देवयुद्धवर्णनम्
सनत्कुमार उवाच
पुनर्दैत्यं समायांतं दृष्ट्वा देवास्सवासवाः ।
भयात्प्रकंपितास्सर्वे सहैवादुद्रुवुर्द्रुतम्
॥१॥वैकुंठं प्रययुस्सर्वे पुरस्कृत्य प्रजापतिम् ।
तुष्टुवुस्ते सुरा नत्वा सप्रजापतयोऽखिलाः
॥२॥देवा ऊचुः
हृषीकेश महाबाहो भगवन् मधुसूदन ।
नमस्ते देवदेवेश सर्वदैत्यविनाशक
॥३॥मत्स्यरूपाय ते विष्णो वेदान्नीतवते नमः ।
सत्यव्रतेन सद्राज्ञा प्रलयाब्धिविहारिणे
॥४॥कुर्वाणानां सुराणां च मथनायोद्यमं भृशम् ।
बिभ्रते मंदरगिरिं कूर्मरूपाय ते नमः
॥५॥नमस्ते भगवन्नाथ क्रतवे सूकरात्मने ।
वसुंधरां जनाधारां मूद्धतो बिभ्रते नमः
॥६॥वामनाय नमस्तुभ्यमुप्रेन्द्राख्याय विष्णवे ।
विप्ररूपेण दैत्येन्द्रं बलिं छलयते विभो
॥७॥नमः परशुरामाय क्षत्रनिःक्षत्रकारिणे ।
मातुर्हितकृते तुभ्यं कुपितायासतां द्रुहे
॥८॥रामाय लोकरामाय मर्यादापुरुषाय ते ।
रावणांतकरायाशु सीतायाः पतये नमः
॥९॥नमस्ते ज्ञानगूढाय कृष्णाय परमात्मन ।
राधाविहारशीलाय नानालीलाकराय च
॥१०॥नमस्ते गूढदेहाय वेदनिंदाकराय च ।
योगाचार्याय जैनाय वौद्धरूपाय मापते
॥११॥नमस्ते कल्किरूपाय म्लेच्छानामंतकारिणे ।
अनन्तशक्तिरूपाय सद्धर्मस्थापनाय च ।
१२ नमस्ते कपिलरूपाय देवहूत्यै महात्मने ।
वदते सांख्ययोगं च सांख्याचार्याय वै प्रभो
॥१३॥नमः परमहंसाय ज्ञानं संवदते परम् ।
विधात्रे ज्ञानरूपाय येनात्मा संप्रसीदति
॥१४॥वेदव्यासाय वेदानां विभागं कुर्वते नमः ।
हिताय सर्वलोकानां पुराणरचनाय च
॥१५॥एवं मत्स्यादितनुभिर्भक्तकार्योद्यताय ते ।
सर्गस्थितिध्वंसकर्त्रे नमस्ते ब्रह्मणे प्रभो
॥१६॥आर्तिहंत्रे स्वदासानां सुखदाय शुभाय च ।
पीताम्बराय हरये तार्क्ष्ययानाय ते नमः ।
सर्वक्रियायैककर्त्रे शरण्याय नमोनमः
॥१७॥दैत्यसंतापितामर्त्य दुःखादिध्वंसवज्रक ।
शेषतल्पशयायार्कचन्द्रनेत्राय ते नमः
॥१८॥कृपासिन्धो रमानाथ पाहि नश्शरणागतान् ।
जलंधरेण देवाश्च स्वर्गात्सर्वे निराकृताः
॥१९॥सूर्यो निस्सारितः स्थानाच्चन्द्रो वह्निस्तथैव च ।
पातालान्नागराजश्च धर्मराजो निराकृतः
॥२०॥विचरंति यथा मर्त्याश्शोभंते नैव ते सुराः ।
शरणं ते वयं प्राप्ता वधस्तस्य विचिंत्यताम्
॥२१॥सनत्कुमार उवाच
इति दीनवचश्श्रुत्वा देवानां मधुसूदनः ।
जगाद करुणासिन्धुर्मे घनिर्ह्रादया गिरा
॥२२॥विष्णुरुवाच
भयं त्यजत हे देवा गमिष्याम्यहमाहवम् ।
जलंधरेण दैत्येन करिष्यामि पराक्रमम्
॥२३॥इत्युक्त्वा सहसोत्थाय दैत्यारिः खिन्नमानसः ।
आरोहद्गरुडं वेगात्कृपया भक्तवत्सलः
॥२४॥गच्छन्तं वल्लभं दृष्ट्वा देवैस्सार्द्धं समुद्रजा ।
सांजलिर्बाष्पनयना लक्ष्मीर्वचनमब्रवीत्
॥२५॥लक्ष्म्युवाच
अहं ते वल्लभा नाथ भक्ता यदि च सर्वदा ।
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे
॥२६॥विष्णुरुवाच
जलंधरेण दैत्येन करिष्यामि पराक्रमम् ।
तैस्संस्तुतो गमिष्यामि युद्धाय त्वरितान्वितः
॥२७॥रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि ।
प्रीत्या च तव नैवायं मम वध्यो जलंधरः
॥२८॥सनत्कुमार उवाच
इत्युक्त्वा गरुडारूढश्शंखचक्रगदासिभृत् ।
विष्णुर्वेगाद्ययौ योद्धुं देवैश्शक्रादिभिस्सह
॥२९॥द्रुतं स प्राप तत्रैव यत्र दैत्यो जलंधरः ।
कुर्वन् सिंहरवं देवैर्ज्वलद्भिर्विष्णुतेजसा
॥३०॥अथारुणानुजजवपक्षवातप्रपीडिताः ।
वात्याविवर्तिता दैत्या बभ्रमुः खे यथा घनाः
॥३१॥ततो जलंधरो दृष्ट्वा दैत्यान् वात्याप्रपीडितान् ।
उद्धृत्य वचनं क्रोधाद्द्रुतं विष्णुं समभ्यगात्
॥३२॥एतस्मिन्नंतरे देवाश्चक्रुर्युद्धं प्रहर्षिताः ।
तेजसा च हरेः पुष्टा महाबलसमन्विताः
॥३३॥युद्धोद्यतं समालोक्य देवसैन्यमुपस्थितम् ।
दैत्यानाज्ञापयामास समरे चातिदुर्मदान्
॥३४॥जलंधर उवाच
भोभो दैत्यवरा यूयं युद्धं कुरुत दुस्तरम् ।
शक्राद्यैरमरैरद्य प्रबलैः कातरैस्सदा
॥३५॥मौर्यास्तु लक्षसंख्याता धौम्रा हि शतसंख्यकाः ।
असुराः कोटिसंख्याताः कालकेयास्तथैव च
॥३६॥कालकानां दौर्हृदानां कंकानां लक्षसंख्यया ।
अन्येऽपि स्वबलैर्युक्ता विनिर्यांतु ममाज्ञया
॥३७॥सर्वे सज्जा विनिर्यात बहुसेनाभिसंयुताः ।
नानाशस्त्रास्त्रसंयुक्ता निर्भयाः गतसंशयाः
॥३८॥भोभो शुंभनिशुंभौ च देवान्समरकातरान् ।
क्षणेन सुमहावीर्यौ तुच्छान्नाशयतं युवाम्
॥३९॥सनत्कुमार उवाच
दैत्या जलंधराज्ञप्ता इत्थं युद्धविशारदाः ।
युयुधुस्ते सुरास्सर्वे चतुरंगबलान्विताः
॥४०॥गदाभिस्तीक्ष्णबाणैश्च शूलपट्टिशतोमरैः ।
केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम्
॥४१॥नानायुधैश्च परैस्तत्र निजघ्नुस्ते बलान्विता ।
देवास्तथा महावीरा हृषीकेशबलान्विताः ।
युयुधुस्तीक्ष्णबाणाश्च क्षिपंतस्सिंहवद्रवाः
॥४२॥केचिद्बाणैस्तु तीक्ष्णैश्च केचिन्मुसलतोमरैः ।
केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम्
॥४३॥इत्थं सुराणां दैत्यानां संग्रामस्समभून्महान् ।
अत्युल्बणो मुनीनां हि सिद्धानां भय कारकः
॥४४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवयुद्धवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥