मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय ३३

3
शतरुद्रसंहिता · 33

ब्रह्मचारिशिवावतारवर्णनम्

नन्दीश्वर उवाच

सनत्कुमार सुप्रीत्या शिवस्य परमात्मनः ।

अवतारं शृणु विभोर्जटिलाह्वं सुपावनम्

॥१॥

पुरा सती दक्षकन्या त्यक्त्वा देहं पितुर्मखे ।

स्वपित्राऽनादृता जज्ञे मेनायां हिमभूधरात्

॥२॥

सा गत्वा गहनेऽरण्ये तेपे सुवि मलं तपः ।

शंकरम्पतिमिच्छन्ती सखीभ्यां संयुता शिवा ।

तत्तपःसुपरीक्षार्थं सप्तर्षीन्प्रैषयच्छिवः ।

तपःस्थानं तु पार्वत्या नानालीलाविशारदः

॥४॥

ते गत्वा तत्र मुनयः परीक्षां चक्रुरादरात् ।

तस्याः सुयत्नतो नैव समर्था ह्यभवंश्च ते

॥५॥

तत्रागत्य शिवं नत्वा वृत्तान्तं च निवेद्य तत् ।

तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात्

॥६॥

गतेषु मुनिषु स्वस्थानं शंकरः स्वयम् ।

परीक्षितुं शिवावृत्तमैच्छत्सूतिकरः प्रभुः

॥७॥

सुप्रसन्नस्तपस्वीच्छाशमनादयमीश्वरः ।

ब्रह्मचर्य्यस्वरूपोऽभूत्तदाद्भुततरः प्रभुः ।

अतीव स्थविरो विप्रदेहधारी स्वतेजसा ।

प्रज्वलन्मनसा हृष्टो दण्डी छत्री महोज्जलः

॥९॥

धृत्वैवं जटिलं रूपं जगाम गिरिजावनम् ।

अतिप्रीतियुतः शम्भुश्शङ्करो भक्तवत्सलः

॥१०॥

तत्रापश्यस्त्थितान्देवीं सखीभिः परिवारिताम् ।

वेदिकोपरि शुद्धान्तां शिवामिव विधोः कलाम्

॥११॥

शंभुर्निरीक्ष्य तान्देवीं ब्रह्मचारिस्वरूपवान् ।

उपकण्ठं ययौ प्रीत्या चोत्सुकी भक्तवत्सलः

॥१२॥

आगतं सा तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् ।

अंगेषु लोमशं शान्तं दण्डचर्मसमन्वितम्

॥१३॥

ब्रह्मचर्य्यधरं वृद्धं जटिलं सकमण्डलुम् ।

अपूजयत्परप्रीत्या सर्वपूजोपहारकैः

॥१४॥

ततस्ता पार्वतीदेवी पूजितं परया मुदा ।

कुशलं पर्यपृच्छत्तं ब्रह्मचारिणमादरात्

॥१५॥

ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः ।

इद्ं वनं भासयसि वद वेदविदां वर

॥१६॥

नन्दीश्वर उवाच

इति पृष्टस्तु पार्वत्या ब्रह्मचारी स वै द्विजः ।

प्रत्युवाच द्रुतम्प्रीत्या शिवाभावपरीक्षया

॥१७॥

ब्रह्मचार्य्युवाच

अहमिच्छाभिगामी च ब्रह्मचारी द्विजोस्मि वै ।

तपस्वी सुखदोऽन्येषामुपकारी न संशयः

॥१८॥

नन्दीश्वर उवाच

इत्युक्त्वा ब्रह्मचारी स शंकरो भक्तवत्सलः ।

तस्थिवानुपकण्ठं स गोपायन्रूपमात्मनः

॥१९॥

ब्रह्मचार्य्युवाच

किम्ब्रवीमि महादेवि कथनीयन्न विद्यते ।

महानर्थकरं वृत्तं दृश्यते विकृतं महत्

॥२०॥

नवे वयसि सद्भोगसाधने सुखकारणे ।

महोपचारसद्भोगैर्वृथैव त्वं तपस्यसि

॥२१॥

का त्वं कस्यासि तनया किमर्थं विजने वने ।

तपश्चरसि दुर्धर्षं मुनिभिः प्रयतात्मभिः

॥२२॥

नन्दीश्वर उवाच

इति तद्वचनं श्रुत्वा प्रहस्य परमेश्वरी ।

उवाच वचनं प्रीत्या ब्रह्मचारिणमुत्तमम्

॥२३॥

पार्वत्युवाच

शृणु विप्र ब्रह्मचारिन्मदवृत्तमखिलं मुने ।

जन्म मे भारते वर्षे साम्प्रतं हिमवद्गृहे

॥२४॥

पूर्वं दक्षगृहे जन्म सती शङ्करकामिनी ।

योगेन त्यक्तदेहाहं तातेन पतिनिन्दिना

॥२५॥

अत्र जन्मनि संप्राप्य सुपुण्येन शिवो द्विज ।

मां त्यक्त्वा भस्मसात्कृत्वा मन्मथं स जगाम ह

॥२६॥

प्रयाते शङ्करे तापाद्व्रीडिताहं पितुर्गृहात् ।

आगच्छमत्र तपसे गुरुवाक्येन संयता

॥२७॥

मनसा वचसा साक्षात्कर्मणा पतिभावतः ।

सत्यम्ब्रवीमि नोऽसत्यं संवृतः शङ्करो मया

॥२८॥

जानामि दुर्लभं वस्तु कथम्प्राप्यं मया भवेत् ।

तथापि मनसौत्सुक्यात्तप्यते मे तपोऽधुना

॥२९॥

हित्वेन्द्रप्रमुखान्देवान्विष्णुम्ब्रह्माणमप्यहम् ।

पतिम्पिनाकपाणिं वै प्राप्तुमिच्छामि सत्यतः

॥३०॥

नन्दीश्वर उवाच

इत्येवं वचनं श्रुत्वा पार्वत्या हि सुनिश्चितम् ।

मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत्

॥३१॥

जटिल उवाच

हिमाचलसुते देवि का बुद्धिः स्वीकृता त्वया ।

रुद्रार्थं विबुधान्हित्वा करोषि विपुलन्तपः

॥३२॥

जानाम्यहं च तं रुद्रं शृणु त्वम्प्रवदामि ते ।

वृषध्वजस्स रुद्रो हि विकृतात्मा जटाधरः

॥३३॥

एकाकी च सदा नित्यं विरागी च विशेषतः ।

तस्मात्त्वं तेन रुद्रेण मनो योक्तुं न चार्हसि

॥३४॥

सर्वं विरुद्धं रूपादि तव देवि हरस्य च।

मह्यं न रोचते ह्येतद्यदीच्छसि तथा कुरु

॥३५॥

नन्दीश्वर उवाच

इत्युक्त्वा च पुना रुद्रो ब्रह्मचारिस्वरूपवान् ।

निनिन्द बहुधात्मानं तदग्रे तां परीक्षितुम्

॥३६॥

तच्छ्रुत्वा पार्वती देवी विप्रवाक्यं दुरासदम् ।

प्रत्युवाच महाक्रुद्धा शिवनिन्दापरं च तम्

॥३७॥

एतावद्धि मया ज्ञातं कश्चिद्धन्यो भविष्यति ।

परन्तु सकलं ज्ञातमवध्यो दृश्यतेऽधुना

॥३८॥

ब्रह्मचारिस्वरूपेण कश्चित्त्वं धूर्त आगतः ।

शिवनिन्दा कृता मूढ त्वया मन्युरभून्मम

॥३९॥

शिवं त्वं च न जानासि शिवात्त्वं हि बहिर्मुखः ।

त्वत्पूजा च कृता यन्मे तस्मात्तापयुताऽभवम्

॥४०॥

शिवनिन्दां करोतीह तत्त्वमज्ञाय यः पुमान् ।

आजन्मसंचितं पुण्यं तस्य भस्मीभवत्युत

॥४१॥

शिवविद्वेषिणं स्पृष्ट्वा प्रायश्चित्तं समाचरेत्

॥४२॥

रे रे दुष्ट त्वया प्रोक्तमहं जानामि शंकरम् ।

निश्चयेन न विज्ञातः शिव एव परः प्रभुः

॥४३॥

यथा तथा भवेद्रुद्रो मायया बहुरूपवान् ।

ममाभीष्टप्रदोऽत्यन्तं निर्विकारः सताम्प्रियः

॥४४॥

नन्दीश्वर उवाच

इत्युक्त्वा तं शिवा देवी शिवतत्त्वं जगाद सा ।

यत्र ब्रह्मतया रुद्रः कथ्यते निर्गुणोऽव्ययः

॥४५॥

तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः ।

पुनर्वचनमादातुं यावदेव प्रचक्रमे

॥४६॥

प्रोवाच गिरिजा तावत्स्वसखीं विजयान्द्रुतम् ।

शिवासक्तमनोवृत्तिः शिवनिन्दापराङ्मुखी

॥४७॥

गिरिजोवाच

वारणीयः प्रयत्नेन सख्ययं हि द्विजाधमः ।

पुनर्वक्तुमनाश्चायं शिवनिन्दां करिष्यति

॥४८॥

न केवलं भवेत्पापं निन्दाकर्तुः शिवस्य हि ।

यो वै शृणोति तन्निन्दां पापभाक्स भवेदिह

॥४९॥

शिवनिन्दाकरो वध्यस्सर्वथा शिवकिंकरैः ।

ब्राह्मणश्चेत्स वै त्याज्यो गन्तव्यं तत्स्थलाद्द्रुतम्

॥५०॥

अयन्दुष्टः पुनर्निंदां करिष्यति शिवस्य हि ।

ब्राह्मणत्वादवध्यश्च त्याज्योऽदृश्यश्च सर्वथा

॥५१॥

स्थलमेतद्द्रुतं हित्वा यास्यामोऽन्यत्र मा चिरम् ।

यथा संभाषणं न स्यादनेनाविदुषा पुनः

॥५२॥

नन्दीश्वर उवाच

इत्युक्त्वा चोमया यावत्पदमुत्क्षिप्यते मुने ।

असौ तावच्छिवः साक्षादाललम्बे पटं स्वयम्

॥५३॥

कृत्वा स्वरूपं दिव्यं च शिवाध्यानं यथा तथा ।

दर्शयित्वा शिवायै तामुवाचावाङ्मुखी शिवः

॥५४॥

शिव उवाच

कुत्र त्वं यासि मां हित्वा न त्वन्त्याज्या मया शिवे ।

मया परीक्षितासि त्वं दृढभक्तासि मेऽनघे

॥५५॥

ब्रह्मचारिस्वरूपेण भावमिच्छुस्त्वदीयकम् ।

तवोपकण्ठमागत्य प्रावोचं विविधं वचः

॥५६॥

प्रसन्नोस्मि दृढं भक्त्या शिवे तव विशेषतः ।

चित्तेप्सितं वरं ब्रूहि नादेयं विद्यते तव

॥५७॥

अद्यप्रभृति ते दासस्तपोभिः प्रेमनिर्भरे ।

कृतोऽस्मि तव सौन्दर्य्यात्क्षण एको युगायते

॥५८॥

त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी ।

एहि प्रिये त्वया साकं द्रुतं यामि स्वकं गिरिम्

॥५९॥

इत्युक्तवति देवेशे शिवाति मुदमाप सा ।

तपोदुःखन्तु यत्सर्वं तज्जहौ द्रुतमेव हि ।

ततः प्रहृष्टा सा दृष्ट्वा दिव्यरूपं शिवस्य तत् ।

प्रत्युवाच प्रभुं प्रीत्या लज्जयाधो मुखी शिवा

॥६१॥

शिवोवाच

यदि प्रसन्नो देवेश करोषि च कृपां मयि ।

पतिर्मे भव देवेश इत्युक्तश्शिवया शिवः

॥६२॥

गृहीत्वा विधिवत्पाणिं कैलासं स तया ययौ ।

पतिं तं गिरिजा प्राप्य देवकार्यं चकार सा

॥६३॥

इति प्रोक्तस्तु ते तात ब्रह्मचारि स्वरूपकः ।

शिवावतारो हि मया शिवाभावपरीक्षकः

॥६४॥

इदमाख्यानमनघं परमं व्याहृतं मया ।

य एतच्छृणुयात्प्रीत्या सुखी गतिमाप्नुयात्

॥६५॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां ब्रह्मचारिशिवावतारवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥

इति चतुरशीतिरवताराः ( ८४)