मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय १२

3
रुद्रसंहिता · युद्धखण्डः · 12

-नगमनवर्णनम्

सनत्कुमार उवाच

एतस्मिन्नंतरे शंभुं प्रसन्नं वीक्ष्य दानवः ।

तत्राजगाम सुप्रीतो मयोऽदग्धः कृपाबलात्

॥१॥

प्रणनाम हरं प्रीत्या सुरानन्यानपि ध्रुवम् ।

कृतांजलिर्नतस्कंधः प्रणनाम पुन श्शिवम्

॥२॥

अथोत्थाय शिवं दृष्ट्वा प्रेम्णा गद्गदसुस्वरः ।

तुष्टाव भक्तिपूर्णात्मा स दानववरो मयः

॥३॥

मय उवाच

देवदेव महादेव भक्तवत्सल शंकरः ।

कल्पवृक्षस्वरूपोसि सर्वपक्षविवर्जितः

॥४॥

ज्योतीरूपो नमस्तेस्तु विश्वरूप नमोऽस्तु ते ।

नमः पूतात्मने तुभ्यं पावनाय नमोनमः

॥५॥

चित्ररूपाय नित्याय रूपातीताय ते नमः ।

दिव्यरूपाय दिव्याय सुदिव्याकृतये नमः

॥६॥

नमः प्रणतसर्वार्तिनाशकाय शिवात्मने ।

कर्त्रे भर्त्रे च संहर्त्रे त्रिलोकानां नमोनमः

॥७॥

भक्तिगम्याय भक्तानां नमस्तुभ्यं कृपा लवे ।

तपस्सत्फलदात्रे ते शिवाकांत शिवेश्वर

॥८॥

न जानामि स्तुतिं कर्तुं स्तुतिप्रिय परेश्वर ।

प्रसन्नो भव सर्वेश पाहि मां शरणाग तम्

॥९॥

सनत्कुमार उवाच

इत्याकर्ण्य मयोक्ता हि संस्तुतिं परमेश्वरः ।

प्रसन्नोऽभूद्द्विजश्रेष्ठ मयं प्रोवाच चादरात् ।

शिव उवाच ।

वरं ब्रूहि प्रसन्नोऽहं मय दानवसत्तम ।

मनोऽभिलषितं यत्ते तद्दास्यामि न संशयः

॥११॥

सनत्कुमार उवाच

श्रुत्वा शिवं वचश्शंभोस्स मयो दानवर्षभः ।

प्रत्युवाच प्रभुं नत्वा नतस्कंधः कृतांजलिः

॥१२॥

मय उवाच

देवदेव महादेव प्रसन्नो यदि मे भवान् ।

वरयोग्योऽस्म्यहं चेद्धि स्वभक्तिं देहि शाश्वतीम्

॥१३॥

स्वभक्तेषु सदा सख्यं दीनेषु च दयां सदा ।

उपेक्षामन्यजीवेषु खलेषु परमेश्वर

॥१४॥

कदापि नासुरो भावो भवेन्मम महेश्वर ।

निर्भयः स्यां सदा नाथ मग्नस्त्वद्भजने शुभे

॥१५॥

सनत्कुमार उवाच

इति संप्रार्थ्यमानस्तु शंकरः परमेश्वरः ।

प्रत्युवाच मये नाथ प्रसन्नो भक्तवत्सलः

॥१६॥

महेश्वर उवाच

दानवर्षभ धन्यस्त्वं मद्भक्तो निर्विकारवान् ।

प्रदत्तास्ते वरास्सर्वेऽभीप्सिता ये तवाधुना

॥१७॥

गच्छ त्वं वितलं लोकं रमणीयं दिवोऽपि हि ।

समेतः परिवारेण निजेन मम शासनात्

॥१८॥

निर्भयस्तत्र संतिष्ठ संहृष्टो भक्तिमान्सदा ।

कदापि नासुरो भावो भविष्यति मदाज्ञया

॥१९॥

सनत्कुमार उवाच

इत्याज्ञां शिरसाधाय शंकरस्य महात्मनः ।

तं प्रणम्य सुरांश्चापि वितलं प्रजगाम सः

॥२०॥

एतस्मिन्नंतरे ते वै मुण्डिनश्च समागताः ।

प्रणम्योचुश्च तान्सर्वान्विष्णुब्रह्मादिकान् सुरान्

॥२१॥

कुत्र याम वयं देवाः कर्म किं करवामहे ।

आज्ञापयत नश्शीघ्रं भव दादेशकारकान्

॥२२॥

कृतं दुष्कर्म चास्माभिर्हे हरे हे विधे सुराः ।

दैत्यानां शिवभक्तानां शिवभक्तिर्विनाशिता

॥२३॥

कोटिकल्पानि नरके नो वासस्तु भविष्यति ।

नोद्धारो भविता नूनं शिवभक्तविरोधिनाम्

॥२४॥

परन्तु भवदिच्छात इदं दुष्कर्म नः कृतम् ।

तच्छांतिं कृपया ब्रूत वयं वश्शरणागताः

॥२५॥

सनत्कुमार उवाच

तेषां तद्वचनं श्रुत्वा विष्णुब्रह्मादयस्सुराः ।

अब्रु।

वन्मुंडिनस्तांस्ते स्थितानग्रे कृतांजलीन्

॥२६॥

विष्ण्वादय ऊचुः

न भेतव्यं भवद्भिस्तु मुंडिनो वै कदाचन ।

शिवाज्ञयेदं सकलं जातं चरितमुत्तमम्

॥२७॥

युष्माकं भविता नैव कुगतिर्दुःखदायिनी ।

शिववासा यतो यूयं देवर्षिहितकारकाः

॥२८॥

सुरर्षिहितकृच्छंभुस्सुरर्षिहितकृत्प्रियः ।

सुरर्षिहितकृन्नॄणां कदापि कुगतिर्नहि

॥२९॥

अद्यतो मतमेतं हि प्रविष्टानां नृणां कलौ ।

कुगतिर्भविता ब्रूमः सत्यं नैवात्र संशयः

॥३०॥

भवद्भिर्मुंडिनो धीरा गुप्तभावान्ममाज्ञया ।

तावन्मरुस्थली सेव्या कलिर्यावात्समाव्रजेत्

॥३१॥

आगते च कलौ यूयं स्वमतं स्थापयिष्यथ ।

कलौ तु मोहिता मूढास्संग्रहीष्यंति वो मतम्

॥३२॥

इत्याज्ञप्ताः सुरेशैश्च मुंडिनस्ते मुनीश्वर ।

नमस्कृत्य गतास्तत्र यथोद्दिष्टं स्वमाश्रमम्

॥३३॥

ततस्स भगवान्रुद्रो दग्ध्वा त्रिपुरवासिनः ।

कृतकृत्यो महायोगी ब्रह्माद्यैरभिपूजितः

॥३४॥

स्वगणैर्निखिलैर्देव्या शिवया सहितः प्रभुः ।

कृत्वामरमहत्कार्यं ससुतोंतरधादथ

॥३५॥

ततश्चांतर्हिते देवे परिवारान्विते शिवे ।

धनुश्शरस्थाद्यश्च प्राकारोंतर्द्धिमागमत्

॥३६॥

ततो ब्रह्मा हरिर्देवा मुनिगंधर्वकिन्नराः ।

नागास्सर्पाश्चाप्सरसस्संहृष्टाश्चाथ मानुषाः

॥३७॥

स्वंस्वं स्थानं मुदा जग्मुश्शंसंतः शांकरं यशः ।

स्वंस्वं स्थानमनुप्राप्य निवृतिं परमां ययुः

॥३८॥

एतत्ते कथितं सर्वं चरितं शशिमौलिनः ।

त्रिपुरक्षयसंसूचि परलीलान्वितं महत्

॥३९॥

धन्यं यशस्यमायुष्यं धनधान्यप्रवर्द्धकम् ।

स्वर्गदं मोक्षदं चापि किं भूयः श्रोतुमिच्छसि

॥४०॥

इदं हि परमाख्यानं यः पठेच्छ्रणुयात्सदा ।

इह भुक्त्वाखिलान्कामानंते मुक्तिमवाप्नुयात्

॥४१॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे सनत्कुमारपाराशर्य्यसंवादे त्रिपुरवधानंतरदेवस्तुतिमयस्तुतिमुंडिनिवेशनदेवस्वस्था -नगमनवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥