पिप्पलादावतारवर्णनम्
नन्दीश्वर उवाच
पिप्पलादाख्यपरममवतारं महेशितुः ।
शृणु प्राज्ञ महाप्रीत्या भक्तिवर्धनमुत्तमम्
॥१॥यः पुरा गदितो विप्रो दधीचिर्मुनिसत्तमः ।
महाशैवस्सुप्रतापी च्यावनिर्भृगुवंशजः
॥२॥क्षुवेण सह संग्रामे येन विष्णुः पराजितः ।
सनिर्जरोऽथ संशप्तो महेश्वरसहायिना
॥३॥तस्य पत्नी महाभागा सुवर्चा नामनामतः ।
महापतिव्रता साध्वी यया शप्ता दिवौकसः
॥४॥तस्मात्तस्यां महादेवो नानालीलाविशारदः ।
प्रादुर्बभूव तेजस्वी पिप्पलादेति नामतः
॥५॥सूत उवाच
इत्याकर्ण्य मुनिश्रेष्ठो नन्दीश्वरवचोऽद्भुतम् ।
सनत्कुमारः प्रोवाच नतस्कन्धः कृताञ्जलिः
॥६॥सनत्कुमार उवाच
नन्दीश्वर महाप्राज्ञ साक्षाद्रुद्रस्वरूपधृक् ।
धन्यस्त्वं सद्गुरुस्तात श्रावितेयं कथाद्भुता
॥७॥क्षुवेण सह संग्रामे श्रुतो विष्णुपुरा जयः ।
ब्रह्मणा मे पुरा तात तच्छापश्च शिलादज
॥८॥अधुना श्रोतुमिच्छामि देवशापं सुवर्चया ।
दत्तं पश्चात्पिप्पलादचरितं मङ्गलायनम्
॥९॥सूत उवाच
इति श्रुत्वाथ शैलादिर्विधिपुत्रवचश्शुभम् ।
प्रत्युवाच प्रसन्नात्मा स्मृत्वा शिवपदाम्बुजम्
॥१०॥नन्दीश्वर उवाच
एकदा निर्जरास्सर्वे वासवाद्या मुनीश्वर ।
वृत्रासुरसहायैश्च दैत्यैरासन्पराजिताः
॥११॥स्वानि स्वानि वरास्त्रा णि दधीचस्याश्रमेऽखिलाः ।
निक्षिप्य सहसा सद्योऽभवन्देवाः पराजिताः
॥१२॥तदा सर्वे सुरास्सेन्द्रा वध्यमानास्तथर्षयः ।
ब्रह्मलोकगताश्शीघ्रं प्रोचुः स्वं व्यसनं च तत्
॥१३॥तच्छ्रुत्वा देववचनं ब्रह्मा लोकपितामहः ।
सर्वं शशंस तत्त्वेन त्वष्टुश्चैव चिकीर्षितम्
॥१४॥भवद्वधार्थं जनितस्त्वष्ट्रायं तपसा सुराः ।
वृत्रो नाम महातेजाः सर्वदैत्याधिपो महान्
॥१५॥अथ प्रयत्नः क्रियतां भवेदस्य वधो यथा ।
तत्रोपायं शृणु प्राज्ञ धर्महेतोर्वदामि ते
॥१६॥महामुनिर्दधीचिर्यस्स तपस्वी जितेन्द्रियः ।
लेभे शिवं समाराध्य वज्रास्थित्ववरम्पुरा
॥१७॥तस्यास्थीन्येव याचध्वं स दास्यति न संशय ।
निर्माय तैर्दण्डवज्रं वृत्रं जहि न संशयः
॥१८॥नन्दीश्वर उवाच
तच्छ्रुत्वा ब्रह्मवचनं शक्रो गुरुसमन्वितः ।
आगच्छत्सामरः सद्यो दधीच्याश्रममुत्तमम्
॥१९॥दृष्ट्वा तत्र मुनिं शक्रः सुवर्चान्वितमादरात् ।
ननाम साञ्जलिर्नम्रः सगुरुः सामरश्च तम्
॥२०॥तदभिप्रायमाज्ञाय स मुनिर्बुधसत्तमः ।
स्वपत्नीं प्रेषयामास सुवर्चां स्वाश्रमान्तरम्
॥२१॥ततस्स देवराजश्च सामरः स्वार्थसाधकः ।
अर्थशास्त्रपरो भूत्वा मुनीशं वाक्यमब्रवीत्
॥२२॥शक्र उवाच
त्वष्ट्रा विप्रकृताः सर्वे वयन्देवास्तथर्षयः ।
शरण्यं त्वां महाशैवं दातारं शरणं गताः
॥२३॥स्वास्थीनि देहि नो विप्र महावज्रमयानि हि ।
अस्थ्ना ते स्वपविं कृत्वा हनिष्यामि सुरद्रुहम्
॥२४॥इत्युक्तस्तेन स मुनिः परोपकरणे रतः ।
ध्यात्वा शिवं स्वनाथं हि विससर्ज कलेवरम्
॥२५॥ब्रह्मलोकं गतस्सद्यस्स मुनिर्ध्वस्तबन्धनः ।
पुष्पवृष्टिरभूत्तत्र सर्वे विस्मयमागताः
॥२६॥अथ गां सुरभिं शक्र आहूयाशु ह्यलेहयत् ।
अस्त्रनिर्मितये त्वाष्ट्रं निदि देश तदस्थिभिः
॥२७॥विश्वकर्मा तदाज्ञप्तश्चक्लृपेऽस्त्राणि कृत्स्नशः ।
तदस्थिभिर्वज्रमयस्सुदृढैश्शिववर्चसा
॥२८॥वंशोद्भवं वज्रं शरो ब्रह्मशिरस्तथा ।
अन्यास्थिभिर्बहूनि स्वपराण्यस्त्राणि निर्ममे
॥२९॥तमिन्द्रो वज्रमुद्यम्य वर्द्धितः शिववर्चसा ।
वृत्रमभ्यद्रवत्क्रुद्धो मुने रुद्र इवान्तकम्
॥३०॥ततः शक्रस्सुसन्नद्धस्तेन वज्रेण स द्रुतम् ।
उच्चकर्त शिरो वार्त्रं गिरिशृंगमिवौजसा
॥३१॥तदा समुत्सवस्तात बभूव त्रिदिवौकसाम् ।
तुष्टुवुर्निर्जराश्शक्रम्पेतुः कुसुमवृष्टयः
॥३२॥इति ते कथितन्तात प्रसंगाच्चरि तन्त्विदम् ।
पिप्पलादावतारम्भे शृणु शम्भोर्महादरात्
॥३३॥सुवर्चा सा मुनेः पत्नी दधीचस्य महात्मनः ।
ययौ स्वमाश्रमाभ्यन्तस्तदाज्ञप्ता पतिव्रता
॥३४॥आगत्य तत्र सा दृष्ट्वा न पतिं स्वन्तपस्विनी ।
गृहकार्यं च सा कृत्वाखिलम्पतिनिदेशतः
॥३५॥आजगाम पुनस्तत्र पश्यन्ती बह्वशोभनम् ।
देवांश्च तान्मुनिश्रेष्ठ सुवर्चा विस्मिताभवत्
॥३६॥ज्ञात्वा च तत्सर्वमिदं सुराणां कृत्यं तदानीञ्च चुकोप साध्वी ।
ददौ तदा शापमतीव रुष्टा तेषां सुवर्चा ऋषिवर्यभार्या
॥३७॥सुवर्चोवाच
अहो सुरा द्रुष्टतराश्च सर्वे स्वकार्यदक्षा ह्यबुधाश्च लुब्धाः ।
तस्माच्च सर्वे पशवो भवन्तु सेन्द्राश्च मेऽद्यप्रभृतीत्युवाच
॥३८॥एवं शापन्ददौ तेषां सुराणां सः तपस्विनी ।
सशक्राणां च सर्वेषां सुवर्चा मुनिकामिनी
॥३९॥अनुगन्तुम्पतेर्लोकमथेच्छत्सा पतिव्रता ।
चितां चक्र समेधोभिः सुपवित्रैर्मनस्विनी
॥४०॥ततो नभोगिरा प्राह सुवर्चान्ताम्मुनिप्रियाम् ।
आश्वासयन्ती गिरिशप्रेरिता सुखदायिनी
॥४१॥आकाशवाण्युवाच
साहसं न कुरु प्राज्ञे शृणु मे परमं वचः ।
मुनितेजस्त्वदुदरे तदुत्पादय यत्नतः
॥४२॥ततः स्वाभीष्टचरणन्देवि कर्तुन्त्वमर्हसि ।
सगर्भा न दहेद्गात्रमिति ब्रह्मनिदेशनम्
॥४३॥नन्दीश्वर उवाच
इत्युक्त्वा सा नभोवाणी विरराम मुनीश्वर ।
तां श्रुत्वा सा मुनेः पत्नी विस्मिताभूत्क्षणं च सा
॥४४॥सुवर्चा सा महासाध्वी पतिलोकमभीप्सती ।
उपविश्याश्मना भूयः सोदरं विददार ह
॥४५॥निर्गतो जठरात्तस्या गर्भो मुनिवरस्य सः ।
महादिव्यतनुर्दीप्तो भासयंश्च दिशोदश
॥४६॥साक्षाद्रुद्रावतारोऽसौ दधीच वरतेजसः ।
प्रादुर्भूतस्स्वयन्तात स्वलीलाकरणे क्षमः ।
तन्दृष्ट्वा स्वसुतन्दिव्यं स्वरूपम्मुनिकामिनी ।
सुवर्चाज्ञाय मनसा साक्षाद्रुद्रावतारकम्
॥४८॥प्रहृष्टाभून्महासाध्वी प्रणम्याशु नुनाव सा ।
स्वहृदि स्थापयामास तत्स्वरूपम्मुनीश्वर
॥४९॥सुवर्चा तनयं तं च प्रहस्य विमलेक्षणा ।
जननी प्राह सुप्रीत्या पतिलोकमभीप्सती
॥५०॥सुवर्चोवाच
हे तात परमेशान चिरन्तिष्ठास्य सन्निधौ ।
अश्वत्थस्य महाभाग सर्वेषां सुखदो भवेः
॥५१॥मामाज्ञापय सुप्रीत्या पतिलोकाय चाधुना ।
तत्रस्थाहं च पतिना त्वां ध्याये रुद्ररूपिणम्
॥५२॥नन्दीश्वर उवाच
इत्येवं सा बभाषेऽथ सुवर्चा तनयम्प्रति ।
पतिमन्वगमत्साध्वी परमेण समाधिना
॥५३॥एवन्दधीचपत्नी सा पतिना संगता मुने ।
शिवलोकं समासाद्य सिषेवे शङ्करम्मुदा
॥५४॥एतस्मिन्नन्तरे देवास्सेन्द्राश्च मुनिभिस्सह ।
तत्राजग्मुस्त्वरा तात आहूता इव हर्षिताः
॥५५॥हरिर्ब्रह्मा च सुप्रीत्यावतीर्णं शंकरं भुवि ।
सुवर्चायां दधीचाद्वा ययतुस्स्वगणैस्सह
॥५६॥तत्र दृष्ट्वावतीर्णन्तं मुनिपुत्रत्वमागतम् ।
रुद्रं सर्वे प्रणेमुश्च तुष्टुवुर्बद्धपाणयः
॥५७॥तदोत्सवो महानासीद्देवानां मुनिसत्तम ।
नेदुर्दुन्दुभयस्तत्र नर्तक्यो ननृतुर्मुदा
॥५८॥जगुर्गन्धर्वपुत्राश्च किन्नरा वाद्यवादकाः ।
वादयामासुरमराः पुष्प वृष्टिं च चक्रिरे
॥५९॥पिप्पलस्य शर्वपितुर्विलसन्तं सुतं च तम् ।
संस्कृत्य विधिवत्सर्वे विष्ण्वाद्यास्तुष्टुवुः पुनः ।
पिप्पलादेति तन्नाम चक्रे ब्रह्मा प्रसन्नधीः ।
प्रसन्नो भव देवेश इत्यूचे हरिणा सुरैः
॥६१॥इत्युक्त्वा तमनुज्ञाय ब्रह्मा विष्णुस्सुरास्तथा ।
स्वंस्वं धाम ययुस्सर्वे विधाय च महोत्सवम्
॥६२॥अथ रुद्रः पिप्पलादोऽश्वत्थमूले महाप्रभुः ।
तताप सुचिरं कालं लोकानां हितकाम्यया
॥६३॥इत्थं सुतपतस्तस्य पिप्पलादस्य सम्मुखे ।
महाकालो व्यतीयाय लोकचर्यानुसारिणः
॥६४॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारवर्णनं नाम चतुर्विशोऽध्यायः ॥ २४ ॥