मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय २

3
रुद्रसंहिता · युद्धखण्डः · 2

देवस्तुतिः

व्यास उवाच

ब्रह्मपुत्र महाप्राज्ञ वद मे वदतां वर ।

ततः किमभवद्देवाः कथं च सुखिनोऽभवन्

॥१॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तस्य व्यासस्यामितधीमतः ।

सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम्

॥२॥

सनत्कुमार उवाच

अथ तत्प्रभया दग्धा देवा हीन्द्रादयस्तथा ।

संमंत्र्य दुःखितास्सर्वे ब्रह्माणं शरणं ययुः

॥३॥

नत्वा पितामहं प्रीत्या परिक्षिप्ताखिलास्सुराः ।

दुःखं विज्ञापयामासुर्विलोक्यावसरं ततः

॥४॥

देवा ऊचुः

धातस्त्रिपुरनाथेन सतारकसुतेन हि ।

सर्वे प्रतापिता नूनं मयेन त्रिदिवौकसः

॥५॥

अतस्ते शरणं याता दुःखिता हि विधे वयम् ।

कुरु त्वं तद्वधोपायं सुखिनस्स्याम तद्यथा

॥६॥

सनत्कुमार उवाच

इति विज्ञापितो देवैर्विहस्य भवकृद्विधिः ।

प्रत्युवाचाथ तान्सर्वान्मयतो भीतमानसान्

॥७॥

ब्रह्मोवाच

न भेतव्यं सुरास्तेभ्यो दानवेभ्यो विशेषतः ।

आचक्षे तद्वधोपायं शिवं शर्वः करिष्यति

॥८॥

मत्तो विवर्धितो दैत्यो वधं मत्तो न चार्हति ।

तथापि पुण्यं वर्द्धैत नगरे त्रिपुरे पुनः

॥९॥

शिवं च प्रार्थयध्वं वै सर्वे देवास्सवासवाः ।

सर्वाधीशः प्रसन्नश्चेत्स वः कार्यं करिष्यति

॥१०॥

सनत्कुमार उवाच

इत्याकर्ण्य विधेर्वाणीं सर्वे देवास्सवासवाः ।

दुखितास्ते ययुस्तत्र यत्रास्ते वृषभध्वजः

॥११॥

प्रणम्य भक्त्या देवेशं सर्वे प्रांजलयस्तदा ।

तुष्टुवुर्विनतस्कंधाश्शंकरं लोकशंकरम्

॥१२॥

देवा ऊचुः

नमो हिरण्यगर्भाय सर्वसृष्टि विधायिने ।

नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे

॥१३॥

नमो हरस्वरूपाय भूतसंहारकारिणे ।

निर्गुणाय नमस्तुभ्यं शिवायामित तेजसे

॥१४॥

अवस्थारहितायाथ निर्विकाराय वर्चसे ।

महाभूतात्मभूताय निर्लिप्ताय महात्मने

॥१५॥

नमस्ते भूतपतये महाभारसहिष्णवे ।

तृष्णाहराय निर्वैराकृतये भूरितेजसे

॥१६॥

महादैत्यमहारण्यनाशिने दाववह्नये ।

दैत्यद्रुमकुठाराय नमस्ते शूलपाणये

॥१७॥

महादनुजनाशाय नमस्ते परमेश्वर ।

अम्बिकापतये तुभ्यं नमस्सर्वास्त्रधारक

॥१८॥

नमस्ते पार्वतीनाथ परमात्मन्महेश्वर ।

नीलकंठाय रुद्राय नमस्ते रुद्ररूपिणे

॥१९॥

नमो वेदान्तवेद्याय मार्गातीताय ते नमः ।

नमोगुणस्वरूपाय गुणिने गुणवर्जिते

॥२०॥

महादेव नमस्तुभ्यं त्रिलोकीनन्दनाय च ।

प्रद्युम्नायानिरुद्धाय वासुदेवाय ते नमः

॥२१॥

संकर्षणाय देवाय नमस्ते कंसनाशिने ।

चाणूरमर्दिने तुभ्यं दामोदर विषादिने

॥२२॥

हृषीकेशाच्युत विभो मृड शंकर ते नमः ।

अधोक्षज गजाराते कामारे विषभक्षणः

॥२३॥

नारायणाय देवाय नारायणपराय च ।

नारायणस्वरूपाय नाराणयतनूद्भव

॥२४॥

नमस्ते सर्वरूपाय महानरकहारिणे ।

पापापहारिणे तुभ्यं नमो वृषभवाहन

॥२५॥

क्षणादिकालरूपाय स्वभक्तबलदायिने ।

नानारूपाय रूपाय दैत्यचक्रविमर्दिने

॥२६॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।

सहस्रमूर्त्तये तुभ्यं सहस्रावयवाय च

॥२७॥

धर्मरूपाय सत्त्वाय नमस्सत्त्वात्मने हर ।

वेदवेद्यस्वरूपाय नमो वेदप्रियाय च

॥२८॥

नमो वेदस्वरूपाय वेदवक्त्रे नमो नमः ।

सदाचाराध्वगम्याय सदाचाराध्वगामिने

॥२९॥

विष्टरश्रवसे तुभ्यं नमस्सत्यमयाय च ।

सत्यप्रियाय सत्याय सत्यगम्याय ते नमः

॥३०॥

नमस्ते मायिने तुभ्यं मायाधीशाय वै नमः ।

ब्रह्मगाय नमस्तुभ्यं ब्रह्मणे ब्रह्मजाय च

॥३१॥

तपसे ते नमस्त्वीश तपसा फलदायिने ।

स्तुत्याय स्तुतये नित्यं स्तुतिसंप्रीतचेतसे

॥३२॥

श्रुत्याचारप्रसन्नाय स्तुत्याचारप्रियाय च ।

चतुर्विधस्वरूपाय जलस्थलजरूपिणे

॥३३॥

सर्वे देवादयो नाथ श्रेष्ठत्वेन विभूतयः ।

देवानामिन्द्ररूपोऽसि ग्रहाणां त्वं रविर्मतः

॥३४॥

सत्यलोकोऽसि लोकानां सरितां द्युसरिद्भवान् ।

श्वेतवर्णोऽसि वर्णानां सरसां मानसं सरः

॥३५॥

शैलानां गिरिजातातः कामधुक्त्वं च गोषु ह ।

क्षीरोदधिस्तु सिन्धूनां धातूनां हाटको भवान्

॥३६॥

वर्णानां ब्राह्मणोऽसि त्वं नृणां राजासि शंकर ।

मुक्तिक्षेत्रेषु काशी त्वं तीर्थानां तीर्थराड् भवान्

॥३७॥

उपलेषु समस्तेषु स्फटिकस्त्वं महेश्वर ।

कमलस्त्वं प्रसूनेषु शैलेषु हिमवांस्तथा

॥३८॥

भवान्वाग्व्यवहारेषु भार्गवस्त्वं कविष्वपि ।

पक्षिष्वेवासि शरभः सिंहो हिंस्रेषु संमतः

॥३९॥

शालग्रामशिला च त्वं शिलासु वृषभध्वज ।

पूज्य रूपेषु सर्वेषु नर्मदालिंगमेव हि

॥४०॥

नन्दीश्वरोऽसि पशुषु वृषभः परमेश्वर ।

वेदेषूपनिषद्रूपी यज्वनां शीतभानुमान्

॥४१॥

प्रतापिनां पावकस्त्वं शैवानामच्युतो भवान् ।

भारतं त्वं पुराणानां मकारोऽस्यक्षरेषु च

॥४२॥

प्रणवो बीजमंत्राणां दारुणानां विषं भवान् ।

व्योमव्यप्तिमतां त्वं वै परमात्मासि चात्मनाम्

॥४३॥

इन्द्रियाणां मनश्च त्वं दानानामभयं भवान् ।

पावनानां जलं चासि जीवनानां तथामृतम्

॥४४॥

लाभानां पुत्रलाभोऽसि वायुर्वेगवतामसि ।

नित्यकर्मसु सर्वेषु संध्योपास्तिर्भवान्मता

॥४५॥

क्रतूनामश्वमेधोऽसि युगानां प्रथमो युगः ।

पुष्यस्त्वं सर्वधिण्यानाममावास्या तिथिष्वसि

॥४६॥

सर्वर्तुषु वसंतस्त्वं सर्वपर्वसु संक्रमः ।

कुशोऽसि तृणजातीनां स्थूलवृक्षेषु वै वटः

॥४७॥

योगेषु च व्यतीपातस्सोमवल्ली लतासु च ।

बुद्धीनां धर्मबुद्धिस्त्वं कलत्रं सुहृदां भवान्

॥४८॥

साधकानां शुचीनां त्वं प्राणायामो महेश्वर ।

ज्योतिर्लिंगेषु सर्वेषु भवान् विश्वे श्वरो मतः

॥४९॥

धर्मस्त्वं सर्वबंधूनामाश्रमाणां परो भवान् ।

मोक्षस्त्वं सर्ववर्णेषु रुद्राणां नीललोहितः

॥५०॥

आदित्यानां वासुदेवो हनूमान्वानरेषु च ।

यज्ञानां जपयज्ञोऽसि रामः शस्त्रभृतां भवान्

॥५१॥

गंधर्वाणां चित्ररथो वसूनां पावको ध्रुवम् ।

मासानामधिमासस्त्वं व्रतानां त्वं चतुर्दशी

॥५२॥

ऐरावतो गजेन्द्राणां सिद्धानां कपिलो मतः ।

अनंतस्त्वं हि नागानां पितॄणामर्यमा भवान्

॥५३॥

कालः कलयतां च त्वं दैत्यानां बलिरेव च ।

किं बहूक्तेन देवेश सर्वं विष्टभ्य वै जगत्

॥५४॥

एकांशेन स्थितस्त्वं हि बहिःस्थोऽन्वित एव च

॥५५॥

सनत्कुमार उवाच

इति स्तुत्वा सुरास्सर्वे महादेवं वृषध्वजम् ।

स्तोत्रैर्नानाविधैदिंव्यैः शूलिनं परमेश्वरम्

॥५६॥

प्रत्यूचुः प्रस्तुतं दीनास्स्वार्थं स्वार्थविचक्षणाः ।

वासवाद्या नतस्कधाः कृताञ्जलि पुटा मुने

॥५७॥

देवा ऊचुः

पराजिता महादेव भ्रातृभ्यां सहितेन तु ।

भगवंस्तारकोत्पन्नैः सर्वे देवास्सवासवाः

॥५८॥

त्रैलोक्यं स्ववशं नीतं तथा च मुनिसत्तमाः ।

विध्वस्तास्सर्वसंसिद्धास्सर्वमुत्सादितं जगत्

॥५९॥

यज्ञभागान्समग्राँस्तु स्वयं गृह्णाति दारुणः ।

प्रवर्तितो ह्यधर्मस्तैर्ऋषीणां च निवारितः

॥६०॥

अवध्यास्सर्वभूतानां नियतं तारकात्मजाः ।

तदिच्छया प्रकुर्वन्ति सर्वे कर्माणि शंकर

॥६१॥

यावन्न क्षीयते दैत्यैर्घोरैस्त्रिपुरवासिभिः ।

तावद्विधीयतां नीतिर्यया संरक्ष्यते जगत्

॥६२॥

सनत्कुमार उवाच

इत्याकर्ण्य वचस्तेषामिन्द्रादीनां दिवौकसाम् ।

शिवः संभाषमाणानां प्रतिवाक्यमुवाच सः

॥६३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिर्नाम द्वितीयोऽध्यायः ॥ २ ॥