मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ३७

3
रुद्रसंहिता · युद्धखण्डः · 37

ससैन्यशंखचूडयुद्धवर्णनम्

सनत्कुमार उवाच

तदा देवगणास्सर्वे दानवैश्च पराजिताः ।

दुद्रुवुर्भयभीताश्च शस्त्रास्त्रक्षतविग्रहाः

॥१॥

ते परावृत्य विश्वेशं शंकरं शरणं ययुः ।

त्राहि त्राहीति सर्वेशेत्यू चुर्विह्वलया गिरा

॥२॥

दृष्ट्वा पराजयं तेषां देवादीनां स शंकरः ।

सभयं वचनं श्रुत्वा कोपमुच्चैश्चकार ह

॥३॥

निरीक्ष्य स कृपादृष्ट्या देवेभ्यश्चाभयं ददौ ।

बलं च स्वगणानां वै वर्द्धयामास तेजसा

॥४॥

शिवाज्ञप्तस्तदा स्कन्दो दानवानां गणैस्सह ।

युयुधे निर्भयस्संख्ये महावीरो हरात्मजः

॥५॥

कृत्वा क्रोधं वीरशब्दं देवो यस्तारकांतकः ।

अक्षौहिणीनां शतकं समरे स जघान ह

॥६॥

रुधिरं पातयामास काली कमललोचना ।

तेषां शिरांसि संछिद्य बभक्ष सहसा च सा

॥७॥

पपौ रक्तानि तेषां च दानवानां समं ततः ।

युद्धं चकार विविधं सुरदानवभीषणम्

॥८॥

शतलक्षं गजेन्द्राणां शतलक्षं नृणां तथा ।

समादायैकहस्तेन मुखे चिक्षेप लीलया

॥९॥

कबंधानां सहस्रं च सन्ननर्त रणे बहु ।

महान् कोलाहलो जातः क्लीबानां च भयंकरः

॥१०॥

पुनः स्कंदः प्रकुप्योच्चैः शरवर्षाञ्चकार ह ।

पातयामास क्षयतः कोटिशोऽसुरनायकान्

॥११॥

दानवाः शरजालेन स्कन्दस्य क्षतविग्रहाः ।

भीताः प्रदुद्रुवुस्सर्वे शेषा मरणतस्तदा

॥१२॥

वृषपर्वा विप्रचित्तिर्दंडश्चापि विकंपनः ।

स्कंदेन युयुधुस्सार्द्धं तेन सर्वे क्रमेण च

॥१३॥

महामारी च युयुधे न बभूव पराङ्मुखी ।

बभूवुस्ते क्षतांगाश्च स्कंदशक्तिप्रपीडिताः

॥१४॥

महामारीस्कंदयोश्च विजयोभूत्तदा मुने ।

नेदुर्दुंदुभयस्स्वर्गे पुष्पवृष्टिः पपात ह

॥१५॥

स्कंदस्य समरं दृष्ट्वा महारौद्रं तमद्भुतम् ।

दानवानां क्षयकरं यथाप्रकृतिकल्पकम्

॥१६॥

महामारीकृतं तच्चोपद्रवं क्षयहेतुकम् ।

चुकोपातीव सहसा सनद्धोभूत्स्वयं तदा

॥१७॥

वरं विमानमारुह्य नानाशस्त्रास्त्रसंयुतम् ।

अभयं सर्ववीराणां नानारत्नपरिच्छदम्

॥१८॥

महावीरैश्शंखचूडो जगाम रथमध्यतः ।

धनुर्विकृष्य कर्णान्तं चकार शरवर्षणम्

॥१९॥

तस्य सा शरवृष्टिश्च दुर्निवार्य्या भयंकरी ।

महाघोरांधकारश्च वधस्थाने बभूव ह

॥२०॥

देवाः प्रदुद्रुवुः सर्वे येऽन्ये नन्दीश्वरादयः ।

एक एव कार्त्तिकेयस्तस्थौ समरमूर्द्धनि

॥२१॥

पर्वतानां च सर्पाणां नागानां शाखिनां तथा ।

राजा चकार वृष्टिं च दुर्निवार्या भयंकरीम्

॥२२॥

तद्दृष्ट्या प्रहतः स्कन्दो बभूव शिवनन्दनः ।

नीहारेण च सांद्रेण संवृतौ भास्करौ यथा

॥२३॥

नानाविधां स्वमायां च चकार मयदर्शिताम् ।

तां नाविदन् सुराः केपि गणाश्च मुनिसत्तम

॥२४॥

तदैव शङ्खचूडश्च महामायी महाबलः ।

शरेणैकेन दिव्येन धनुश्चिच्छेद तस्य वै

॥२५॥

बभंज तद्रथं दिव्यं चिच्छेद रथपीडकान् ।

मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः

॥२६॥

शक्तिं चिक्षेप सूर्याभां तस्य वक्षसि घातिनीम् ।

मूर्च्छामवाप सहसा तत्प्रहारेण स क्षणम्

॥२७॥

पुनश्च चेतनां प्राप्य कार्तिकः परवीरहा ।

रत्नेन्द्रसारनिर्माणमारुरोह स्ववाहनम्

॥२८॥

स्मृत्वा पादौ महेशस्य साम्बिकस्य च षण्मुखः ।

शस्त्रास्त्राणि गृहीत्वैव चकार रणमुल्बणम्

॥२९॥

सर्प्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा ।

सर्वांश्चिच्छेद कोपेन दिव्या स्त्रेण शिवात्मजः

॥३०॥

वह्निं निवारयामास पार्जन्येन शरेण ह ।

रथं धनुश्च चिच्छेद शंखचूडस्य लीलया

॥३१॥

सन्नाहं सर्ववाहांश्च किरीटं मुकुटोज्ज्वलम् ।

वीरशब्दं चकारासौ जगर्ज च पुनः पुनः

॥३२॥

चिक्षेप शक्तिं सूर्याभां दानवेन्द्रस्य वक्षसि ।

तत्प्रहारेण संप्राप मूर्च्छां दीर्घतमेन च

॥३३॥

मुहूर्तमात्रं तत्क्लेशं विनीय स महाबलः ।

चेतनां प्राप्य चोत्तस्थौ जगर्ज हरिवर्च सः

॥३४॥

शक्त्या जघान तं चापि कार्तिकेयं महाबलम् ।

स पपात महीपृष्ठेऽमोघां कुर्वन्विधिप्रदाम्

॥३५॥

काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ ।

ज्ञानेन तं शिवश्चापि जीवयामास लीलया

॥३६॥

ददौ बलमनंतं च समुत्तस्थौ प्रतापवान् ।

गमनाय मतिं चक्रे पुनस्तत्र शिवात्मजः

॥३७॥

एतस्मिन्नंतरे वीरो वीरभद्रो महाबलः ।

शंखचूडेन युयुधे समरे बलशालिना

॥३८॥

ववर्ष समरेऽस्त्राणि यानियानि च दानवः ।

चिच्छेद लीलया वीरस्तानितानि निजैश्शरैः

॥३९॥

दिव्यान्यस्त्राणि शतशो मुमुचे दानवेश्वरः ।

तानि चिच्छेद तं बाणैर्वीरभद्रः प्रतापवान्

॥४०॥

अथातीव चुकोपोच्चैश्शंखचूडः प्रतापवान् ।

शक्त्या जघानोरसि तं स चकंपे पपात कौ

॥४१॥

क्षणेन चेतनां प्राप्य समुत्तस्थौ गणेश्वरः ।

जग्राह च धनुर्भूयो वीरभद्रो गणाग्रणीः

॥४२॥

एतस्मिन्नंतरे काली जगाम समरं पुनः ।

भक्षितुं दानवान् स्वांश्च रक्षितुं कार्तिकेच्छया

॥४३॥

वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ।

सर्वे देवाश्च गंधर्वा यक्षा रक्षांसि पन्नगाः

॥४४॥

वाद्यभांडाश्च बहुशश्शतशो मधुवाहकाः ।

पुनः समुद्यताश्चासन् वीरा उभयतोऽखिलाः

॥४५॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां पञ्चमे युद्धखंडे शंखचूडवधे ससैन्यशंखचूडयुद्धवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥