त्रिपुरदाहवर्णनम्
सनत्कुमार उवाच
अथ शम्भुर्महादेवो रथस्थस्सर्वसंयुतः ।
त्रिपुरं सकलं दग्धुमुद्यतोऽभूत्सुरद्विषाम् ।
शीर्षं स्थानकमास्थाय संधाय च शरोत्तमम् ।
सज्जं तत्कार्मुकं कृत्वा प्रत्यालीढं महाद्भुतम्
॥२॥निवेश्य दृढमुष्टौ च दृष्टिं दृष्टौ निवेश्य च ।
अतिष्ठन्निश्चलस्तत्र शतं वर्षसहस्रकम्
॥३॥ततोङ्गुष्ठे गणाध्यक्षस्स तु दैत्यनिशंस्थितः ।
न लक्ष्यं विविशुस्तानि पुराण्यस्य त्रिशूलिनः
॥४॥ततोंतरिक्षादशृणोद्धनुर्बाणधरो हरः ।
मुंजकेशो विरूपाक्षो वाचं परमशोभनाम्
॥५॥भो भो न यावद्भगवन्नर्चितोऽसौ विनायकः ।
पुराणि जगदीशेश सांप्रतं न हनिष्यति
॥६॥एतच्छ्रुत्वा तु वचनं गजवक्त्रमपूजयत् ।
भद्रकालीं समाहूय ततोंधकनिषूदनः
॥७॥तस्मिन् संपूजिते हर्षात्परितुष्टे पुरस्सरे ।
विनायके ततो व्योम्नि ददर्श भगवान्हरः
॥८॥पुराणि त्रीणि दैत्यानां तारकाणां महात्मनाम् ।
यथातथं हि युक्तानि केचिदित्थं वदंति ह
॥९॥परब्रह्मणि देवेश सर्वोपास्ये महेश्वरे ।
अन्यप्रसादतः कार्यं सिद्धिर्घटति नेति हि
॥१०॥स स्वतंत्रः परं ब्रह्म सगुणो निर्गुणोऽपि ह ।
अलक्ष्यः सकलैस्स्वामी परमात्मा निरंजनः
॥११॥पंचदेवात्मकः पंचदेवोपास्यः परः प्रभुः ।
तस्योपास्यो न कोप्यस्ति स एवोपास्य आलयम्
॥१२॥अथ वा लीलया तस्य सर्वं संघटते मुने ।
चरितं देवदेवस्य वरदातुर्महेशितुः
॥१३॥तस्मिस्थिते महादेवे पूजयित्वा गणाधिपम् ।
पुराणि तत्र कालेन जग्मुरेकत्वमाशु वै
॥१४॥एकीभावं मुने तत्र त्रिपुरे समुपागते ।
बभूव तुमुलो हर्षो देवादीनां महात्मनाम्
॥१५॥ततो देवगणास्सर्वे सिद्धाश्च परमर्षयः ।
जयेति वाचो मुमुचुः स्तुवंतश्चाष्टमूर्तिनम्
॥१६॥अथाहेति तदा ब्रह्मा विष्णुश्च जगतां पतिः ।
समयोऽपि समायातो दैत्यानां वधकर्मणः
॥१७॥तेषां तारकपुत्राणां त्रिपुराणां महेश्वर ।
देवकार्यं कुरु विभो एकत्वमपि चागतम्
॥१८॥यावन्न यान्ति देवेश विप्रयोगं पुराणि वै ।
तावद्बाणं विमुंचश्च त्रिपुरं भस्मसात्कुरु
॥१९॥अथ सज्यं धनुः कृत्वा शर्वस्संधाय तं शरम् ।
पूज्य पाशुपतास्त्रं स त्रिपुरं समचिंतयत्
॥२०॥अथ देवो महादेवो वरलीलाविशारदः ।
केनापि कारणेनात्र सावज्ञं तदवैक्षत
॥२१॥पुरत्रयं विरूपाक्षः कर्तुं तद्भस्मसात्क्षणात् ।
समर्थः परमेशानो मीनातु च सतां गतिः
॥२२॥दग्धुं समर्थो देवेशो वीक्षणेन जगत्त्रयम् ।
अस्मद्यशो विवृद्ध्यर्थं शरं मोक्तुमिहार्हसि
॥२३॥इति स्तुतोऽमरैस्सर्वैविष्ण्वादिविधिभिस्तदा ।
दग्धुं पुरत्रयं तद्वै बाणेनैच्छन्महेश्वरः
॥२४॥अभिलाख्यमुहूर्ते तु विकृष्य धनुरद्भुतम् ।
कृत्वा ज्यातलनिर्घोषं नादमत्यंतदुस्सहम्
॥२५॥आत्मनो नाम विश्राव्य समाभाष्य महासुरान् ।
मार्तंडकोटिवपुषं कांडमुग्रो मुमोच ह
॥२६॥ददाह त्रिपुरस्थास्तान्दैत्यांस्त्रीन्विमलापहः ।
स आशुगो विष्णुमयो वह्निशल्यो महाज्वलन्
॥२७॥ततः पुराणि दग्धानि चतुर्जलधिमेखलाम् ।
गतानि युगपद्भूमिं त्रीणि दग्धानि भस्मशः
॥२८॥दैत्यास्तु शतशो दग्धास्तस्य बाणस्थवह्निना ।
हाहाकारं प्रकुर्वंतश्शिवपूजाव्यतिक्रमात्
॥२९॥तारकाक्षस्तु निर्दग्धो भ्रातृभ्यां सहितोऽभवत् ।
सस्मार स्वप्रभुं देवं शंकरं भक्तवत्सलम्
॥३०॥भक्त्या परमया युक्तः प्रलपन् विविधा गिरः ।
महादेवं समुद्वीक्ष्य मनसा तमुवाच सः
॥३१॥तारकाक्ष उवाच
भव ज्ञातोसि तुष्टोऽसि यद्यस्मान् सह बंधुभिः ।
तेन सत्येन भूयोऽपि कदा त्वं प्रदहिष्यसि
॥३२॥दुर्लभं लब्धमस्माभिर्यदप्राप्यं सुरासुरैः ।
त्वद्भावभाविता बुद्धिर्जातेजाते भवत्विति
॥३३॥इत्येवं विब्रुवंतस्ते दानवास्तेन वह्निना ।
शिवाज्ञयाद्भुतं दग्धा भस्मसादभवन्मुने
॥३४॥अन्येऽपि बाला वृद्धाश्च दानवास्तेन वह्निना ।
शिवाज्ञया द्रुतं व्यास निर्दग्धा भस्मसात्कृताः
॥३५॥स्त्रियो वा पुरुषा वापि वाहनानि च तत्र ये ।
सर्वे तेनाग्निना दग्धाः कल्पान्ते तु जगद्यथा
॥३६॥भर्तॄन्कंठगतान्हित्वा काश्चिद्दग्धा वरस्त्रियः ।
काश्चित्सुप्ताः प्रमत्ताश्च रतिश्रांताश्च योषितः
॥३७॥अर्द्धदग्धा विबुद्धाश्च बभ्रमुर्मोहमूर्च्छिताः ।
तेन नासीत्सुसूक्ष्मोऽपि घोरत्रिपुरवह्निना
॥३८॥अविदग्धो विनिर्मुक्तः स्थावरो जंगमोपि वा ।
वर्जयित्वा मयं दैत्यं विश्वकर्माणमव्ययम्
॥३९॥अविरुद्धं तु देवानां रक्षितं शंभुतेजसा ।
विपत्कालेपि सद्भक्तं महेशशरणागतम्
॥४०॥सन्निपातो हि येषां नो विद्यते नाशकारकः ।
दैत्यानामन्यसत्त्वानां भावाभावे कृताकृते
॥४१॥तस्माद्यत्नस्सुसंभाव्यः सद्भिः कर्तव्य एव हि ।
गर्हणात्क्षीयते लोको न तत्कर्म समाचरेत्
॥४२॥न संयोगो यथा तेषां भूयात्त्रिपुरवासिनाम् ।
मतमेतद्धि सर्वेषां दैवाद्यदि यतो भवेत्
॥४३॥ये पूजयंतस्तत्रापि दैत्या रुद्रं सबांधवाः ।
गाणपत्यं ययुस्सर्वे शिवपूजावि धेर्बलात्
॥४४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे त्रिपुरदाहवर्णनं नाम दशमोऽध्यायः ॥ १० ॥