मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय १५

3
शतरुद्रसंहिता · 15

गृहपत्यवतारवर्णनम्

नन्दीश्वर उवाच

विश्वानरस्सपत्नीकस्तच्छ्रुत्वा नारदेरितम् ।

तदेवम्मन्यमानोभूद्वज्रपातं सुदारुणम्

॥१॥

हा हतोस्मीति वचसा हृदयं समताडयत् ।

मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः

॥२॥

शुचिष्मत्यपि दुःखार्त्ता रुरोदातीव दुस्सहम् ।

अतिस्वरेण हारावैरत्यन्तं व्याकुलेन्द्रिया

॥३॥

श्रुत्वार्त्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किंत्विति किं किमेतत् ।

उच्चैर्वदन् गृहपतिः क्व स मे बहिस्थः प्राणोन्तरात्मनिलयस्सकलेंद्रियेशः

॥४॥

ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ।

स्मित्वोवाच गृहपस्सबालश्शंकरांशजः

॥५॥

गृहपतिरुवाच

हे मातस्तात किं जातं कारणन्तद्वदाधुना ।

किमर्थं रुदितोऽत्यर्थं त्रासस्तादृक्कुतो हि वाम्

॥६॥

न मां कृतवपुस्त्राणम्भवच्चरणरेणुभिः ।

कालः कलयितुं शक्तो वराकीं चिञ्चलाल्पिका

॥७॥

प्रतिज्ञां शृणुतान्तातौ यदि वान्तनयो ह्यहम् ।

करिष्येहं तथा येन मृत्युस्त्रस्तो भविष्यति

॥८॥

मृत्युंजयं समाराध्य गर्वज्ञं सर्वदं सताम् ।

जपिष्यामि महाकालं सत्यं तातौ वदाम्यहम्

॥९॥

नन्दीश्वर उवाच

इति श्रुत्वा वचस्तस्य जारितौ द्विजदम्पती ।

अकालमृतवर्षौघैर्गततापौ तदोचतुः

॥१०॥

द्विजदम्पती ऊचतुः

पुनर्ब्रूहि पुनर्ब्रूहि कीदृक्कीदृक् पुनर्वद ।

कालः कलयितुन्नालं वराकी चञ्चलास्ति का

॥११॥

आवयोस्तापनाशाय महोपायस्त्वयेरितः ।

मृत्युंजयाख्यदेवस्य समाराधनलक्षणः

॥१२॥

तद्वच्च शरणं शम्भोर्नातः परतरं हि तत् ।

मनोरथपथातीत कारिणः पापहारिणः

॥१३॥

किन्न श्रुतन्त्वया तात श्वेतकेतुं यथा पुरा ।

पाशितं कालपाशेन ररक्ष त्रिपुरान्तकः

॥१४॥

शिलादतनयं मृत्युग्रस्तमष्टाब्दमात्रकम् ।

शिवो निजजनञ्चक्रे नन्दिनं विश्वनंदिनम्

॥१५॥

क्षीरोदमथनोद्भूतं प्रलयानलसन्निभम् ।

पीत्वा हलाहलं घोरमरक्षद्भुवनत्रयम्

॥१६॥

जलंधरं महादर्पं हृतत्रैलोक्यसम्पदम् ।

रुचिरांगुष्ठरेखोत्थ चक्रेण निजघान यः

॥१७॥

य एकेषु निपातोत्थज्वलनैस्त्रिपुरम्पुरा ।

त्रैलोक्यैश्वर्यसम्मूढं शोषयामास भानुना

॥१८॥

कामं दृष्टिनिपातेन त्रैलोक्यविजयोर्जितम् ।

निनायानंगपदवीं वीक्ष्यमाणेष्वजादिषु

॥१९॥

तम्ब्रह्माद्यैककर्तारम्मेघवाहनमच्युतम् ।

प्रयाहि पुत्र शरणं विश्वरक्षामणिं शिवम्

॥२०॥

नन्दीश्वर उवाच

पित्रोरनुज्ञाम्प्राप्येति प्रणम्य चरणौ तयोः ।

प्रादक्षिण्यमुपावृत्य बह्वाश्वास्य विनिर्ययौ

॥२१॥

सम्प्राप्य काशीं दुष्प्रापाम्ब्रह्मनारायणादिभिः ।

महासंवर्त्तसन्तापहन्त्रीं विश्वेशपालिताम्

॥२२॥

स्वर्धुन्या हारयष्ट्येव राजिता कण्ठभूमिषु ।

विचित्रगुणशालिन्या हरपत्न्या विराजिताम्

॥२३॥

तत्र प्राप्य स विप्रेशः प्राग्ययौ मणिकर्णिकाम् ।

तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरम्प्रभुम्

॥२४॥

साञ्जलिर्नतशीर्षोऽसौ महानन्दान्वितस्सुधीः ।

त्रैलोक्यप्राणसन्त्राणकारिणम्प्रणनाम ह

॥२५॥

आलोक्यालोक्य तल्लिंगं तुतोष हृदये मुहुः ।

परमानंदकंदाढ्यं स्फुटमेतन्न संशयः

॥२६॥

अहो न मत्तो धन्योस्ति त्रैलोक्ये सचराचरे ।

यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम्

॥२७॥

मम भाग्योदयायैव नारदेन महर्षिणा ।

पुरागत्य तथोक्तं यत्कृतकृत्योस्म्यहन्ततः

॥२८॥

नन्दीश्वर उवाच

इत्यानन्दामृतरसैर्विधाय स हि पारणम् ।

ततश्शुभेह्नि संस्थाप्य लिंगं सर्व्वहितप्रदम्

॥२९॥

जग्राह नियमान्घोरान् दुष्करानकृतात्मभिः ।

अष्टोत्तरशतैः कुम्भैः पूर्णैर्गंगाम्भसा शुभैः

॥३०॥

संस्नाप्य वाससा पूतः पूतात्मा प्रत्यहं शिवम् ।

नीलोत्पलमयीम्मालां समर्पयति सोऽन्वहम्

॥३१॥

अष्टाधिकसहस्रैस्तु सुमनोभिर्विनिर्मिताम् ।

स पक्षे वाथ वा मासे कन्दमूलफलाशनः

॥३२॥

शीर्णपर्णाशनैर्धीरः षण्मासं सम्बभूव सः ।

षण्मासं वायुभक्षोऽभूत्षण्मासं जल बिन्दुभुक्

॥३३॥

एवं वर्षवयस्तस्य व्यतिक्रान्तं महात्मनः ।

शिवैकमनसो विप्रास्तप्यमानस्य नारद

॥३४॥

जन्मतो द्वादशे वर्षे तद्वचो नारदेरितम् ।

सत्यं करिष्यन्निव तमभ्यगात्कुलिशायुधः

॥३५॥

उवाच च वरं ब्रूहि दद्मि त्वन्मनसि स्थितम् ।

अहं शतक्रतुर्विप्र प्रसन्नोस्मि शुभव्रतैः

॥३६॥

नन्दीश्वर उवाच

इत्याकर्ण्य महेन्द्रस्य वाक्यम्मुनिकुमारकः ।

उवाच मधुरन्धीरः कीर्तयन्मधुराक्षरम्

॥३७॥

गृहपतिरुवाच

मघवन् वृत्रशत्रो त्वां जाने कुलिशपाणिनम् ।

नाहं वृणे वरन्त्वत्तश्शंकरो वरदोऽस्ति मे

॥३८॥

इन्द्र उवाच

न मत्तश्शङ्करस्त्वन्यो देवदेवोऽस्म्यहं शिशो ।

विहाय बालिशत्वं त्वं वरं याचस्व मा चिरम्

॥३९॥

गृहपतिरुवाच

गच्छाहल्यापतेऽसाधो गोत्रारे पाकशासन ।

न प्रार्थये पशुपतेरन्यं देवान्तरं स्फुटम्

॥४०॥

नन्दीश्वर उवाच

इति तस्य वचः श्रुत्वा क्रोध संरक्तलोचनः ।

उद्यम्य कुलिशं घोरम्भीषयामास बालकम्

॥४१॥

स दृष्ट्वा बालको वज्रं विद्युज्ज्वाला समाकुलम् ।

स्मरन्नारद वाक्यं च मुमूर्च्छ भयविह्वलः

॥४२॥

अथ गौरीपतिश्शम्भुराविरासीत्तपोनुदः ।

उत्तिष्ठोत्तिष्ठ भद्रन्ते स्पर्शैस्संजीवयन्निव

॥४३॥

उन्मील्य नेत्रकमले सुप्ते इव दिनक्षये ।

अपश्यदग्रे चोत्थाय शम्भुमर्कशताधिकम्

॥४४॥

भाले लोचनमालोक्य कण्ठे कालं वृषध्वजम् ।

वामाङ्गसन्निविष्टाद्रितनयं चन्द्रशेखरम्

॥४५॥

कपर्द्देन विराजन्तं त्रिशूलाजगवायुधम् ।

स्फुरत्कर्पूरगौरांगं परिणद्ध गजाजिनम्

॥४६॥

परिज्ञाय महादेवं गुरुवाक्यत आगमात् ।

हर्षबाष्पाकुलासन्नकण्ठरोमाञ्चकञ्चुकः

॥४७॥

क्षणं च गिरिवत्तस्थौ चित्रकूटत्रिपुत्रकः ।

यथा तथा सुसम्पन्नो विस्मृत्यात्मानमेव च

॥४८॥

न स्तोतुं न नमस्कर्तुं किञ्चिद्विज्ञप्तिमेव च ।

यदा स न शशाकालं तदा स्मित्वाह शङ्करः

॥४९॥

ईश्वर उवाच

शिशो गृहपते शक्राद्वज्रोद्यतकरादहो ।

ज्ञात भीतोऽसि मा भैषीर्जिज्ञासा ते मया कृता

॥५०॥

मम भक्तस्य नो शक्रो न वज्रं चान्तकोऽपि च ।

प्रभवेदिन्द्ररूपेण मयैव त्वम्विभीषितः

॥५१॥

वरन्ददामि ते भद्र त्वमग्निपदभाग्भव ।

सर्वेषामेव देवानां वरदस्त्वं भविष्यसि

॥५२॥

सर्वेषामेव भूतानां त्वमग्नेऽन्तश्चरो भव ।

धर्मराजेन्द्रयोर्मध्ये दिगीशो राज्यमाप्नुहि

॥५३॥

त्वयेदं स्थापितं लिंगं तव नाम्ना भविष्यति ।

अग्नीश्वर इति ख्यातं सर्वतेजोविबृंहणम्

॥५४॥

अग्नीश्वरस्य भक्तानां न भयं विद्युदग्निभिः ।

अग्निमांद्यभयं नैव नाकालमरणं क्वचित्

॥५५॥

अग्नीश्वरं समभ्यर्च्य काश्यां सर्वसमृद्धिदम् ।

अन्यत्रापि मृतो दैवाद्वह्निलोके महीयते

॥५६॥

नन्दीश्वर उवाच

इत्युक्तानीय तद्बन्धून्पित्रोश्च परिपश्यतोः ।

दिक्पतित्वेऽभिषिच्याग्निं तत्र लिंगे शिवोऽविशत्

॥५७॥

इत्थमग्न्यवतारस्ते वर्णितो मे जनार्दनः ।

नाम्ना गृहपतिस्तात शंकरस्य परात्मनः

॥५८॥

चित्रहोत्रपुरी रम्या सुखदार्चिष्मती वरा ।

जातवेदसि ये भक्ता ते तत्र निवसन्ति वै

॥५९॥

अग्निप्रवेशं ये कुर्य्युर्दृढसत्त्वा जितेन्द्रियाः ।

स्त्रियो वा सत्त्वसम्पन्नास्ते सर्व्वेप्यग्नितेजसः

॥६०॥

अग्निहोत्ररता विप्राः स्थापिता ब्रह्मचारिणः ।

पश्चानिवर्त्तिनोऽप्येवमग्निलोकेग्निवर्चसः

॥६१॥

शीते शीतापनुत्त्यै यस्त्वेधोभारान्प्रयच्छति ।

कुर्य्यादग्नीष्टिकां वाथ स वसेदग्निसन्निधौ

॥६२॥

अनाथस्याग्निसंस्कारं यः कुर्य्याच्छ्रद्धयान्वितः ।

अशक्तः प्रेरयेदन्यं सोग्निलोके महीयते

॥६३॥

अग्निरेको द्विजातीनां निश्श्रेयसकरः परः ।

गुरुर्देवो व्रतं तीर्थं सर्वमग्निर्विनिश्चितम्

॥६४॥

अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात् ।

पावनानि भवन्त्येव तस्माद्यः पावकः स्मृतः

॥६५॥

अन्तरात्मा ह्ययं साक्षान्निश्चयो ह्याशुशुक्षणिः ।

मांसग्रासान्पचेत्कुक्षौ स्त्रीणां नो मांसपेशिकाम्

॥६६॥

तैजसी शाम्भवी मूर्त्तिः प्रत्यक्षा दहनात्मिका ।

कर्त्री हर्त्री पालयित्री विनैतां किं विलोक्यते

॥६७॥

चित्रभानुरयं साक्षान्नेत्रन्त्रिभुवनेशितुः ।

अन्धे तमोमये लोके विनैनं कः प्रकाशनः

॥६८॥

धूपप्रदीपनैवेद्यपयोदधिघृतैक्षवम् ।

एतद्भुक्तं निषेवन्ते सर्वे दिवि दिवौकसः

॥६९॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥