शिवावतारवर्णनम्
नन्दीश्वर उवाच
शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ।
द्विजेश्वरावतारं च सशिवं सुखदं सताम्
॥१॥यः पूर्वं वर्णितस्तात भद्रायुर्नृपसत्तमः ।
यस्मिन्नृषभरूपेणानुग्रहं कृतवाञ्छिवः
॥२॥तद्धर्मस्य परीक्षार्थं पुनराविर्बभूव सः ।
द्विजेश्वरस्वरूपेण तदेव कथयाम्यहम्
॥३॥ऋषभस्य प्रभावेण शत्रूञ्जित्वा रणे प्रभुः ।
प्राप्तसिंहासनस्तात भद्रायुः संबभूव ह
॥४॥चन्द्रांगदस्य तनया सीमन्तिन्याः शुभांगजा ।
पत्नी तस्याभवद्ब्रह्मन्सुसाध्वी कीर्तिमालिनी
॥५॥स भद्रायुः कदाचित्स्वप्रियया गहनं वनम् ।
प्राविशत्संविहारार्थं वसन्तसमये मुने
॥६॥अथ तस्मिन्वने रम्ये विजहार स भूपतिः ।
शरणागतपालिन्या तमास्यप्रियया सह
॥७॥अथ तद्धर्मदृढतां प्रतीक्षन्परमेश्वरः ।
लीलां चकार तत्रैव शिवया सह शङ्करः
॥८॥शिवा शिवश्च भूत्वोभौ तद्वने द्विजदम्पती ।
व्याघ्रं मायामयं कृत्वाविर्भूतौ निजलीलया
॥९॥अथाविदूरे तस्यैव द्रवन्तौ भयविह्वलौ ।
अन्वीयमानौ व्याघ्रेण रुदन्तौ तौ बभूवतुः
॥१०॥अथ विद्धौ च तौ तात भद्रायुः स महीपतिः ।
ददर्श क्रन्दमानौ हि शरण्यः क्षत्रियर्षभः
॥११॥अथ तौ मुनिशार्दूलः स्वमायाद्विजदम्पती ।
भद्रायुषं महाराजमूचतुर्भयविह्वलौ
॥१२॥द्विजदम्पती ऊचतुः
पाहि पाहि महाराज नावुभौ धर्मवित्तम ।
एष आयाति शार्दूलो जग्धुमावां महाप्रभो
॥१३॥एष हिंस्रः कालसमः सर्वप्राणिभयङ्करः ।
यावन्न खादति प्राप्य तावन्नौ रक्ष धर्मवित्
॥१४॥नन्दीश्वर उवाच
इत्थमाक्रन्दितं श्रुत्वा तयोश्च नृपतीश्वरः ।
अति शीघ्रं महावीरः स यावद्धनुराददे
॥१५॥तावदभ्येत्य शार्दूलस्त्वरमाणोतिमायिकः ।
स तस्य द्विजवर्य्यस्य मध्ये जग्राह तां वधूम्
॥१६॥हे नाथनाथ हे कान्त हा शम्भो हा जगद्गुरो ।
इति रोरूयमाणां तां व्याघ्रो जग्रास भीषणः
॥१७॥तावत्स राजा निशितैर्भल्लैर्व्याघ्रमताडयत् ।
न स तैर्विव्यथे किंचिद्गिरीन्द्र इव वृष्टिभिः
॥१८॥स शार्दूलो महासत्त्वो राज्ञः स्वैरकृतव्यथः ।
बलादाकृष्य तां नारीमपाक्रमत सत्वरः
॥१९॥व्याघ्रेणापहृतां नारीं वीक्ष्य विप्रोतिविस्मितः ।
लौकिकीं गतिमाश्रित्य रुरोदाति मुहुर्मुहुः
॥२०॥रुदित्वा चिरकालं च स विप्रो माययेश्वरः ।
भद्रायुषं महीपालं प्रोवाच मदहारकः
॥२१॥द्विजेश्वर उवाच
राजन्क ते महास्त्राणि क्व ते त्राणं महद्धनुः ।
क्व ते द्वादशसाहस्रमहानागायुतम्बलम्
॥२२॥किन्ते खड्गेन शङ्खेन किं ते मंत्रास्त्रविद्यया ।
किं सत्त्वेन महास्त्राणां किं प्रभावेण भूयसा
॥२३॥तत्सर्वं विफलं जातं यच्चान्यत्त्वयि तिष्ठति ।
यस्त्वं वनौकसां घातं न निवारयितुं क्षमः
॥२४॥क्षत्रस्यायं परो धर्मो क्षताच्च परिरक्षणम् ।
तस्मिन्कुलोचिते धर्मे नष्टे त्वज्जीवितेन किम्
॥२५॥आर्तानां शरणाप्तानां त्राणं कुर्वन्ति पार्थिवाः ।
प्राणैरर्थैश्च धर्मज्ञास्तद्विना च मृतोपमा
॥२६॥आर्तत्राणविहीनानां जीवितान्मरणं वरम् ।
धनिनान्पानहीनानां गार्हस्थ्याद्भिक्षुता वरम्
॥२७॥वरं विषाशनं प्राज्ञैर्वरमग्निप्रवेशनम् ।
कृपणानामनाथानां दीनानामपरक्षणात्
॥२८॥नन्दीश्वर उवाच
इत्थं विलपितं तस्य स्ववीर्य्यस्य च गर्हणम् ।
निशम्य नृपतिः शोकादात्मन्येवमचिन्तयत्
॥२९॥अहो मे पौरुषं नष्टमद्य देवविपर्ययात् ।
अद्य कीर्तिश्च मे नष्टा पातकम्प्राप्तमुत्कटम्
॥३०॥धर्मः कुलोचितो नष्टो मन्दभाग्यस्य दुर्मतेः ।
नूनं मे सम्पदो राज्यमायुष्यं क्षयमेष्यति
॥३१॥अद्य चैनं द्विजन्मानं हतदारं शुचार्दितम् ।
हतशोकं करिष्यामि दत्त्वा प्राणानतिप्रियान्
॥३२॥इति निश्चित्य मनसा स भद्रायुर्नृपोत्तमः ।
पतित्वा पादयोस्तस्य बभाषे परिसान्त्वयन्
॥३३॥भद्रायुरुवाच
कृपां कृत्वा मयि ब्रह्मन् क्षत्रबन्धौ हतौजसि ।
शोकन्त्यज महाप्राज्ञ दास्याम्यद्य तु वाञ्छितम्
॥३४॥इदं राज्यमियं राज्ञी ममेदञ्च कलेवरम् ।
त्वदधीनमिदं सर्वं किन्तेऽभिलषितं वरम्
॥३५॥ब्राह्मण उवाच
किमादर्शेन चान्धस्य किं गृहेर्भैक्ष्यजीविनः ।
किम्पुस्तकेन मूढस्य निस्त्रीकस्य धनेन किम्
॥३६॥अतोऽहं हतपत्नीको भुक्तभोगो न कर्हिचित् ।
इमान्तवाग्रमहिषीं कामये दीयतामिति
॥३७॥भ० उ० ।
दाता रसान्तवित्तस्य राज्यस्य गजवाजिनाम् ।
आत्मदेहस्य यस्यापि कलत्रस्य न कर्हिचित्
॥३८॥परदारोपभोगेन यत्पापं समुपार्जितम् ।
न तत्क्षालयितुं शक्यं प्रायश्चित्तशतैरपि
॥३९॥ब्राह्मण उवाच
आस्तां ब्रह्मवधं घोरमपि मद्यनिषेवणम् ।
तपसा विधमिष्यामि किं पुनः पारदारिकम्
॥४०॥तस्मात्प्रयच्छ भार्यां स्वामियां कामो न मेऽपरः ।
अरक्षणाद्भयार्तानां गन्तासि निरयन्ध्रुवम्
॥४१॥नन्दीश्वर उवाच
इति विप्रगिरा भीतश्चिन्तयामास पार्थिवः ।
अरक्षणान्महापापं पत्नीदानन्ततो वरम्
॥४२॥अतः पत्नीं द्विजाग्र्याय दत्त्वा निर्मुक्तकिल्विषः ।
सद्यो वह्निं प्रवेक्ष्यामि कीर्तिश्च विदिता भवेत्
॥४३॥इति निश्चित्य मनसा समुज्ज्वाल्य हुताशनम् ।
तमाहूय द्विजं चक्रे पत्नीदानं सहोदकम्
॥४४॥स्वयं स्नातः शुचिर्भूत्वा प्रणम्य विबुधेश्वरान् ।
तमग्निं त्रिः परिक्रम्य शिवं दध्यौ समाहितः
॥४५॥तमथाग्निं पतिष्यन्तं स्वपदासक्तचेतसम् ।
प्रत्यषेधत विश्वेशः प्रादुर्भूतो द्विजेश्वरः
॥४६॥तमीश्वरं पञ्चमुखं त्रिनेत्रं पिनाकिनं चन्द्रकलावतंसम् ।
प्रलम्बपिंगासुजटाकलापं मध्याह्नसद्भास्करकोटितेजसम्
॥४७॥मृणालगौरं गजचर्मवाससं गंगातरङ्गोक्षितमौलिदेशकम् ।
नागेन्द्रहारावलिकण्ठभूषणं किरीटकाच्यंगदकंकणोज्ज्वलम्
॥४८॥शूलासिखट्वांगकुठारचर्ममृगाभयाष्टांगपिनाकहस्तम् ।
वृषोपरिस्थं शितिकण्ठभूषणं प्रोद्भूतमग्रे स नृपो ददर्श
॥४९॥ततोम्बराद्द्रुतं पेतुर्द्दिव्याः कुसुमवृष्टयः ।
प्रणेदुर्देवतूर्य्याणि देव्यश्च ननृतुर्जगुः
॥५०॥तत्राजग्मुः स्तूयमाना हरिर्ब्रह्मा तथासुराः ।
इन्द्रादयो नारदाद्या मुनयश्चापरेऽपि च
॥५१॥तदोत्सवो महानासीत्तत्र भक्तिप्रवर्धनः ।
सति पश्यति भूपाले भक्तिनम्रीकृताञ्जलौ
॥५२॥तद्दर्शनानन्दविजृम्भिताशयः प्रवृद्धवाष्पाम्बुविलिप्तगात्रः ।
प्रहृष्टरोमा स हि गद्गदाक्षरस्तुष्टाव गीर्भिर्मुकुलीकृतांजलिः
॥५३॥ततस्स भगवान्राज्ञा संस्तुतः परमेश्वरः ।
प्रसन्नः सह पार्वत्या तमुवाच दयानिधिः
॥५४॥राजंस्ते परितुष्टोहं भक्त्या त्वद्धर्मतोऽधिकम् ।
वरं ब्रूहि सपत्नीकम्प्रयच्छामि न संशयः
॥५५॥तव भावपरीक्षार्थं द्विजो भूत्वाहमागतः ।
व्याघ्रेण या परिग्रस्ता साक्षाद्देवी शिवा हि सा
॥५६॥व्याघ्रो मायामयो यस्ते शरैरक्षत विग्रहः ।
धीरतान्द्रष्टुकामस्ते पत्नी याचितवानहम्
॥५७॥नन्दीश्वर उवाच
इत्याकर्ण्य प्रभोर्वाक्यं स भद्रायुर्महीपतिः ।
पुन प्रणम्य संस्तूय स्वामिनं नतकोऽब्रवीत्
॥५८॥भद्रायुरुवाच
एक एव वरो नाथ यद्भवान्परमेश्वरः ।
भवतापप्रतप्तस्य मम प्रत्यक्षतां गतः
॥५९॥यद्ददासि पुनर्नाथ वरं स्वकृपया प्रभो ।
वृणेहं परमं त्यक्तो वरं हि वरदर्षभात्
॥६०॥वज्रबाहुः पिता मे हि सप त्नीको महेश्वर ।
सपत्नीकस्त्वहं नाथ सदा त्वत्पादसेवकः
॥६१॥वैश्यः पद्माकरो नाम तत्पुत्रस्सनयाभिधः ।
सर्वानेतान्महेशान सदा त्वं पार्श्वगान्कुरु
॥६२॥नन्दीश्वर उवाच
अथ राज्ञी च तत्पत्नी प्रमत्ता कीर्तिमालिनी ।
भक्त्या प्रसाद्य गिरिशं ययाचे वरमुत्तमम्
॥६३॥सत्युवाच
चन्द्रांगदो मम पिता माता सीमन्तिनी च मे ।
तयोर्याचे महादेव त्वत्पाश्वे सन्निधिं मुदा
॥६४॥नन्दीश्वर उवाच
एवमस्त्विति गौरीशः प्रसन्नो भक्तवत्सलः ।
तयोः कामवरन्दत्त्वा क्षणादन्तर्हितोऽभवत्
॥६५॥भद्रायुरपि सुप्रीत्या प्रसादम्प्राप्य शूलिनः ।
सहितः कीर्तिमालिन्या बुभुजे विषयान्बहून्
॥६६॥कृत्वा वर्षायुतराज्यमव्याहतपराक्रमः ।
राज्यं विक्षिप्य तनये जगाम शिवसन्निधिम्
॥६७॥चन्द्रांगदोपि राजेन्द्रो राज्ञी सीमन्तिनी च सा ।
भक्त्या संपूज्य गिरिशं जग्मतुः शाम्भवं पदम्
॥६८॥द्विजेश्वरावतारस्ते वर्णितः परमो मया ।
महेश्वरस्य भद्रायुपरमानन्ददः प्रभो
॥६९॥इदं चरित्रं परमं पवित्रं शिवावतारस्य पवित्रकीर्त्तेः ।
द्विजेशसंज्ञस्य महाद्भुतं हि शृण्वन्पठञ्शम्भुपदम्प्रयाति
॥७०॥य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ।
न श्चोतति स्वधर्मात्स परत्र लभते गतिम्
॥७१॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां द्विजेशनाम शिवावतारवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥
( ७७)