मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय १

3
शतरुद्रसंहिता · 1

पञ्चब्रह्मावतारवर्णनम्

श्रीगणेशाय नमः

अथ तृतीया शतरुद्रसंहिता प्रारभ्यते

वन्दे महानन्दमनन्तलीलम्महेश्वरं सर्व्वविभुम्महान्तम् ।

गौरीप्रियं कार्तिकविघ्नराजसमुद्भवं शंकरमादिदेवम्

॥१॥

शौनक उवाच

व्यासशिष्यमहाभाग सूत ज्ञानदयानिधे ।

वद शंभ्ववतारांश्च यैरकार्षीत्सतां शिवम्

॥१॥

सूत उवाच

मुने शौनक सद्भक्त्या दत्तचित्तो जितेन्द्रियः ।

अवताराञ्छिवस्याहं वच्मि ते मुनये शृणु

॥२॥

एतत्पृष्टः पुरा नन्दी शिवमूर्तिस्सतां गतिः ।

सनत्कुमारेण मुने तमुवाच शिवं स्मरन्

॥३॥

नन्दीश्वर उवाच

असंख्याता हि कल्पेषु विभोः सर्व्वेश्वरस्य वै ।

अवतारास्तथापीह वच्म्यहं तान्यथामति

॥४॥

एकोनविंशकः कल्पो विज्ञेयः श्वेत लोहितः ।

सद्योजातावतारस्तु प्रथमः परिकीर्तितः

॥५॥

तस्मिंस्तत्परमं ब्रह्म ध्यायतो ब्रह्मणस्तथा ।

उत्पन्नस्तु शिखायुक्तः कुमारः श्वेतलोहितः

॥६॥

तं दृष्ट्वा पुरुषं ब्रह्मा ब्रह्मरूपिणमीश्वरम् ।

ज्ञात्वा ध्यात्वा स हृदये ववन्दे प्रयताञ्जलिः

॥७॥

सद्योजातं शिवं बुद्ध्वा जहर्ष भुवनेश्वरः ।

मुहुर्मुहुश्च सद्बुद्ध्या परं तं समचिन्तयत्

॥८॥

ततोऽस्य ध्यायतः श्वेताः प्रादुर्भूता यशस्विनः ।

कुमाराः परविज्ञानपरब्रह्मस्वरूपिणः

॥९॥

सुनन्दो नन्दनश्चैव विश्वनन्दोपनन्दनौ ।

शिष्यास्तस्य महात्मानो यैस्तद्ब्रह्म समावृतम्

॥१०॥

सद्योजातश्च वै शम्भुर्ददौ ज्ञानं च वेधसे ।

सर्गशक्तिमपि प्रीत्या प्रसन्नः परमेश्वरः

॥११॥

(इति सद्योजाताव तारः१) ततो विंशतिमः कल्पो रक्तो नाम प्रकीर्तितः ।

ब्रह्मा यत्र महातेजा रक्तवर्णमधारयत्

॥१२॥

ध्यायतः पुत्रकामस्य प्रादुर्भू तो विधेस्सुतः ।

रक्तमाल्याम्बरधरो रक्ताक्षो रक्तभूषणः

॥१३॥

स तं दृष्ट्वा महात्मानं कुमारं ध्यानमाश्रितः ।

वामदेवं शिवं ज्ञात्वा प्रणनाम कृतांजलिः

॥१४॥

ततस्तस्य सुता ह्यासंश्चत्वारो रक्तवाससः ।

विरजाश्च विवाहश्च विशोको विश्वभावनः

॥१५॥

वामदेवः स वै शम्भुर्ददौ ज्ञानं च वेधसे ।

सर्गशक्तिमपि प्रीत्या प्रसन्नः परमेश्वरः

॥१६॥

(इति वामदेवावतारः २) एकविंशतिमः कल्पः पीतवासा इति स्मृतः ।

ब्रह्मा यत्र महाभागः पीतवासा बभूव ह

॥१७॥

ध्यायतः पुत्रकामस्य विधेर्जातः कुमारकः ।

पीतवस्त्रादिक प्रौढो महातेजा महाभुजः

॥१८॥

तं दृष्ट्वा ध्यानसंयुक्तं ज्ञात्वा तत्पुरुषं शिवम् ।

प्रणनाम ततो बुद्ध्या गायत्रीं शांकरीं विधिः

॥१९॥

जपित्वा तु महादेवीं सर्वलोकनमस्कृताम् ।

प्रसन्नस्तु महादेवो ध्यानयुक्तेन चेतसा

॥२०॥

ततोऽस्य पार्श्वतो दिव्याः प्रादुर्भूताः कुमारकाः ।

पीतवस्त्रा हि सकला योगमार्गप्रवर्तकाः

॥२१॥

(इतितत्पुरुषावतारः ३) ततस्तस्मिन्गते कल्पे पीतवर्णे स्वयंभुवः।

पुनरन्यः प्रवृत्तस्तु कल्पो नाम्ना शिवस्तु स

॥२२॥

एकार्णवे संव्यतीते दिव्यवर्षसहस्रके ।

स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः

॥२३॥

ततोऽपश्यन्महातेजा प्रादुर्भूतं कुमारकम् ।

कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा

॥२४॥

धृतकृष्णाम्बरोष्णीषं कृष्णयज्ञोपवीतिनम् ।

कृष्णेन मौलिनायुक्तं कृष्णस्नानानुलेपनम्

॥२५॥

स तं दृष्ट्वा महात्मानमघोरं घोरविक्रमम् ।

ववन्दे देवदेवेशमद्भुतं कृष्णपिंगलम्

॥२६॥

अघोरं तु ततो ब्रह्मा ब्रह्मरूपं व्यचिंतयत् ।

तुष्टाव वाग्भिरिष्टाभिर्भक्तवत्सलमव्ययम्

॥२७॥

अथास्य पार्श्वतः कृष्णाः कृष्णस्नानानुलेपनाः ।

चत्वारस्तु महात्मानः संबभूवुः कुमारकाः

॥२८॥

कृष्ण कृष्णशिखश्चैव कृष्णा स्यः कृष्णकण्ठधृक् ।

इति तेऽव्यक्तनामानः शिवरूपाः सुतेजसः

॥२९॥

एवंभूता महात्मानो ब्रह्मणः सृष्टिहेतवे ।

योगं प्रवर्त्तया मासुर्घोराख्यं महदद्भुतम्

॥३०॥

(इत्यघोरावतारश्चतुर्थः ४) अथान्यो ब्रह्मणः कल्पः प्रावर्त्तत मुनीश्वराः ।

विश्वरूप इति ख्यातो नामतः परमाद्भुतः

॥३१॥

ब्रह्मणः पुत्रकामस्य ध्यायतो मनसा शिवम् ।

प्रादुर्भूता महानादा विश्वरूपा सरस्वती

॥३२॥

तथाविधः स भगवानीशानः परमेश्वरः ।

शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः

॥३३॥

तं दृष्ट्वा प्रणनामासौ ब्रह्मेशानमजं विभुम् ।

सर्वगं सर्वदं सर्वं सुरूपं रूपवर्जितम्

॥३४॥

ईशानोऽपि तथादिश्य सन्मार्गं ब्रह्मणे विभुः ।

सशक्तिः कल्पयांचक्रे स बालांश्चतुरः शुभान्

॥३५॥

जटीमुण्डी शिखण्डी च अर्द्धमुण्डश्च जज्ञिरे ।

योगेनादिश्य सद्धर्मं कृत्वा योगगतिं गताः

॥३६॥

( इतीशानावतारः पञ्चमः ५) एवं संक्षेपतः प्रोक्तः सद्यादीनां समुद्भवः ।

सनत्कुमार सर्वज्ञ लोकानां हितकाम्यया

॥३७॥

अथ तेषां महाप्राज्ञ व्यवहारं यथायथम् ।

त्रिलोकहितकारं हि सर्वं ब्रह्माण्डसंस्थितम्

॥३८॥

ईशानः पुरुषो घोरो वामसंज्ञस्तथैव च ।

ब्रह्मसंज्ञो महेशस्य मूर्तयः पंच विश्रुताः

॥३९॥

ईशानः शिवरूपश्च गरीयान्प्रथमः स्मृतः ।

भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति

॥४०॥

शैवस्तत्पुरुषाख्यश्च स्वरूपो हि द्वितीयकः ।

गुणाश्रयात्मकं भोग्यं सर्वज्ञमधितिष्ठति

॥४१॥

धर्माय स्वांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ।

अघोराख्यस्वरूपो यस्तिष्ठत्यंतस्तृतीयकः

॥४२॥

वामदेवाह्वयो रूपश्चतुर्थः शङ्करस्य हि ।

अहंकृतेरधिष्ठानो बहुकार्यकरः सदा

॥४३॥

ईशानाह्वस्वरूपो हि शंकरस्येश्वरः सदा ।

श्रोत्रस्य वचसश्चापि विभोर्व्योम्नस्तथैव च

॥४४॥

त्वक्पाणिस्पर्शवायूनामीश्वरं रूपमैश्वरम् ।

पुरुषाख्यं विचारज्ञा मतिमन्तः प्रचक्षते

॥४५॥

वपुषश्च रसस्यापि रूपस्याग्नेस्तथैव च ।

अघोराख्यमधिष्ठानं रूपमाहुर्मनीषिणः

॥४६॥

रशनायाश्च पायोश्च रसस्यापां तथैव च ।

ईश्वरं वामदेवाख्यं स्वरूपं शांकरं स्मृतम्

॥४७॥

प्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ।

सद्योजाताह्वयं रूपमीश्वरं शांकरं विदुः

॥४८॥

इमे स्वरूपाः शंभोर्हि वन्दनीयाः प्रयत्नतः ।

श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः

॥४९॥

यः पठेच्छृणुयाद्वापि सद्यादीनां समुद्भवम् ।

स भुक्त्वा सकलान्कामान्प्रयाति परमां गतिम्

॥५०॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवस्य पञ्चब्रह्मावतारवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥