मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय २३

3
शतरुद्रसंहिता · 23

वृषेश्वरसंज्ञकशिवावतारवर्णनम्

नन्दीश्वर उवाच

ततो वृषभरूपेण गर्जमानः पिनाकधृक् ।

प्रविष्टो विवरं तत्र निनदन्भैरवान्रवान्

॥१॥

निपेस्तुतस्य निनदैः पुराणि नगराणि च ।

प्रकम्पो हि बभूवाथ सर्वेषां पुरवासिनाम्

॥२॥

ततो वृषो हरेः पुत्रान्संग्रामोद्यतकार्मुकान् ।

शिवमायाविमूढात्ममहाबलपराक्रमान्

॥३॥

हरिपुत्रास्ततस्तेऽथ प्राकुप्यन्मुनिसत्तम ।

प्रदुद्रुवुः प्रगर्ज्योच्चैर्वीराश्शंकरसन्मुखम्

॥४॥

आयातांस्तान्हरेः पुत्रान्रुद्रो वृषभरूपधृक् ।

प्राकुप्यद्विष्णुपुत्रांश्च खुरैश्शृंगैर्व्यदारयत्

॥५॥

विदारितांगा रुद्रेण सर्वे हरिसुताश्च ते ।

नष्टा द्रुतं सन्बभूवुर्गतप्राणा विचेतसः

॥६॥

हतेषु तेषु पुत्रेषु विष्णुर्बलवतां वरः ।

निष्क्रम्याथ प्रणम्योच्चैर्ययौ शीघ्रं हरान्तिकम्

॥७॥

दृष्ट्वा रुद्रं प्रव्रजंतं हतविष्णुसुतं वृषम् ।

शरैस्सन्ताडयामास दिव्यैरस्त्रैश्च केशवः

॥८॥

ततः क्रुद्धो महादेवो वृषरूपी मदाबलः ।

अस्त्राणि तानि विष्णोश्च जग्रास गिरिगोचरः

॥९॥

अथ कृत्वा महाकोपं वृषात्मा स महेश्वरः ।

विननाद महाघोरं कम्पयंस्त्रिजगन्मुने

॥१०॥

तत विष्णोश्च तरसा खुरैश्शृंगैर्व्यदारयत् ।

विष्णुं क्रोधाकुलं मूढमजानन्तं निजं हरिम्

॥११॥

ततस्स शिथिलात्मा हि व्यथितांगो बभूव ह ।

तत्प्रहारमसह्याशु हरिर्मायाविमोहितः

॥१२॥

गतगर्वोहरिश्चैव विचेता गतचेतनः ।

ज्ञातवान्परमेशानं विहरन्तं वृषात्मना

॥१३॥

अथ विज्ञाय गौरीशमागतं वृषरूपतः ।

प्राह गम्भीरया वाचा नतस्कन्धः कृताञ्जलिः

॥१४॥

हरिरुवाच

देवदेव महादेव करुणासागर प्रभो ।

मायया ते महेशान मोहितोहं विमूढधीः

॥१५॥

कृतं युद्धं त्वयेशेन स्वनाथेन मया प्रभो ।

कृपां कृत्वा मयि स्वामिन्सोऽपराधो हि सह्यताम्

॥१६॥

नन्दीश्वर उवाच

तस्य तद्वचनं श्रुत्वा हरेर्दीनतया मुने ।

भगवाञ्छंकरः प्राह रमेशं भक्तवत्सलः

॥१७॥

हे विष्णो हे महाबुद्धे कथं मां ज्ञातवान्न हि ।

युद्धं कृतं कृतस्तेऽद्य ज्ञानं सर्व्वं च विस्मृतम्

॥१८॥

आत्मानं किन्न जानासि मदधीनपराक्रमम् ।

त्वया नात्र रतिः कार्या निवर्तस्व कुचारतः

॥१९॥

कामाधीनं कथं ज्ञानं स्त्रीषु सक्तो विहारकृत् ।

नोचितन्तव देवेश स्मरणं विश्वतारणम्

॥२०॥

तच्छुत्वा शम्भुवचनं विज्ञानप्रदमादरात् ।

व्रीड्यन्स्वमनसा विष्णुः प्राह वाचं महेश्वरम्

॥२१॥

विष्णुरुवाच

ममात्र विद्यते चक्रं तद्गृहीत्वे तदादरात् ।

गमिष्यामि स्वलोकन्तन्त्वदाज्ञापरिपालकः

॥२२॥

नन्दीश्वर उवाच

तदाकर्ण्य महेशानो वचनं वैष्णवं हरः ।

प्रत्युवाच वृषात्मा हि वृषरक्षः पुनर्हरिम्

॥२३॥

न विलम्बः प्रकर्त्तव्यो गन्तव्यमित आशु ते ।

मच्छासनाद्धरे लोके चक्रमत्रैव तिष्ठताम्

॥२४॥

सन्तानादित्यसंस्थानाच्छिवत्ववचनादपि ।

अहं घोरतरं तस्माच्चक्रमन्यद्ददामि ते

॥२५॥

नन्दीश्वर उवाच

एतदुक्त्वा हरोऽलेखीद्दिव्यं कालानलप्रभम् ।

परं चक्रं प्रदीप्तं हि सर्वदुष्टविनाशनम्

॥२६॥

विष्णवे प्रददौ चक्रं घोरार्कायुतसुप्रभम् ।

सर्वामरमुनीन्द्राणां रक्षकाय महात्मने

॥२७॥

लब्ध्वा सुदर्शनं चान्यञ्चक्रं परमदीप्तिमित् ।

उवाच विबुधांस्तत्र विष्णुर्बुद्धिमतां वरः

॥२८॥

सर्वदेववरा यूयं मद्वाक्यं शृणुतादरात् ।

कर्तव्यन्तत्तथा शीघ्रं ततश्शं वो भविष्यति

॥२९॥

दिव्या वरांगनास्सन्ति पाताले यौवनान्विताः ।

ताभिः सार्द्धं महाक्रीडां यः करोतु करोतु सः

॥३०॥

तच्छुत्वा केशवाद्वाक्यं शूरास्त्रिदशयोनयः ।

प्रवेष्टुकामाः पातालम्बभूवुर्विष्णुना सह

॥३१॥

विचारमथ विज्ञाय तन्तदा भगवान्हर ।

क्रोधाच्छापन्ददौ घोरं देवयोन्यष्टकस्य च

॥३२॥

हर उवाच

वर्जयित्वा मुनिं शान्तं दानवान्वा मदंशजम् ।

इदं यः प्रविशेत्स्थानं तस्य स्यान्निधनं क्षणात्

॥३३॥

श्रुत्वा वाक्यमिदं घोरं मनुष्यहितवर्धनम् ।

प्रत्याख्यातास्तु रुद्रेण देवास्स्वगृहमा ययुः

॥३४॥

एवं स्त्रीलः परो विष्णुश्शिवेन प्रतिशासितः ।

स्वर्लोकमगमद्व्यास स्वास्थ्यं प्राप जगच्च तत्

॥३५॥

वृषेश्वरोऽपि भगवाच्छंकरो भक्तवत्सलः ।

इत्थं कृत्वा देवकार्यं जगाम स्वगिरीश्वरम्

॥३६॥

वृषेश्वरावतारस्तु वर्णितश्शंकरस्य च ।

विष्णुमोहहरश्शर्वस्त्रैलोक्यसुखकारकः

॥३७॥

पवित्रमिदमाख्यानं शत्रुबाधाहरम्परम् ।

स्वर्ग्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम्

॥३८॥

य इदं शृणुयाद्भक्त्या श्रावयेद्वै समाहितः ।

स भुक्त्वा सकलान्कामानन्ते मोक्ष मवाप्नुयात् ।

तथा पठिति यो हीदं पाठयेत्सुधियो नरान्

॥३९॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसहितायां वृषेश्वरसंज्ञकशिवावतारवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥