मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय ५६

3
रुद्रसंहिता · युद्धखण्डः · 56

बाणासुरगणपत्वप्राप्तिवर्णनम्

नारद उवाच

कृष्णे गते द्वारकायाम निरुद्धेन भार्यया ।

अकार्षीत्किं ततो बाणस्तत्त्वं वद महामुने

॥१॥

सनत्कुमार उवाच

कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ।

दुःखितोऽभूत्ततो बाणस्स्वाज्ञानं संस्मरन्हृदा

॥२॥

ततो नन्दीशिवगणो बाणं प्रोवाच दुःखितम् ।

दैत्यं शोणितदिग्धांगमनुता पसमन्वितम्

॥३॥

नन्दीश्वर उवाच

बाण शंकरसद्भक्त मानुतापं कुरुष्व भोः ।

भक्तानुकंपी शंभुर्वै भक्तवत्सलनामधृक्

॥४॥

तदिच्छया च यज्जातं तज्जातमिति चेतसा ।

मन्यस्व भक्तशार्दूल शिवं स्मर पुनःपुनः

॥५॥

मन आद्ये समाधाय कुरु नित्यं महो त्सवम् ।

भक्तानुकंपनश्चाऽस्य शंकरस्य पुनःपुनः

॥६॥

नन्दिवाक्यात्ततो बाणो द्विषा शीर्षकमात्रकः ।

शिवस्थानं जगामाशु धृत्वा धैर्यं महामनाः

॥७॥

गत्वा तत्र प्रभुं नत्वा रुरोदातीव विह्वलः ।

गतगर्वव्रजो बाणः प्रेमाकुलितमानसः

॥८॥

संस्तुवन्विविधैः स्तोत्रै स्संनमन्नुतितस्तथा ।

यथोचितं पादघातं कुर्वन्विक्षेपयन्करान्

॥९॥

ननर्त तांडवं मुख्यं प्रत्यालीढादिशोभितम् ।

स्थानकैर्विविधाकारैरालीढप्रमुखैरपि

॥१०॥

सुखवादसहस्राणि भ्रूक्षेपसहितान्यपि ।

शिरःकम्पसहस्राणि प्राप्तानीकः सहस्रशः

॥११॥

वारीश्च विविधाकारा दर्शयित्वा शनैश्शनः ।

तथा शोणितधाराभिस्सिञ्चयित्वा महीतलम्

॥१२॥

रुद्रं प्रसादयामास शूलिनं चन्द्र शेखरम् ।

बाणासुरो महाभक्तो विस्मृतात्मगतिर्नतः

॥१३॥

ततो नृत्यं महत्कृत्वा भगवान्भक्तवत्सलः ।

उवाच बाणं संहृष्टो नृत्य गीतप्रियो हरः

॥१४॥

रुद्र उवाच

बाण तात बलेः पुत्र संतुष्टो नर्तनेन ते ।

वरं गृहाण दैत्येन्द्र यत्ते मनसि वर्तते

॥१५॥

सनत्कुमार उवाच

इत्याकर्ण्य वचश्शंम्भोर्दैत्येन्द्रेण तदा मुने ।

बाणेन संवृणीतोऽभूद्वरस्तु व्रणरोपणे

॥१६॥

बाहुयुद्धस्य चोद्ध त्तिर्गाणपत्यमथाक्षयम् ।

उषापुत्रस्य राज्यं तु तस्मिञ्शोणितकाह्वये

॥१७॥

निर्वैरता च विबुधैर्विष्णुना च विशेषतः ।

न पुनर्दैत्यता दुष्टा रजसा तमसा युता ।

१८ शंभुभक्तिर्विशेषेण निर्विकारा सदा मुने ।

शिवभक्तेषु च स्नेहो दया सर्वेषु जंतुषु

॥१९॥

कृत्वा वराञ्शंभोर्बलिपुत्रो महाऽसुरः ।

प्रेम्णाऽश्रुनयनो रुद्रं तुष्टाव सुकृतांजलिः

॥२०॥

बाण उवाच

देवदेव महादेव शरणा गतवत्सल ।

त्वां नमामि महेशान दीनबन्धो दयानिधे

॥२१॥

कृता मयि कृपातीव कृपासागर शंकर ।

गर्वोपहारितस्सर्वः प्रसन्नेन मम प्रभो

॥२२॥

त्वं ब्रह्म परमात्मा हि सर्वव्याप्यखिलेश्वरः ।

ब्रह्मांडतनुरुग्रेशो विराट् सर्वान्वितः परः

॥२३॥

नाभिर्नभोऽग्निर्वदनमंबु रेतो दिशः श्रुतिः ।

द्यौश्शीर्षमंघ्रिरुर्वी ते मनश्चन्द्रस्तव प्रभो

॥२४॥

दृगर्को जठरं वार्द्धिर्भुजेंद्रो धिषणा विधिः ।

प्रजापतिर्विसर्गश्च धर्मो हि हृदयं तव

॥२५॥

रोमाण्यौषधयो नाथ केशा जलमुचस्तव ।

गुणास्त्रयस्त्रिनेत्राणि सर्वात्मा पुरुषो भवान्

॥२६॥

ब्राह्मणं ते मुखं प्राहुर्बाहुं क्षत्रियमेव च ।

ऊरुजं वैश्यमाहुस्ते पादजं शूद्रमेव च

॥२७॥

त्वमेव सर्वदोपास्यस्सर्वैर्जीवैर्महेश्वर ।

त्वां भजन्परमां मुक्तिं लभते पुरुषो ध्रुवम्

॥२८॥

यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ।

विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन्

॥२९॥

विष्णुर्ब्रह्माऽथ विबुधा मुनयश्चामलाशयाः ।

सर्वात्मना प्रपन्नास्त्वां शंकरं प्रियमीश्वरम्

॥३०॥

सनत्कुमार उवाच

इत्युक्त्वा बलिपुत्रस्तु विरराम शरासुरः ।

प्रेमप्रफुल्लितांगश्च प्रणम्य स महेश्वरम्

॥३१॥

इति श्रुत्वा स्वभक्तस्य बाणस्य भगवान्भवः ।

सर्वं लभिष्यसीत्युक्त्वा तत्रैवांतरधीयत

॥३२॥

ततश्शंभोः प्रसादेन महाकालत्वमागतः ।

रुद्रस्यानुचरो बाणो महाप्रमुदितोऽभवत्

॥३३॥

इति किल शरनाम्नः शंकरस्यापि वृत्तं सकलगुरु जनानां सद्गुरोश्शूलपाणेः ।

कथितमिह वरिष्ठं श्रोत्ररम्यैर्वचोभिस्सकलभुवनमध्ये क्रीडमानस्य नित्यम्

॥३४॥

इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां पं० युद्धखंडे बाणासुरगणपत्वप्राप्तिवर्णनं नाम षट्पंचाशत्तमोऽध्यायः ॥ ५६ ॥