देवजलंधरयुद्धवर्णनम्
सनत्कुमार उवाच
एकदा वारिधिसुतो वृन्दापति रुदारधीः ।
सभार्य्यस्संस्थितो वीरोऽसुरैस्सर्वैः समन्वितः
॥१॥तत्राजगाम सुप्रीतस्सुवर्चास्त्वथ भार्गवः ।
तेजः पुंजो मूर्त इव भासयन्सकला दिशः
॥२॥तं दृष्ट्वा गुरुमायान्तमसुरास्तेऽखिला द्रुतम् ।
प्रणेमुः प्रीतमनसस्सिंधुपुत्रोऽपि सादरम्
॥३॥दत्त्वाशीर्वचनं तेभ्यो भार्गवस्तेजसां निधिः ।
निषसादासने रम्ये संतस्थुस्तेऽपि पूर्ववत्
॥४॥अथ सिंध्वात्मजो वीरो दृष्ट्वा प्रीत्या निजां सभाम् ।
जलंधरः प्रसन्नोऽभूदनष्टवरशासनः
॥५॥तत्स्थितं छिन्नशिरसं दृष्ट्वा राहुं स दैत्यराट् ।
पप्रच्छ भार्गवं शीघ्रमिदं सागरनन्दनः
॥६॥जलंधर उवाच
केनेदं विहितं राहोश्शिरच्छेदनकं प्रभो ।
तद्ब्रूहि निखिलं वृत्तं यथावत्तत्त्वतो गुरो
॥७॥सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ।
स्मृत्वा शिवपदांभोजं प्रत्युवाच यथार्थवत्
॥८॥शुक्र उवाच
जलंधर महावीर सर्वासुरसहायक ।
शृणु वृत्तांतमखिलं यथावत्कथयामि ते
॥९॥पुराभवद्बलिर्वीरो विरोचनसुतो बली ।
हिरण्यकशिपोश्चैव प्रपौत्रो धर्मवित्तमः
॥१०॥पराजितास्सुरास्तेन रमेशं शरणं ययुः ।
सवासवास्स्ववृत्तांतमाचख्युः स्वार्थसाधकाः
॥११॥तदाज्ञया सुरैः सार्द्धं चक्रुस्संधिमथो सुराः ।
स्वकार्यसिद्धये तातच्छलकर्मविचक्षणाः
॥१२॥अथामृतार्थे सिंधोश्च मंथनं चक्रुरादरात् ।
विष्णोस्सहायिनस्ते हि सुरास्सर्वेऽसुरैस्सह
॥१३॥ततो रत्नोपहरणमकार्षुर्दैत्यशत्रवः ।
जगृहुर्यत्नतो देवाः पपुरप्यमृतं छलात्
॥१४॥ततः पराभवं चक्रुरसुराणां सहायतः ।
विष्णोस्सुरास्सचक्रास्तेऽमृतापानाद्बलान्विताः
॥१५॥शिरश्छेदं चकारासौ पिबतश्चामृतं हरिः ।
राहोर्देवसभां हि पक्षपाती हरेस्सदा
॥१६॥सनत्कुम्रार उवाच
एवं कविस्तस्य शिरश्छेदं राहोश्शशंस च ।
अमृतार्थे समुद्रस्य मंथनं देवकारितम्
॥१७॥रत्नोपहरणं चैव दैत्यानां च पराभवम् ।
देवैरमृतपानं च कृतं सर्वं च विस्तरात्
॥१८॥तदाकर्ण्य महावीरोम्बुधिबालः प्रतापवान् ।
चुक्रोध क्रोधरक्ताक्षस्स्वपितुर्मंथनं तदा
॥१९॥अथ दूतं समाहूय घस्मराभिधमुत्तमम् ।
सर्वं शशंस चरितं यदाह गुरुरात्मवान्
॥२०॥अथ तं प्रेषयामास स्वदूतं शक्रसन्निधौ ।
संमान्य बहुशः प्रीत्याऽभयं दत्त्वा विशारदम्
॥२१॥दूतस्त्रिविष्टपं तस्य जगामारमलं सुधीः ।
घस्मरोंऽबुधिबालस्य सर्वदेवसमन्वितम्
॥२२॥तत्र गत्वा स दूतस्तु सुधर्मां प्राप्य सत्वरम् ।
गर्वादखर्वमौलिर्हि देवेन्द्रं वाक्यमब्रवीत्
॥२३॥घस्मर उवाच
जलंधरोऽब्धि तनयस्सर्वदैत्यजनेश्वरः ।
सुप्रतापी महावीरस्स्वयं कविसहायवान्
॥२४॥दूतोऽहं तस्य वीरस्य घस्मराख्यो न घस्मरः ।
प्रेषितस्तेन वीरेण त्वत्सकाशमिहागतः
॥२५॥अव्याहताज्ञस्वर्वत्र जलंधर उदग्रधीः ।
निर्जिताखिलदैत्यारिस्स यदाह शृणुष्व तत्
॥२६॥जलंधर उवाच
कस्मात्त्वया मम पिता मथितस्सागरोऽद्रिणा ।
नीतानि सर्वरत्नानि पितुर्मे देवताधम
॥२७॥उचितं न कृतं तेऽद्य तानि शीघ्रं प्रयच्छ मे ।
ममायाहि विचार्येत्थं शरणं दैवतैस्सह
॥२८॥अन्यथा ते भयं भूरि भविष्यति सुराधम ।
राज्यविध्वंसनं चैव सत्यमेतद्ब्रवीम्यहम्
॥२९॥सनत्कुमार उवाच
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः ।
उवाच तं स्मरन्निन्द्रो भयरोषसमन्वितः
॥३०॥अद्रयो मद्भयात्त्रस्तास्स्वकुक्षिस्था यतः कृताः ।
अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजाः पुरा
॥३१॥तस्मात्तद्रत्नजातं तु मया सर्वं हृतं किल ।
न तिष्ठति मम द्रोही सुखं सत्यं ब्रवीम्यहम्
॥३२॥शंखोप्येव पुरा दैत्यो मां द्विषन्सागरात्मजः ।
अभवन्मूढचित्तस्तु साधुसंगात्समुज्झित
॥३३॥ममानुजेन हरिणा निहतस्य हि पापधीः ।
हिंसकस्साधुसंधस्य पापिष्ठस्सागरोदरे
॥३४॥तद्गच्छ दूत शीघ्रं त्वं कथयस्वास्य तत्त्वतः ।
अब्धिपुत्रस्य सर्वं हि सिंधोर्मंथनकारणम्
॥३५॥सनत्कुमार उवाच
इत्थं विसर्जितो दूतो घस्मराख्यस्सुबुद्धिमान् ।
तदेन्द्रेणागमत्तूर्ण्णं यत्र वीरो जलंधरः
॥३६॥तदिदं वचनं दैत्यराजो हि तेन धीमता ।
कथितो निखिलं शक्रप्रोक्तं दूतेन वै तदा
॥३७॥तन्निशम्य ततो दैत्यो रोषात्प्रस्फुरिताधरः ।
उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया
॥३८॥तदोद्योगेऽसुरेन्द्रस्य दिग्भ्यः पातालतस्तथा ।
दितिजाः प्रत्यपद्यंत कोटिशःकोटिशस्तथा
॥३९॥अथ शुंभनिशुंभाद्यै बलाधिपतिकोटिभिः ।
निर्जगाम महावीरः सिन्धुपुत्रः प्रतापवान्
॥४०॥प्राप त्रिविष्टपं सद्यः सर्वसैन्यसमावृतः ।
दध्मौ शंखं जलधिजो नेदुर्वीराश्च सर्वतः
॥४१॥गत्वा त्रिविष्टपं दैत्यो नन्दनाधिष्ठितोऽभवत् ।
सर्व सैन्यं समावृत्य कुर्वाणः सिंहवद्रवम्
॥४२॥पुरमावृत्य तिष्ठत्तद्दृष्ट्वा सैन्यबलं महत् ।
निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः
॥४३॥ततस्समभवद्युद्धं देवदानवसेनयोः ।
मुसलैः परिघैर्बाणैर्गदापरशुशक्तिभिः
॥४४॥तेऽन्योन्यं समधावेतां जघ्नतुश्च परस्परम् ।
क्षणेनाभवतां सेने रुधिरौघपरिप्लुते
॥४५॥पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः ।
व्यराजत रणे भूमिस्संध्याभ्रपटलैरिव
॥४६॥तत्र युद्धे मृतान्दैत्यान्भार्गवस्तानजीवयत् ।
विद्ययामृतजीविन्या मंत्रितैस्तोयबिन्दुभिः
॥४७॥देवानपि तथा युद्धे तत्राजीवयदंगिराः ।
दिव्यौषधैस्समानीय द्रोणाद्रेस्स पुनःपुनः
॥४८॥दृष्टवान्स तथा युद्धे पुनरेव समुत्थितान् ।
जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत्
॥४९॥जलंधर उवाच
मया देवा हता युद्धे उत्तिष्ठंति कथं पुनः ।
ततः संजीविनी विद्या नैवान्यत्रेति वै श्रुता
॥५०॥सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ।
प्रत्युवाच प्रसन्नात्मा गुरुश्शुक्रो जलंधरम्
॥५१॥शुक्र उवाच
दिव्यौषधीस्समानीय द्रोणाद्रेरंगिरास्सुरान् ।
जीवयत्येष वै तात सत्यं जानीहि मे वचः
॥५२॥जयमिच्छसि चेत्तात शृणु मे वचनं शुभम् ।
ततः सोऽरं भुजाभ्यां त्वं द्रोणमब्धावुपाहर
॥५३॥सनत्कुमार उवाच
इत्युक्तस्स तु दैत्येन्द्रो गुरुणा भार्गवेण ह ।
द्रुतं जगाम यत्रासावास्ते चैवाद्रिराट् च सः
॥५४॥भुजाभ्यां तरसा दैत्यो नीत्वा द्रोणं च तं तदा ।
प्राक्षिपत्सागरे तूर्णं चित्रं न हरतेजसि
॥५५॥पुनरायान्महावीरस्सिन्धुपुत्रो महाहवम् ।
जघानास्त्रैश्च विविधैस्सुरान्कृत्वा बलं महत्
॥५६॥अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ।
तावत्तत्र गिरीद्रं तं न ददर्श सुरार्चितः
॥५७॥ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः ।
आगत्य देवान्प्रोवाच जीवो व्याकुलमानसः
॥५८॥गुरुरुवाच
पलायध्वं सुरास्सर्वे द्रोणो नास्ति गिरिर्महान् ।
ध्रुवं ध्वस्तश्च दैत्येन पाथोधितनयेन हि
॥५९॥जलंधरो महादैत्यो नायं जेतुं क्षमो यतः ।
रुद्रांशसंभवो ह्येष सर्वामरविमर्दनः
॥६०॥मया ज्ञातः प्रभावोऽस्य यथोत्पन्नः स्वयं सुराः ।
शिवापमानकृच्छक्रचेष्टितं स्मरताखिलम्
॥६१॥सनत्कुमार उवाच
श्रुत्वा तद्वचनं देवास्सुराचार्यप्रकीर्तितम् ।
जयाशां त्यक्तवंतस्ते भयविह्वलितास्तथा
॥६२॥दैत्यराजेन तेनातिहन्यमानास्समंततः ।
धैर्यं त्यक्त्वा पलायंत दिशो दश सवासवाः
॥६३॥देवान्विद्रावितान्दृष्ट्वा दैत्यस्सागरनंदनः ।
शंखभेरी जयरवैः प्रविवेशामरावतीम्
॥६४॥प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः ।
सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः
॥६५॥तदैव सर्वेष्वसुरोऽधिकारेष्विन्द्रादिकानां विनिवेश्य सम्यक् ।
शुंभादिकान्दैत्यवरान् पृथक्पृथक्स्वयं सुवर्णादिगुहां व्यगान्मुने
॥६६॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवजलंधरयुद्धवर्णनं नाम पंचदशोऽध्यायः ॥ १५ ॥