ऋषभचरित्रवर्णनम्
नन्दीश्वर उवाच
सनत्कुमार सर्वज्ञ चरितं शांकरं मुदा ।
रुद्रेण कथितं प्रीत्या ब्रह्मणे सुखदं सदा
॥१॥शिव उवाच
सप्तमे चैव वाराहे कल्पे मन्वन्तराभिधे ।
कल्पेश्वरोऽथ भगवान्सर्वं लोकप्रकाशनः
॥२॥मर्नोर्वैवस्वतस्यैव ते प्रपुत्रो भविष्यति ।
तदा चतुर्युगाश्चैव तस्मिन्मन्वन्तरे विधे
॥३॥अनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च ।
उत्पश्यामि विधे ब्रह्मन्द्वापराख्ययुगान्तिके
॥४॥युगप्रवृत्त्या च तदा तस्मिंश्च प्रथमे युगे ।
द्वापरे प्रथमे ब्रह्मन्यदा व्यासः स्वयंप्रभुः
॥५॥तदाहं ब्राह्मणार्थाय कलौ तस्मिन्युगान्तिके ।
भविष्यामि शिवायुक्तः श्वेतो नाम महामुनिः
॥६॥हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे ।
तदा शिष्याः शिखायुक्ता भविष्यन्ति विधे मम
॥७॥श्वेतः श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ।
चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम
॥८॥ततो भक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम् ।
जन्ममृत्युजराहीनाः परब्रह्मसमाधयः
॥९॥द्रष्टुं शक्यो नरैर्नाहमृते ध्यानात्पितामह ।
दानधर्मादिभिर्वत्स साधनैः कर्महेतुभिः
॥१०॥द्वितीये द्वापरे व्यासः सत्यो नाम प्रजापतिः ।
यदा तदा भविष्यामि सुतारो नामतः कलौ
॥११॥तत्रापि मे भविष्यन्ति शिष्या वेदविदो द्विजाः ।
दुन्दुभिः शतरूपश्च हृषीकः केतुमांस्तथा
॥१२॥चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम ।
ततो मुक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम्
॥१३॥तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः ।
तदाप्यहं भविष्यामि दमनस्तु पुरान्तिके
॥१४॥तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः ।
विशोकश्च विशेषश्च विपापः पापनाशनः
॥१५॥शिष्यैः साहाय्यं व्यासस्य करिष्ये चतुरानन ।
निवृत्तिमार्गं सुदृढं वर्त्तयिष्ये कलाविह
॥१६॥चतुर्थे द्वापरे चैव यदा व्यासोंऽगिराः स्मृतः ।
तदाप्यहं भविष्यामि सुहोत्रो नाम नामतः
॥१७॥तत्रापि मम ते पुत्राश्चत्वारो योगसाधकाः ।
भविष्यंति महात्मानस्तन्नामानि ब्रुवे विधे
॥१८॥सुमुखो दुर्मुखश्चैव दुदर्भो दुरतिक्रमः ।
शिष्यैः साहाय्यं व्यासस्य करिष्येऽहं तदा विधे
॥१९॥पञ्चमे द्वापरे चैव व्यासस्तु सविता स्मृतः ।
तदा योगी भविष्यामि कंको नाम महातपाः
॥२०॥तत्रापि मम ते पुत्राश्चत्वारो योगसाधकाः ।
भविष्यन्ति महात्मानस्तन्नामानि शृणुष्व मे
॥२१॥सनकः सनातनश्चैव प्रभुर्यश्च सनन्दनः ।
विभुः सनत्कुमारश्च निर्मलो निरहंकृतिः
॥२२॥तत्रापि कंकनामाहं साहाय्यं सवितुर्विधे ।
व्यासस्य हि करिष्यामि निवृत्तिपथवर्द्धकः
॥२३॥परिवर्ते पुनः षष्ठे द्वापरे लोककारकः ।
कर्ता वेदविभागस्य मृत्युर्व्यासो भविष्यति
॥२४॥तदाऽप्यहं भविष्यामि लोकाक्षिर्नाम नामतः ।
व्यासस्य सुसाहा य्यार्थं निवृत्तिपथवर्द्धनः
॥२५॥तत्रापि शिष्याश्चत्वारो भविष्यन्ति दृढव्रताः ।
सुधामा विरजाश्चैव संजयो विजयस्तथा
॥२६॥सप्तमे परिवर्ते तु यदा व्यासः शतक्रतुः ।
तदाप्यहं भविष्यामि जैगीषव्यो विभुर्विधे
॥२७॥योगं संद्रढयिष्यामि महायोगविचक्षणः ।
काश्यां गुहान्तरे संस्थो दिव्यदेशे कुशास्तरिः
॥२८॥साहाय्यं च करिष्यामि व्यासस्य हि शतक्रतोः ।
उद्धरिष्यामि भक्तांश्च संसारभयतो विधे
॥२९॥तत्रापि मम चत्वारो भविष्यन्ति सुता युगे ।
सारस्वतश्च योगीशो मेघवाहः सुवाहनः
॥३०॥अष्टमे परिवर्ते हि वसिष्ठो मुनिसत्तमः ।
कर्त्ता वेदविभागस्य वेदव्यासो भविष्यति
॥३१॥तत्राप्यहं भविष्यामि नामतो दधिवाहनः ।
व्यासस्य हि करिष्यामि साहाय्यं योगवित्तम
॥३२॥कपिलश्चासुरिः पञ्चशिखः शाल्वलपूर्वकः ।
चत्वारो योगिनः पुत्रा भविष्यन्ति समा मम
॥३३॥नवमे परिवर्ते तु तस्मिन्नेव युगे विधे ।
भविष्यति मुनिश्रेष्ठो व्यासः सारस्वताह्वयः
॥३४॥व्यासस्य ध्यायतस्तस्य निवृत्तिपथवृद्धये ।
तदाप्यहं भविष्यामि ऋषभो नामतः स्मृतः
॥३५॥पराशरश्च गर्गश्च भार्गवो गिरिशस्तथा ।
चत्वारस्तत्र शिष्या मे भविष्यन्ति सुयोगिनः
॥३६॥तैः साकं द्रढयिष्यामि योगमार्गं प्रजापते ।
करिष्यामि साहाय्यं वै वेदव्यासस्य सन्मुने
॥३७॥तेन रूपेण भक्तानां बहूनां दुःखिनां विधे ।
उद्धारं भवतोऽहं वै करिष्यामि दयाकरः
॥३८॥सोऽवतारो विधे मे हि ऋषभाख्यस्सुयोगकृत् ।
सारस्वतव्यासमनः कर्त्ता नानोतिकारकः
॥३९॥अवतारेण मे येन भद्रायुर्नृपबालकः ।
जीवितो हि मृतः क्ष्वेडदोषतो जनकोज्झितः
॥४०॥प्राप्तेऽथ षोडशे वर्षे तस्य राजशिशोः पुनः ।
ययौ तद्वेश्म सहसा ऋषभः स मदात्मकः
॥४१॥पूजितस्तेन स मुनिः सद्रूपश्च कृपानिधिः ।
उपादिदेश तद्धर्मान्राज्ययोगान्प्रजापते
॥४२॥ततः स कवचं दिव्यं शंखं खङ्गं च भास्वरम् ।
ददौ तस्मै प्रसन्नात्मा सर्वशत्रुविनाशनम्
॥४३॥तदङ्ग भस्मनामृश्य कृपया दीनवत्सलः ।
स द्वादशसहस्रस्य गजानां च बलं ददौ
॥४४॥इति भद्रायुषं सम्यगनुश्वास्य समातृकम् ।
ययौ स्वैरगतस्तस्यां पूजितस्त्वृषभः प्रभुः
॥४५॥भद्रायुरपि राजर्षिर्जित्वा रिपुगणान्विधे ।
राज्यं चकार धर्मेण विवाह्य कीर्त्तिमालिनीम्
॥४६॥इत्थं प्रभावं ऋषभोऽवतारः शङ्करस्य मे ।
सतां गतिर्दीनबन्धुर्नवमः कथितस्तव
॥४७॥ऋषभस्य चरित्रं हि परमं पावनं महत् ।
स्वर्ग्यं यशस्यमायुष्यं श्रोतव्यं च प्रयत्नतः
॥४८॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायामृषभचरित्रवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥