां प्रीतिदा सर्वकामदा
॥५४॥वैकुण्ठस्थं हरिं दृष्ट्वा ब्रह्मेन्द्राद्याश्च तेऽमराः ।
नत्वा स्तुत्वा महाविष्णुं स्वस्वधामानि वै ययुः
॥५५॥वैकुण्ठोऽपि स्वलोकस्थो भ्रष्टमोहस्सुबोधवान् ।
सुखी चाभून्मुनिश्रेष्ठ पूर्ववत्संस्मरञ्छिवम्
॥५६॥इत्याख्यानमघोघघ्नं सर्वकामप्रदं नृणाम् ।
सर्व कामविकारघ्नं सर्वविज्ञानवर्द्धनम्
॥५७॥य इदं हि पठेन्नित्यं पाठयेद्वापि भक्तिमन् ।
शृणुयाच्छ्रावयेद्वापि स याति परमां गतिम्
॥५८॥पठित्वा य इदं धीमानाख्यानं परमोत्तमम् ।
संग्रामं प्रविशेद्वीरो विजयी स्यान्न संशयः
॥५९॥विप्राणां ब्रह्मविद्यादं सत्रियाणां जयप्रदम् ।
वैश्यानां सर्वधनदं शूद्राणां सुखदं त्विदम्
॥६०॥शंभुभक्तिप्रदं व्यास सर्वेषां पापनाशनम् ।
इहलोके परत्रापि सदा सद्गतिदायकम्
॥६१॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधानंतरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥