मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय १८

3
रुद्रसंहिता · युद्धखण्डः · 18

एवं शासति धर्मेण महीं तस्मिन्महासुरे

सनत्कुमार उवाच

एवं शासति धर्मेण महीं तस्मिन्महासुरे ।

बभूवुर्दुःखिनो देवा भ्रातृभावान्मुनीश्वर

॥१॥

दुःखितास्ते सुरास्सर्वे शिवं शरणमाययुः ।

मनसा शंकरं देवदेवं सर्वप्रभुंप्रभुम्

॥२॥

तुष्टुवुर्वाग्भिरिष्टाभिर्भगवंतं महेश्वरम् ।

निवृत्तये स्वदुःखस्य सर्वदं भक्तवत्सलम्

॥३॥

आहूय स महादेवो भक्तानां सर्वकामदः ।

नारदं प्रेरयामास देवकार्यचिकीर्षया

॥४॥

अथ देवमुनिर्ज्ञानी शंभुभक्तस्सतां गतिः ।

शिवाज्ञया ययौ दैत्यपुरे देवान्स नारदः

॥५॥

व्याकुलास्ते सुरास्सर्वे वासवाद्या द्रुतं मुनिम् ।

आगच्छंतं समालोक्य समुत्तस्थुर्हि नारदम्

॥६॥

ददुस्त आसनं नत्त्वा मुनये प्रीतिपूर्वकम् ।

नारदाय सुराश्शक्रमुखा उत्कंठिताननाः

॥७॥

सुखासीनं मुनिवरमासने सुप्रणम्य तम् ।

पुनः प्रोचुस्सुरा दीना वासवाद्या मुनीश्वरम्

॥८॥

देवा ऊचुः

भोभो मुनिवरश्रेष्ठ दुःखं शृणु कृपाकर ।

श्रुत्वा तन्नाशय क्षिप्रं प्रभुस्त्वं शंकरप्रियः

॥९॥

जलंधरेण दैत्येन सुरा विद्राविता भृशम् ।

स्वस्थानाद्भर्तृभावाच्च दुःखिता वयमाकुलाः

॥१०॥

स्वस्थानादुष्णरश्मिश्च चन्द्रो निस्सारितस्तथा ।

वह्निश्च धर्मराजश्च लोकपालास्तथेतरे

॥११॥

सुबलिष्ठेन वै तेन सर्वे देवाः प्रपीडिताः ।

दुःखं प्राप्ता वयं चातिशरणं त्वां समागताः

॥१२॥

संग्रामे स हृषीकेशं स्ववशं कृतवान् बली ।

जलंधरो महादैत्यः सर्वामरविमर्दकः

॥१३॥

तस्य वश्यो वराधीनोऽवात्सीत्तत्सदने हरिः ।

सलक्ष्म्या सहितो विष्णुर्यो नस्सर्वार्थसाधकः

॥१४॥

जलंधरविनाशाय यत्नं कुरु महामते ।

त्वं नो दैववशात्प्राप्तस्सदा सर्वार्थसाधकः

॥१५॥

सनत्कुमार उवाच

इत्याकर्ण्य वचस्तेषाममराणां स नारदः ।

आश्वास्य मुनिशार्दूलस्तानुवाच कृपाकरः

॥१६॥

नारद उवाच

जानेऽहं वै सुरा यूयं दैत्यराजपराजिताः ।

दुःख प्राप्ताः पीडिताश्च स्थानान्निस्सारिताः खलुः

॥१७॥

स्वशक्त्या भवतां स्वार्थं करिष्ये नात्र संशयः ।

अनुकूलोऽहमिव वो दुःखं प्राप्ता यतो ऽमराः

॥१८॥

सनत्कुमार उवाच

एवमुक्त्वा मुनिश्रेष्ठ द्रष्टुं दानववल्लभम् ।

आश्वास्य सकलान्देवाञ्जलंधरसभां ययौ

॥१९॥

अथागतं मुनिश्रेष्ठं दृष्ट्वा देवो जलंधरः ।

उत्थाय परया भक्त्या ददौ श्रेष्ठासनं वरम्

॥२०॥

स तं संपूज्य विधिवद्दानवेन्द्रोऽति विस्मितः ।

सुप्रहस्य तदा वाक्यं जगाद मुनिसत्तमम्

॥२१॥

जलंधर उवाच

कुत आगम्यते ब्रह्मन्किं च दृष्टं त्वया क्वचित् ।

यदर्थमिह आयातस्तदाज्ञापय मां मुने

॥२२॥

सनत्कुमार उवाच

इत्याकर्ण्य वचस्तस्य दैत्येन्द्रस्य महामुनिः ।

प्रत्युवाच प्रसन्नात्मा नारदो हि जलंधरम्

॥२३॥

नारद उवाच

सर्वदानवदैत्येन्द्र जलंधर महामते ।

धन्यस्त्वं सर्वलोकेश रत्नभोक्ता त्वमेव हि

॥२४॥

मदागमनहेतुं वै शृणु दैत्येन्द्रसत्तम ।

यदर्थमिह चायातस्त्वहं वक्ष्येखिलं हि तत्

॥२५॥

गतः कैलासशिखरं दैत्येन्द्राहं यदृच्छया ।

योजनायुतविस्तीर्णं कल्पद्रुममहावनम्

॥२६॥

कामधेनुशताकीर्णं चिंतामणिसुदीपितम् ।

सर्वरुक्ममयं दिव्यं सर्वत्राद्भुतशोभितम्

॥२७॥

तत्रोमया सहासीनं दृष्टवानस्मि शंकरम् ।

सर्वाङ्गसुन्दरं गौरं त्रिनेत्रं चन्द्रशेखरम्

॥२८॥

तं दृष्ट्वा महदाश्चर्यं वितर्को मेऽभवत्तदा ।

क्वापीदृशी भवेद्वृद्धिस्त्रैलोक्ये वा न वेति च

॥२९॥

तावत्तवापि दैत्येन्द्र समृद्धिस्संस्मृता मया ।

तद्विलोकनकामोऽहं त्वत्सांनिध्यमिहा गतः

॥३०॥

सनत्कुमार उवाच

इति नारदतः श्रुत्वा स दैत्येन्द्रो जलंधरः ।

स्वसमृद्धिं समग्रां वै दर्शयामास सादरम्

॥३१॥

दृष्ट्वा स नारदो ज्ञानी देवकार्यसुसाधकः ।

प्रभुप्रेरणया प्राह दैत्येन्द्रं तं जलंधरम्

॥३२॥

नारद् उवाच

तवास्ति सुसमृद्धिर्हि वरवीर खिलाधुना ।

त्रैलोक्यस्य पतिस्त्वं हि चित्रं किं चात्र संभवम्

॥३३॥

मणयो रत्नपुंजाश्च गजाद्याश्च समृद्धयः ।

ते गृहेऽद्य विभांतीह यानि रत्नानि तान्यपि

॥३४॥

गजरत्नं त्वयानीतं शक्रस्यैरावतस्तथा ।

अश्वरत्नं महावीर सूर्यस्योच्चैःश्रवा हयः

॥३५॥

कल्पवृक्षस्त्वयानीतो निधयो धनदस्य च ।

हंसयुक्तविमानं च त्वयानीतं हि वेधसः

॥३६॥

इत्येवं वररत्नानि दिवि पृथ्व्यां रसातले ।

यानि दैत्येन्द्र ते भांति गृहे तानि समस्ततः

॥३७॥

त्वत्समृद्धिमिमां पश्यन्सम्पूर्णां विविधामहम् ।

प्रसन्नोऽस्मि महावीर गजाश्वादिसुशोभिताम्

॥३८॥

जायारत्नं महाश्रेष्ठं जलंधर न ते गृहे ।

तदानेतुं विशेषेण स्त्रीरत्नं वै त्वमर्हसि

॥३९॥

यस्य गेहे सुरत्नानि सर्वाणि हि जलंधर ।

जायारत्नं न चेत्तानि न शोभंते वृथा ध्रुवम्

॥४०॥

सनत्कुमार उवाच

इत्येवं वचनं श्रुत्वा नारदस्य महात्मनः ।

उवाच दैत्यराजो हि मदनाकुलमानसः

॥४१॥

जलंधर उवाच

भो भो नारद देवर्षे नमस्तेस्तु महाप्रभो ।

जायारत्नवरं कुत्र वर्तते तद्वदाधुना

॥४२॥

ब्रह्मांडे यत्र कुत्रापि तद्रत्नं यदि वर्त्तते ।

तदानेष्ये ततो ब्रह्मन्सत्यं सत्यं न संशयः

॥४३॥

नारद उवाच

कैलासे ह्यतिरम्ये च वर्वद्धिं सुसमाकुले ।

योगिरूपधरश्शंभुरस्ति तत्र दिगम्बरः

॥४४॥

तस्य भार्या सुरम्या हि सर्वलक्षणलक्षिता ।

सर्वांगसुन्दरी नाम्ना पार्वतीति मनोहरा

॥४५॥

तदीदृशं रूपमनन्यसंगतं दृष्टं न कुत्रापि कुतूहलाढ्यम् ।

अत्यद्भुतं मोहनकृत्सुयोगिनां सुदर्शनीयं परमर्द्धिकारि

॥४६॥

स्वचित्ते कल्पयाम्यद्य शिवादन्यस्समृद्धिवान् ।

जायारत्नान्विताद्वीर त्रिलोक्या न जलंधर

॥४७॥

यस्या लावण्यजलधौ निमग्नश्चतुराननः ।

स्वधैर्य्यं मुमुचे पूर्वं तया कान्योपमीयते

॥४८॥

गतरागोऽपि हि यया मदनारिस्स्वलीलया ।

निजतंत्रोऽपि यतस्स स्वात्म वशगः कृतः

॥४९॥

यथा स्त्रीरत्नसंभोक्तुस्समृद्धिस्तस्य साभवत् ।

तथा न तव दैत्येन्द्र सर्वरत्नाधिपस्य च

॥५०॥

सनत्कुमार उवाच

इत्युक्त्वा स तु देवर्षिर्नारदो लोकविश्रुतः ।

ययौ विहायसा देवोपकारकरणोद्यतः

॥५१॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवर्षिजलंधरसंवादो नामाष्टदशोऽध्यायः ॥ १८ ॥