मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — युद्धखण्डः, अध्याय १९

3
रुद्रसंहिता · युद्धखण्डः · 19

दूतसंवादः

व्यास उवाच

सनत्कुमार सर्वज्ञ नारदे हि गते दिवि ।

दैत्यराट् किमकार्षीत्स तन्मे वद सुविस्तरात्

॥१॥

सनत्कुमार उवाच

तमामंत्र्य गते दैत्यं नारदे दिवि दैत्यराट् ।

तद्रूपश्रवणादासीदनंगज्वरपीडितः

॥२॥

अथो जलंधरो दैत्यः कालाधीनः प्रनष्टधीः ।

दूतमाह्वाय यामास सैंहिकेयं विमोहितः

॥३॥

आगतं तं समालोक्य कामाक्रांतमनास्स हि ।

सुसंबोध्य समाचष्ट सिंधुपुत्रो जलंधरः

॥४॥

जलंधर उवाच

भोभो दूतवरश्रेष्ठ सर्वकार्यप्रसाधक ।

सैंहिकेय महाप्राज्ञ कैलासं गच्छ पर्वतम्

॥५॥

तत्रास्ति योगी शंभ्वाख्य स्तपस्वी च जटाधरः ।

भस्मभूषितसर्वाङ्गो विरक्तो विजितेन्द्रियः ।

तत्र गत्वेति वक्तव्यं योगिनं दूत शंकरम् ।

जटाधरं विरक्तं तं निर्भयेन हृदा त्वया

॥७॥

हे योगिंस्ते दयासिन्धो जायारत्नेन किं भवेत् ।

भूतप्रेतपिशाचादिसेवितेन वनौकसा

॥८॥

मन्नाथे भुवने योगिन्नोचिता गतिरीदृशी ।

जायारत्नमतस्त्वं मे देहि रत्नभुजे निजम्

॥९॥

यानियानि सुरत्नानि त्रैलोक्ये तानि संति मे ।

मदधीनं जगत्सर्वं विद्धि त्वं सचराचरम्

॥१०॥

इन्द्रस्य गजरत्नं चोच्चैःश्रवोरत्नमुत्तमम् ।

बलाद्गृहीतं सहसा पारिजा ततरुस्तथा

॥११॥

विमानं हंससंयुक्तमंगणे मम तिष्ठति ।

रत्नभूतं महादिव्यमुत्तमं वेधसोद्भुतम्

॥१२॥

महापद्मादिकं दिव्यं निधिरत्नं स्वदस्य च ।

छत्रं मे वारुणं गेहे कांचनस्रावि तिष्ठति

॥१३॥

किञ्जल्किनी महामाला सर्वदाऽम्लानपंकजा ।

मत्पितुस्सा ममैवास्ति पाशश्च कंपतेस्तथा

॥१४॥

मृत्योरुत्क्रांतिदा शक्तिर्मया नीता बलाद्वरा ।

ददौ मह्यं शुचिर्दिव्ये शुचिशौचे च वाससी

॥१५॥

एवं योगीन्द्र रत्नानि सर्वाणि विलसंति मे ।

अतस्त्वमपि मे देहि स्वस्त्रीरत्नं जटाधर

॥१६॥

सनत्कुमार उवाच

इति श्रुत्वा वचस्तस्य नन्दिना स प्रवेशितः ।

जगामोग्रसभां राहुर्विस्मयोद्भुतलोचनः

॥१७॥

तत्र गत्वा शिवं साक्षाद्देवदेवं महाप्रभुम् ।

स्वतेजोध्वस्ततमसं भस्मलेपविराजितम्

॥१८॥

महाराजोपचारे विलसंतं महाद्भुतम् ।

सर्वाङ्गसुन्दरं दिव्यभूषणैर्भूषितं हरम्

॥१९॥

प्रणनाम च तं गर्वात्तत्तेजः क्रांतविग्रहः ।

निकटं गतवाञ्छंभोस्स दूतो राहुसंज्ञकः

॥२०॥

अथो तदग्र आसीनो वक्तुकामो हि सैंहिकः ।

त्र्यंबकं स तदा संज्ञाप्रेरितो वाक्यमब्रवीत्

॥२१॥

दैत्यपन्नगसेव्यस्य त्रैलोक्याधिपतेस्सदा ।

दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः

॥२२॥

राहुरुवाच

जलंधरोब्धितनयस्सर्वदैत्यजनेश्वरः ।

त्रैलोक्यस्येश्वरस्सोथाभवत्सर्वाधिनायकः

॥२३॥

स दैत्यराजो बलवान्देवानामंतकोपमः ।

योगिनं त्वां समुद्दिश्य स यदाह शृणुष्व तत्

॥२४॥

महादिव्यप्रभावस्य तस्य दैत्यपतेः प्रभोः ।

सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज

॥२५॥

श्मशानवासिनो नित्यमस्थिमालाधरस्य च ।

दिगंबरस्य ते भार्या कथं हैमवती शुभम्

॥२६॥

अहं रत्नाधिनाथोस्मि सा च स्त्रीरत्नसंज्ञिता ।

तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव

॥२७॥

मम वश्यास्त्रयो लोका भुंजेऽहं मखभागकान् ।

यानि संति त्रिलोकेस्मिन्रत्नानि मम सद्मनि

॥२८॥

वयं रत्नभुजस्त्वं तु योगी खलु दिगम्बरः ।

स्वस्त्रीरत्नं देहि मह्यं राज्ञस्सुखकराः प्रजाः

॥२९॥

सनत्कुमार उवाच

वदत्येवं तथा राहौ भ्रूमध्याच्छूलपाणिनः ।

अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः

॥३०॥

सिंहास्यप्रचलजिह्वस्सज्ज्वालनयनो महान् ।

ऊर्द्ध्वकेशश्शुष्कतनुर्नृसिंह इव चापरः

॥३१॥

महातनुर्महाबाहुस्तालजंघो भयंकरः ।

अभिदुद्राव वेगेन राहुं स पुरुषो द्रुतम्

॥३२॥

स तं खादितु मायान्तं दृष्ट्वा राहुर्भयातुरः ।

अधावदात वेगेन बहिस्तस्य च दधार तम्

॥३३॥

राहुरुवाच

देवदेव महेशान पाहि मां शरणा गतम् ।

सुराऽसुरैस्सदा वन्द्यः परमैश्वर्यवान् प्रभुः

॥३४॥

ब्राह्मणं मां महादेव खादितुं समुपागतः ।

पुरुषोयं तवेशान सेवकोतिभयंकरः

॥३५॥

एतस्माद्रक्ष देवेश शरणागतवत्सलः ।

न खादेत यथायं मां नमस्तेऽस्तु मुहुर्मुहुः

॥३६॥

सनत्कुमार उवाच

महादेवो वचः श्रुत्वा ब्राह्मणस्य तदा मुने ।

अब्रवीत्स्वगणं तं वै दीनानाथप्रियः प्रभुः

॥३७॥

महादेव उवाच

प्रभुं च ब्राह्मणं दूतं राह्वाख्यं शरणागतम् ।

शरण्या रक्षणीया हि न दण्ड्या गणसत्तम

॥३८॥

सनत्कुमार उवाच

इत्युक्तौ गिरिजेशेन सगणः करुणात्मना ।

राहुं तत्याज सहसा ब्राह्मणेति श्रुताक्षरः

॥३९॥

राहुं त्यक्त्वाम्बरे सोथ पुरुषो दीनया गिरा ।

शिवोपकंठमागत्य महादेवं व्यजिज्ञपत्

॥४०॥

पुरुष उवाच

देवदेव महादेव करुणाकर शंकर ।

त्याजितं मम भक्ष्यं ते शरणागतवत्सलः

॥४१॥

क्षुधा मां बाधते स्वामिन्क्षुत्क्षामश्चास्मि सर्वथा ।

किं भक्ष्यं मम देवेश तदाज्ञापय मां प्रभो

॥४२॥

सनत्कुमार उवाच

इत्याकर्ण्य वचस्तस्य पुरुषस्य महाप्रभुः ।

प्रत्युवाचाद्भुतोतिः स कौतुकी स्वहितंकरः

॥४३॥

महेश्वर उवाच

बुभुक्षा यदि तेऽतीव क्षुधा त्वां बाधते यदि ।

संभक्षयात्मनश्शीघ्रं मांसं त्वं हस्तपादयोः

॥४४॥

सनत्कुमार उवाच

शिवेनैवमाज्ञप्तश्चखाद पुरुषस्स्वकम् ।

हस्तपादोद्भवं मांसं शिरश्शेषोऽ भवद्यथा

॥४५॥

दृष्ट्वा शिरोवशेषं तु सुप्रसन्नस्सदाशिवः ।

पुरुषं भीमकर्माणं तमुवाच सविस्मयः

॥४६॥

शिव उवाच

हे महागण धन्यस्त्वं मदाज्ञाप्रतिपालकः ।

संतुष्टश्चास्मि तेऽतीव कर्मणानेन सत्तम

॥४७॥

त्वं कीर्तिमुखसंज्ञो हि भव मद्द्वारकस्सदा ।

महागणो महावीरस्सर्वदुष्टभयंकरः

॥४८॥

मत्प्रियस्त्वं मदर्चायां सदा पूज्योऽहि मज्जनैः ।

त्वदर्चां ये न कुर्वंति नैव ते मत्प्रियंकराः

॥४९॥

सनत्कुमार उवाच

इति शंभोर्वरं प्राप्य पुरुषः प्रजहर्ष सः ।

तदाप्रभृति देवेश द्वारे कीर्तिमुखः स्थितः

॥५०॥

पूजनीयो विशेषेण स गणश्शिवपूजने ।

नार्चयंतीह ये पूर्वं तेषामर्चा वृथा भवेत्

॥५१॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने दूतसंवादो नाम एकोनविंशोऽध्यायः ॥ १९ ॥