मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय २५

3
शतरुद्रसंहिता · 25

पिप्पलादावतारचरितवर्णनम्

नन्दीश्वर उवाच

अथ लोके व्यवस्थाय धर्मस्य स्थापनेच्छया ।

महालीलां चकारेशस्तामहो सन्मुने शृणु

॥१॥

एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ।

ददर्श पद्मां युवतीं शिवांशां सुमनोहराम्

॥२॥

तल्लिप्सुस्तत्पितुः स्थानमनरण्यस्य भूपतेः ।

जगाम भुवनाचारी लोकतत्त्वविचक्षणः

॥३॥

राजा नराणां तं दृष्ट्वा प्रणम्य च भयाकुलः ।

मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः

॥४॥

स्नेहात्सर्वं गृहीत्वा स ययाचे कन्यकां मुनिः ।

मौनी बभूव नृपतिः किंचिन्निर्वक्तुमक्षमः

॥५॥

मुनिः प्रोवाच नृपतिं कन्यां मे देहि भक्तितः ।

अन्यथा भस्मसात्सर्वं करिष्येहं त्वया सह

॥६॥

अथो बभूवुराच्छन्नाः सर्वे राजजनास्तदा ।

तेजसा पिप्पलादस्य दाधीचस्य महामुने

॥७॥

अथ राजा महाभीतो विलप्य च मुहुर्मुहुः ।

कन्यामलंकृताम्पद्मां वृद्धाय मुनये ददौ

॥८॥

पद्मां विवाह्य स मुनिश्शिवांशाम्भूपतेः सुताम् ।

पिप्पलादो गृहीत्वा तां मुदितः स्वाश्रमं ययौ

॥९॥

तत्र गत्वा मुनिवरो वयसा जर्जरोधिकः ।

उवाच नार्या स तया तपस्वीनातिलम्पटः

॥१०॥

अथोऽनरण्यकन्या सा सिषेवे भक्तितो मुनिम् ।

कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा

॥११॥

इत्थं स पिप्पलादो हि शिवांशो मुनिसत्तमः ।

रेमे तया युवत्या च युवाभूय स्वलीलया

॥१२॥

दश पुत्रा महात्मानो बभूवुस्सुतपस्विनः ।

मुनेः पितुस्समाः सर्वे पद्मायाः सुखवर्द्धनाः

॥१३॥

एवं लीलावतारो हि शंकरस्य महाप्रभोः ।

पिप्पलादो मुनिवरो नानालीलाकरः प्रभुः

॥१४॥

येन दत्तो वरः प्रीत्या लोकेभ्यो हि दयालुना ।

दृष्ट्वा लोके शनेः पीडां सर्वेषामनिवारिणीम्

॥१५॥

षोडशाब्दावधि नृणां जन्मतो न भवेच्च सा ।

तथा च शिवभक्तानां सत्यमेतद्धि मे वचः

॥१६॥

अथानादृत्य मद्वाक्यं कुर्यात्पीडां शनिः क्वचित् ।

तेषां नृणां तदा स स्याद्भस्मसान्न हि संशयः

॥१७॥

इति तद्भयतस्तात विकृतोपि शनैश्चरः ।

तेषां न कुरुते पीडां कदाचिद्ग्रहसत्तमः

॥१८॥

इति लीलामनुष्यस्य पिप्पलादस्य सन्मुने ।

कथितं सुचरित्रन्ते सर्वकामफलप्रदम्

॥१९॥

गाधिश्च कौशिकश्चैव पिप्पलादो महामुनिः ।

शनैश्चरकृतां पीडां नाशयन्ति स्मृतास्त्रयः

॥२०॥

पिप्पलादस्य चरितं पद्माचरितसंयुतम् ।

यः पठेच्छृणुयाद्वापि सुभक्त्या भुवि मानवः

॥२१॥

शनिपीडाविनाशार्थमेतच्चरितमुत्तमम् ।

यः पठेच्छणुयाद्वापि सर्वान्कामानवाप्नुयात्

॥२२॥

धन्यो मुनिवरो ज्ञानी महाशैवः सताम्प्रियः ।

अस्य पुत्रो महेशानः पिप्पलादाख्य आत्मवान्

॥२३॥

इदमाख्यानमनघं स्वर्ग्यं कुग्रहपोषहृत् ।

सर्वकामप्रदन्तात शिवभक्तिविवर्द्धनम्

॥२४॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारचरितवर्णनं नाम पंचविंशोऽध्यायः ॥ २५ ॥