मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ४०

3
रुद्रसंहिता · युद्धखण्डः · 40

शंखचूडवधोपाख्यानम्

सनत्कुमार उवाच

स्वबलं निहतं दृष्ट्वा मुख्यं बहुतरं ततः ।

तथा वीरान् प्राणसमान् चुकोपातीव दानवः

॥१॥

उवाच वचनं शंभुं तिष्ठाम्याजौ स्थिरो भव ।

किमेतैर्निहतैर्मेद्य संमुखे समरं कुरु

॥२॥

इत्युक्त्वा दानवेन्द्रोसौ सन्नद्धस्समरे मुने ।

अगच्छन्निश्चयं कृत्वाऽभिमुखं शंकरस्य च

॥३॥

दिव्यान्यस्त्राणि चिक्षेप महारुद्राय दानवः ।

चकार शरवृष्टिञ्च तोयवृष्टिं यथा घनः

॥४॥

मायाश्चकार विविधा अदृश्या भयदर्शिताः ।

अप्रतर्क्याः सुरगणैर्निखिलैरपिः सत्तमैः

॥५॥

ता दृष्ट्वा शंकरस्तत्र चिक्षे पास्त्रं च लीलया ।

माहेश्वरं महादिव्यं सर्वमायाविनाशनम्

॥६॥

तेजसा तस्य तन्माया नष्टाश्चासन् द्रुतं तदा ।

दिव्यान्यस्त्राणि तान्येव निस्तेजांस्यभवन्नपि

॥७॥

अथ युद्धे महेशानस्तद्वधाय महाबलः ।

शूलं जग्राह सहसा दुर्निवार्यं सुतेजसाम्

॥८॥

तदैव तन्निषेद्धुं च वाग्बभूवाशरीरिणी ।

क्षिप शूलं न चेदानीं प्रार्थनां शृणु शंकर

॥९॥

सर्वथा त्वं समर्थो हि क्षणाद् ब्रह्माण्डनाशने ।

किमेकदानवस्येश शङ्खचूडस्य सांप्रतम्

॥१०॥

तथापि वेदमर्यादा न नाश्या स्वामिना त्वया ।

तां शृणुष्व महादेव सफलं कुरु सत्यतः

॥११॥

यावदस्य करेऽत्युग्रं कवचं परमं हरेः ।

यावत्सतीत्वमस्त्येव सत्या अस्य हि योषितः

॥१२॥

तावदस्य जरामृत्युश्शंखचूडस्य शंकर ।

नास्तीत्यवितथं नाथ विधेहि ब्रह्मणो वचः

॥१३॥

इत्याकर्ण्य नभोवाणीं तथेत्युक्ते हरे तदा ।

हरेच्छयागतो विष्णुस्तं दिदेश सतां गतिः

॥१४॥

वृद्धब्राह्मणवेषेण विष्णुर्मायाविनां वरः ।

शङ्खचूडोपकंठं च गत्वोवाच स तं तदा

॥१५॥

वृद्धब्राह्मण उवाच

देहि भिक्षां दानवेन्द्र मह्यं प्राप्ताय सांप्रतम्

॥१६॥

नेदानीं कथयिष्यामि प्रकटं दीनवत्सलम् ।

पश्चात्त्वां कथयिष्यामि पुनस्सत्यं करिष्यसि

॥१७॥

ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ।

कवचार्थी जनश्चाहमित्युवाचेति सच्छलात्

॥१८॥

तच्छ्रुत्वा दानवेन्द्रोसौ ब्रह्मण्यः सत्यवाग्विभुः ।

तद्ददौ कवचं दिव्यं विप्राय प्राणसंमतम्

॥१९॥

मायायेत्थं तु कवचं तस्माज्जग्राह वै हरिः ।

शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति

॥२०॥

गत्वा तत्र हरिस्तस्या योनौ मायाविशारदः ।

वीर्याधानं चकाराशु देवकार्यार्थमीश्वरः

॥२१॥

एतस्मिन्नंतरे शंभुमीरयन् स्ववचः प्रभुः ।

शंखचूडवधार्थाय शूलं जग्राह प्रज्वलत्

॥२२॥

तच्छूलं विजयं नाम शङ्करस्य परमात्मनः ।

सञ्चकाशे दिशस्सर्वा रोदसी संप्रकाशयन्

॥२३॥

कोटिमध्याह्नमार्तंडप्रलयाग्निशिखोपमम् ।

दुर्निवार्यं च दुर्द्धर्षमव्यर्थं वैरिघातकम्

॥२४॥

तेजसां चक्रमत्युग्रं सर्वशस्त्रास्त्रसायकम् ।

सुरासुराणां सर्वेषां दुस्सहं च भयंकरम्

॥२५॥

संहर्तुं सर्वब्रह्माडमवलंब्य च लीलया ।

संस्थितं परमं तत्र एकत्रीभूय विज्वलत्

॥२६॥

धनुस्सहस्रं दीर्घेण प्रस्थेन शतहस्तकम् ।

जीवब्रह्मास्वरूपं च नित्यरूपमनिर्मितम्

॥२७॥

विभ्रमद् व्योम्नि तच्छूलं शंख चूडोपरि क्षणात् ।

चकार भस्म तच्छीघ्रं निपत्य शिवशासनात्

॥२८॥

अथ शूलं महेशस्य द्रुतमावृत्य शंकरम ।

ययौ विहायसा विप्रमनोयायि स्वकार्यकृत्

॥२९॥

नेदुर्दुंदुभयस्स्वर्गे जगुर्गंधर्वकिन्नराः ।

तुष्टुवुर्मुनयो देवा ननृतुश्चाप्सरोगणाः

॥३०॥

बभूव पुष्पवृष्टिश्च शिवस्योपरि संततम् ।

प्रशशंस हरिर्ब्रह्मा शक्राद्या मुनयस्तथा

॥३१॥

शंखचूडो दानवेन्द्रः शिवस्य कृपया तदा ।

शाप मुक्तो बभूवाथ पूर्वरूपमवाप ह

॥३२॥

अस्थिभिश्शंखचूडस्य शंखजातिर्बभूव ह ।

प्रशस्तं शंखतोयं च सर्वेषां शंकरं विना

॥३३॥

विशेषेण हरेर्लक्ष्म्याः शंखतोयं महाप्रियम् ।

संबंधिनां च तस्यापि न हरस्य महामुने

॥३४॥

तमित्थं शंकरो हत्वा शिवलोकं जगाम सः ।

सुप्रहृष्टो वृषारूढः सोमस्कन्दगणैर्वृतः

॥३५॥

हरिर्जगाम वैकुंठं कृष्णस्स्ववस्थो बभूव ह ।

सुरास्स्वविषयं प्रापुः परमानन्दसंयुताः

॥३६॥

जगत्स्वास्थ्यमतीवाप सर्वनिर्विघ्नमापकम् ।

निर्मलं चाभवद्व्योम क्षितिस्सर्वा सुमंगला

॥३७॥

इति प्रोक्तं महेशस्य चरितं प्रमुदावहम् ।

सर्वदुःखहरं श्रीदं सर्वकामप्रपूरकम्

॥३८॥

धन्यं यशस्यमायुष्यं सर्वविघ्ननिवारणम् ।

भुक्तिदं मुक्तिदं चैव सर्वकामफलप्रदम्

॥३९॥

य इदं शृणुयान्नित्यं चरितं शशिमौलिनः ।

श्रावयेद्वा पठेद्वापि पाठयेद्वा सुधीर्नरः

॥४०॥

धनं धान्यं सुतं सौख्यं लभेतात्र न संशयः ।

सर्वान्कामानवाप्नोति शिवभक्तिं विशेषतः

॥४१॥

इदमाख्यानमतुलं सर्वोपद्रवनाशनम् ।

परमज्ञानजननं शिवभक्तिविवर्द्धनम्

॥४२॥

ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ।

धनाढ्यो वैश्यजश्शूद्रश्शृण्वन् सत्तमतामियात्

॥४३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखडे शंखचूडवधोपाख्यानं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥