ततश्च शंखचूडोऽसौ जैगीषव्योपदेशतः
सनत्कुमार उवाच
ततश्च शंखचूडोऽसौ जैगीषव्योपदेशतः ।
तपश्चकार सुप्रीत्या ब्रह्मणः पुष्करे चिरम्
॥१॥गुरुदत्तां ब्रह्मविद्यां जजाप नियतेन्द्रियः ।
स एकाग्रमना भूत्वा करणानि निगृह्य च
॥२॥तपंतं पुष्करे तं वै शंखचूडं च दानवम् ।
वरं दातुं जगामाशु ब्रह्मालोकगुरुर्विभुः
॥३॥वरं ब्रूहीति प्रोवाच दानवेन्द्रं विधिस्तदा ।
स दृष्ट्वा तं ननामाति नम्रस्तुष्टाव सद्गिरा
॥४॥वरं ययाचे ब्रह्माणमजेयत्वं दिवौकसाम् ।
तथेत्याह विधिस्तं वै सुप्रसन्नेन चेतसा
॥५॥श्रीकृष्णकवचं दिव्यं जगन्मंगलमंगलम् ।
दत्तवाञ्शंखचूडाय सर्वत्र विजयप्रदम्
॥६॥बदरीं संप्रयाहि त्वं तुलस्या सह तत्र वै ।
विवाहं कुरु तत्रैव सा तपस्यति कामतः
॥७॥धर्मध्वजसुता सेति संदिदेश च तं विधिः ।
अन्तर्धानं जगामाशु पश्यतस्तस्य तत्क्षणात्
॥८॥ततस्स शंखचूडो हि तपःसिद्धोऽतिपुष्करे ।
गले बबंध कवचं जगन्मंगलमंगलम्
॥९॥आज्ञया ब्राह्मणस्सोऽपि तपःसिद्धमनोरथः ।
समाययौ प्रहृष्टास्यस्तूर्णं बदरिकाश्रमम्
॥१०॥यदृच्छयाऽऽगतस्तत्र शंखचूडश्च दानवः ।
तपश्चरन्ती तुलसी यत्र धर्मध्वजात्मजा
॥११॥सुरूपा सुस्मिता तन्वी शुभभूषणभूषिता ।
सकटाक्षं ददर्शासौ तमेव पुरुषं परम्
॥१२॥दृष्ट्वा तां ललिता रम्यां सुशीलां सुन्दरीं सतीम् ।
उवास तत्समीपे तु मधुरं तामुवाच सः
॥१३॥शंखचूड उवाच
का त्वं कस्य सुता त्वं हि किं करोषि स्थितात्र किम् ।
मौनीभूता किंकरं मां संभावितुमिहार्हसि
॥१४॥सनत्कुमार उवाच
इत्येवं वचनं श्रुत्वा सकामं तमुवाच सा
॥१५॥तुलस्युवाच
धर्मध्वजसुताहं च तपस्यामि तपस्विनी ।
तपोवने च तिष्ठामि कस्त्वं गच्छ यथासुखम्
॥१६॥नारीजातिर्मोहिनी च ब्रह्मादीनां विषोपमा ।
निन्द्या दोषकरी माया शृंखला ह्यनुशायिनाम्
॥१७॥सनत्कुमार उवाच
इत्युक्त्वा तुलसी तं च सरसं विरराम ह ।
दृष्ट्वा तां सस्मितां सोपि प्रवक्तुमुपचक्रमे
॥१८॥शंखचूड उवाच
त्वया यत्कथितं देवि न च सर्वमलीककम् ।
किञ्चित्सत्यमलीकं च किंचिन्मत्तो निशामय
॥१९॥पतिव्रताः स्त्रियो याश्च तासां मध्ये त्वमग्रणीः ।
न चाहं पापदृक्कामी तथा त्वं नेति धीर्मम
॥२०॥आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना ।
गांधर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने
॥२१॥शंखचूडोऽहमेवास्मि देवविद्रावकारकः ।
मां न जानासि किं भद्रे न श्रुतोऽहं कदाचन
॥२२॥दनुवंश्यो विशेषेण मन्द पुत्रश्च दानवः ।
सुदामा नाम गोपोहं पार्षदश्च हरेः पुरा
॥२३॥अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ।
जातिस्मरोऽहं जानामि सर्वं कृष्णप्रभावतः
॥२४॥सनत्कुमार उवाच
एवमुक्त्वा शंखचूडो विरराम च तत्पुरः ।
दानवेंद्रेण सेत्युक्ता वचनं सत्यमादरात् ।
सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे
॥२५॥तुलस्युवाच
त्वयाहमधुना ।
सत्त्वविचारेण पराजिता ।
स धन्यः पुरुषो लोके न स्त्रिया यः पराजितः
॥२६॥सत्क्रियोप्यशुचिर्नित्यं स पुमान्यः स्त्रिया जितः ।
निन्दंति पितरो देवा मानवास्सकलाश्च तम्
॥२७॥शुध्येद्विप्रो दशाहेन जातके मृतसूतके ।
क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहतः
॥२८॥शूद्रो मासेन शुध्येत्तु हीति वेदानुशासनम् ।
न शुचिः स्त्रीजितः क्वापि चितादाहं विना पुमान्
॥२९॥न गृह्णतीच्छया तस्मात्पितरः पिण्डतर्पणम् ।
न गृह्णन्ति सुरास्तेन दत्तं पुष्पफलादिकम्
॥३०॥तस्य किं ज्ञानसुतपो जपहोम प्रपूजनैः ।
विद्यया दानतः किं वा स्त्रीभिर्यस्य मनो हृतम्
॥३१॥विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः ।
कृत्वा कांतपरीक्षां वै वृणुयात्कामिनी वरम्
॥३२॥सनत्कुमार उवाच
इत्येवं प्रवदंत्यां तु तुलस्यां तत्क्षणे विधिः ।
तत्राजगाम संसृष्टा प्रोवाच वचनं ततः
॥३३॥ब्रह्मोवाच
किं करोषि शंखचूड संवादमनया सह ।
गांधर्वेण विवाहेन त्वमस्या ग्रहणं कुरु
॥३४॥त्वं वै पुरुषरत्नं च स्त्रीरत्नं च त्वियं सती ।
विदग्धाया विदग्धेन संगमो गुणवान् भवेत्
॥३५॥निर्विरोधं सुखं राजन् को वा त्यजति दुर्लभम् ।
योऽविरोधसुखत्यागी स पशुर्नात्र संशयः
॥३६॥किं त्वं परीक्षसे कांतमीदृशं गुणिनं सति ।
देवानामसुराणां च दानवानां विमर्दकम्
॥३७॥अनेन सार्द्धं सुचिरं विहारं कुरु सर्वदा ।
स्थानेस्थाने यथेच्छं च सर्वलोकेषु सुन्दरि
॥३८॥अंते प्राप्स्यति गोलोके श्रीकृष्णं पुनरेव सः ।
चतुर्भुजं च वैकुण्ठे मृते तस्मिंस्त्वमाप्स्यसि
॥३९॥सनत्कुमार उवाच
इत्येवमाशिषं दत्त्वा स्वालयं तु ययौ विधिः ।
गांधर्वेण विवाहेन जगृहे तां च दानवः
॥४०॥एवं विवाह्य तुलसीं पितुः स्थानं जगाम ह ।
स रेमे रमया सार्द्धं वासगेहे मनोरमे
॥४१॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडतपःकरणविवाहवर्णनं नामाष्टविंशोऽध्यायः ॥ २८ ॥