शिवस्तुतिवर्णनम्
व्यास उवाच
तस्मिन् दैत्याधिपे पौरे सभ्रातरि विमोहिते ।
सनत्कुमार किं वासीत्तदाचक्ष्वाखिलं विभो
॥१॥सनत्कुमार उवाच
त्रिपुरे च तथाभूते दैत्ये त्यक्तशिवार्चने ।
स्त्रीधर्मे निखिले नष्टे दुराचारे व्यवस्थिते
॥२॥कृतार्थ इव लक्ष्मीशो देवैस्सार्द्धमुमापतिम् ।
निवेदितुं तच्चरित्रं कैलासमगमद्धरिः
॥३॥तस्योपकंठं स्थित्वाऽसौ देवैस्सह रमापतिः ।
ततो भूरि स च ब्रह्मा परमेण समाधिना
॥४॥मनसा प्राप्य सर्वज्ञं ब्रह्मणा स हरिस्तदा ।
तुष्टाव वाग्भिरिष्ट्वाभिश्शंकरं पुरुषोत्तमः
॥५॥विष्णुरुवाच
महेश्वराय देवाय नमस्ते परमात्मने ।
नारायणाय रुद्राय ब्रह्मणे ब्रह्मरूपिणे
॥६॥एवं कृत्वा महादेवं दंडवत्प्रणिपत्य ह ।
जजाप रुद्रमंत्रं च दक्षिणामूर्तिसंभवम्
॥७॥जले स्थित्वा सार्द्धकोटिप्रमितं तन्मनाः प्रभुः ।
संस्मरन् मनसा शंभुं स्वप्रभुं परमेश्वरम्
॥८॥तावद्देवास्तदा सर्वे तन्मनस्का महेश्वरम्
॥९॥देवा ऊचुः
नमस्सर्वात्मने तुभ्यं शंकरायार्तिहारिणे ।
रुद्राय नीलकंठाय चिद्रूपाय प्रचेतसे
॥१०॥गतिर्नस्सर्वदा त्वं हि सर्वापद्विनिवारकः ।
त्वमेव सर्वदात्माभिर्वंद्यो देवारिसूदन
॥११॥त्वमादिस्त्वमनादिश्च स्वानंदश्चाक्षयः प्रभुः ।
प्रकृतेः पुरुषस्यापि साक्षात्स्रष्टा जगत्प्रभुः
॥१२॥त्वमेव जगतां कर्ता भर्ता हर्ता त्वमेव हि ।
ब्रह्मा विष्णुर्हरो भूत्वा रजस्सत्त्वतमोगुणैः
॥१३॥तारकोसि जगत्यस्मिन्सर्वेषामधिपोऽव्ययः ।
वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः
॥१४॥याच्यो मुक्त्यर्थमीशानो योगिभिर्योगवित्तमैः ।
हृत्पुंडरीकविवरे योगिनां त्वं हि संस्थितः
॥१५॥वदंति वेदास्त्वां संतः परब्रह्मस्वरूपिणम् ।
भवंतं तत्त्वमित्यद्य तेजोराशिं परात्परम्
॥१६॥परमात्मानमित्याहुररस्मिन् जगति यद्विभो ।
त्वमेव शर्व सर्वात्मन् त्रिलोकाधिपते भव
॥१७॥दृष्टं श्रुतं स्तुतं सर्वं ज्ञायमानं जगद्गुरो ।
अणोरल्पतरं प्राहुर्महतोपि महत्तरम्
॥१८॥सर्वतः पाणिपादांतं सर्वतोक्षिशिरोमुखम् ।
सर्वतश्श्रवणघ्राणं त्वां नमामि च सर्वतः
॥१९॥सर्वज्ञं सर्वतो व्यापिन् सर्वेश्वरमनावृतम् ।
विश्वरूपं विरूपाक्षं त्वां नमामि च सर्वतः
॥२०॥सर्वेश्वरं भवाध्यक्षं सत्यं शिवमनुत्तमम् ।
कोटि भास्करसंकाशं त्वां नमामि च सर्वतः
॥२१॥विश्वदेवमनाद्यंतं षट्त्रिंशत्कमनीश्वरम् ।
प्रवर्तकं च सर्वेषां त्वां नमामि च सर्वतः
॥२२॥प्रवर्तकं च प्रकृतेस्सर्वस्य प्रपितामहम् ।
सर्वविग्रहमीशं हि त्वां नमामि च सर्वतः
॥२३॥एवं वदंति वरदं सर्वावासं स्वयम्भुवम् ।
श्रुतयः श्रुतिसारज्ञं श्रुतिसारविदश्च ये
॥२४॥अदृश्यमस्माभिरनेकभूतं त्वया कृतं यद्भवताथ लोके ।
त्वामेव देवासुरभूसुराश्च अन्ये च वै स्थावरजंगमाश्च
॥२५॥पाह्यनन्यगतीञ्शंभो सुरान्नो देववल्लभ ।
नष्टप्रायांस्त्रिपुरतो विनिहत्यासुरान्क्षणात्
॥२६॥मायया मोहितास्तेऽद्य भवतः परमेश्वर ।
विष्णुना प्रोक्तयुक्त्या त उज्झिता धर्मतः प्रभो
॥२७॥संत्यक्तसर्वधर्मांश्च बोद्धागमसमाश्रिताः ।
अस्मद्भाग्यवशाज्जाता दैत्यास्ते भक्तवत्सल
॥२८॥सदा त्वं कार्यकर्त्ताहि देवानां शरणप्रद ।
वयं ते शरणापन्ना यथेच्छसि तथा कुरु
॥२९॥सनत्कुमार उवाच
इति स्तुत्वा महेशानं देवास्तु पुरतः स्थिताः ।
कृतांजलिपुटा दीना आसन् संनतमूर्तयः
॥३०॥स्तुतश्चैवं सुरेन्द्राद्यैर्विष्णोर्जाप्येन चेश्वरः ।
अगच्छत्तत्र सर्वेशो वृषमारुह्य हर्षितः
॥३१॥विष्णुमालिंग्य नंदिशादवरुह्य प्रसन्नधीः ।
ददर्श सुदृशा तत्र नन्दीदत्तकरोऽखिलान्
॥३२॥अथ देवान् समालोक्य कृपादृष्ट्या हरिं हरः ।
प्राह गंभीरया वाचा प्रसन्नः पार्वतीपतिः
॥३३॥शिव उवाच
ज्ञातं मयेदमधुना देवकार्यं सुरेश्वर ।
विष्णोर्मायाबलं चैव नारदस्य च धीमतः
॥३४॥तेषामधर्मनिष्ठानां दैत्यानां देवसत्तम ।
पुरत्रयविनाशं च करिष्येऽहं न संशयः
॥३५॥परन्तु ते महादैत्या मद्भक्ता दृढमानसाः ।
अथ वध्या मयैव स्युर्व्याजत्यक्तवृषोत्तमाः
॥३६॥विष्णुर्हन्यात्परो वाथ यत्त्याजितवृषाः कृताः ।
दैत्या मद्भक्तिरहितास्सर्वे त्रिपुरवासिनः
॥३७॥इति शंभोस्तु वचनं श्रुत्वा सर्वे दिवौकसः ।
विमनस्का बभूवुस्ते हरिश्चापि मुनीश्वर
॥३८॥देवान् विष्णुमुदासीनान् दृष्ट्वा च भवकृद्विधिः ।
कृतांजलिपुरश्शंभुं ब्रह्मा वचनमब्रवीत्
॥३९॥ब्रह्मोवाच
न किंचिद्विद्यते पापं यस्मात्त्वं योगवित्तमः ।
परमेशः परब्रह्म सदा देवर्षिरक्षकः
॥४०॥तवैव शासनात्ते वै मोहिताः प्रेरको भवान् ।
त्यक्तस्वधर्मत्वत्पूजाः परवध्यास्तथापि न
॥४१॥अतस्त्वया महादेव सुरर्षिप्राणरक्षक ।
साधूनां रक्षणार्थाय हंतव्या म्लेच्छजातयः
॥४२॥राज्ञस्तस्य न तत्पापं विद्यते धर्मतस्तव ।
तस्माद्रक्षेद्द्विजान् साधून्कंटकाद्वै विशोधयेत्
॥४३॥एवमिच्छेदिहान्यत्र राजा चेद्राज्यमात्मनः ।
प्रभुत्वं सर्वलोकानां तस्माद्रक्षस्व मा चिरम्
॥४४॥मुनीन्द्रेशास्तथा यज्ञा वेदाश्शास्त्रादयोखिलाः ।
प्रजास्ते देवदेवेश ह्ययं विष्णुरपि ध्रुवम्
॥४५॥देवता सार्वभौमस्त्वं सम्राट्सर्वेश्वरः प्रभो ।
परिवारस्तवैवैष हर्यादि सकलं जगत्
॥४६॥युवराजो हरिस्तेज ब्रह्माहं ते पुरोहितः ।
राजकार्यकरः शक्रस्त्वदाज्ञापरि पालकः
॥४७॥देवा अन्येपि सर्वेश तव शासनयन्त्रिताः ।
स्वस्वकार्यकरा नित्यं सत्यं सत्यं न संशयः
॥४८॥सनत्कुमार उवाच
एतच्छ्रुत्वा वचस्तस्य ब्रह्मणः परमेश्वरः ।
प्रत्युवाच प्रसन्नात्मा शंकरस्सुरपो विधिम्
॥४९॥शिव उवाच
हे ब्रह्मन् यद्यहं देवराजस्सम्राट् प्रकीर्त्तितः ।
तत्प्रकारो न मे कश्चिद्गृह्णीयां यमिह प्रभुः
॥५०॥रथो नास्ति महादिव्यस्तादृक् सारथिना सह ।
धनुर्बाणादिकं चापि संग्रामे जयकारकम्
॥५१॥यमास्थाय धनुर्बाणान् गृहीत्वा योज्य व मनः ।
निहनिष्याम्यहं दैत्यान् प्रबलानपि संगरे
॥५२॥सनत्कुमार उवाच
अद्य सब्रह्मका देवास्सेन्द्रोपेन्द्राः प्रहर्षिताः ।
श्रुत्वा प्रभोस्तदा वाक्यं नत्वा प्रोचुर्महेश्वरम्
॥५३॥देवा ऊचुः
वयं भवाम देवेश तत्प्रकारा महेश्वर ।
रथादिका तव स्वा मिन्संनद्धास्संगराय हि
॥५४॥इत्युक्त्वा संहतास्सर्वे शिवेच्छामधिगम्य ह ।
पृथगूचुः प्रसन्नास्ते कृताञ्जलिपुटास्सुराः
॥५५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शिवस्तुतिवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥