एवमभ्यर्थितो देवैर्मतिं चक्रे कृपा लयः
नंदीश्वर उवाच
एवमभ्यर्थितो देवैर्मतिं चक्रे कृपा लयः ।
महातेजो नृसिंहाख्यं संहर्त्तुं परमेश्वरः
॥१॥तदूर्द्ध्वं स्मृतवान्रुद्रो वीरभद्रम्महाबलम् ।
आत्मनो भैरवं रूपं प्राह प्रलयकारकम्
॥२॥आजगाम ततस्सद्यो गणानामग्रणीर्हसन् ।
साट्टहासैर्गणवरैरुत्पतद्भिरितस्ततः
॥३॥नृसिंहरूपैरत्युग्रैः कोटिभिः परिवारितः ।
माद्यद्भिरभितो वीरैर्नृत्यद्भिश्च मुदान्वितैः
॥४॥क्रीडद्भिश्च महावीरैर्ब्रह्माद्यैः कन्दुकैरिव ।
अदृष्टपूर्वैरन्यैश्च वेष्टितो वीरवन्दितः
॥५॥कल्पान्तज्वलनज्वालो विलसल्लोचनत्रयः ।
अशस्त्रो हि जटाजूटी ज्वलद्बालेन्दुमण्डितः
॥६॥बालेन्दुवलया कारतीक्ष्णदंष्ट्रांकुरद्वयः ।
आखण्डलधनुःखण्डसंनिभभ्रूलतान्वितः
॥७॥महाप्रचण्डहुङ्कारबधिरीकृतदिङ्मुखः ।
नीलमेघाञ्जन श्यामो भीषणः श्मश्रुलोद्भुतः
॥८॥वाद्यखण्डमखण्डाभ्यां भ्रामयंस्त्रिशिखं मुहुः ।
वीरभद्रोऽपि भगवान्वरशक्तिविजृम्भितः
॥९॥स्वयं विज्ञापयामास किमत्र स्मृतिकारणम् ।
आज्ञापय जगत्स्वामिन् प्रसादः क्रियताम्मयि
॥१०॥नन्दीश्वर उवाच
इत्याकर्ण्य महेशानो वीरभद्रोक्तमादरात् ।
विलोक्य वचनम्प्रीत्या प्रोवाच खल दण्डधृक्
॥११॥शंकर उवाच
अकाले भयमुत्पन्नं देवानामपि भैरवम् ।
ज्वलितस्य नृसिंहाग्निश्शमयैनं दुरासदम्
॥१२॥सान्त्वयन्बोधयादौ तं तेन किन्नोपशाम्यति ।
ततो मत्परमं भावं भैरवं सम्प्रदर्शय
॥१३॥सूक्ष्मं संहृत्य सूक्ष्मेण स्थूलं स्थूलेन तेजसा ।
वक्त्रमानाय कृत्तिं च वीरभद्र ममाज्ञया
॥१४॥नन्दीश्वर उवाच
इत्यादिष्टो गणाध्यक्षो प्रशान्तं वपुरास्थितः ।
जगाम रंहसा तत्र यत्रास्ते नरकेसरी
॥१५॥ततस्तम्बोधयामास वीरभद्रो हरो हरिम् ।
उवाच वाक्यमीशानः पितापुत्रमिवौरसम्
॥१६॥वीरभद्र उवाच
जगत्सुखाय भगवन्नवतीर्णोसि माधव ।
स्थित्यर्थं त्वं प्रयुक्तोऽसि परेशः परमेष्ठिना
॥१७॥जन्तुचक्रं भगवता प्रच्छिन्नं मत्स्यरूपिणा ।
पुच्छेनैव समाबध्य भ्रमन्नेकार्णवे पुरा
॥१८॥बिभर्षि कर्मरूपेण वाराहेणोद्धृता मही ।
अनेन हरिरूपेण हिरण्यकशिपुर्हतः
॥१९॥वामनेन बलिर्बद्धस्त्वया विक्रमता पुनः ।
त्वमेव सर्व्वभूतानां प्रभवः प्रभुरव्ययः
॥२०॥यदायदा हि लोकस्य दुःखं किञ्चित्प्रजायते ।
तदातदावतीर्णस्त्वं करिष्यसि निरामयम्
॥२१॥नाधिकस्त्वत्समोऽप्यस्ति हरे शिवपरायणः ।
त्वया वेदाश्च धर्माश्च शुभमार्गे प्रतिष्ठिताः
॥२२॥यदर्थमवतारोऽयं निहतस्स हि दानवः ।
हिरण्यकशिपुश्चैव प्रह्लादोऽपि सुरक्षितः
॥२३॥अतीव घोरं भगवन्नरसिंहवपुस्तव ।
उपसंहर विश्वात्मंस्त्वमेव मम सन्निधौ
॥२४॥नन्दीश्वर उवाच
इत्युक्तो वीरभद्रेण नृसिंहः शान्तया गिरा ।
ततोऽधिकं महाघोरं कोपञ्चक्रे महामदः
॥२५॥उवाच च महाघोरं कठिनं वचनन्तदा ।
वीरभद्रम्महावीरं दंष्ट्राभिर्भीषयन्मुने
॥२६॥नृसिंह उवाच
आगतोसि यतस्तत्र गच्छ त्वम्मा हितं वद ।
इदानीं संहरिष्यामि जगदेतच्चराचरम्
॥२७॥संहर्तुर्न हि संहारः स्वतो वा परतोऽपि वा ।
शासितम्मम सर्व्वत्र शास्ता कोऽपि न विद्यते
॥२८॥मत्प्रसादेन सकलमभयं हि प्रवर्त्तते ।
अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः
॥२९॥यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तद्विद्धि गणाध्यक्ष मम तेजोविजृम्भितम्
॥३०॥देवतापरमार्थज्ञं मामेव परमम्विदुः ।
मदंशाश्शक्तिसम्पन्ना ब्रह्मशक्रादयस्सुराः
॥३१॥मन्नाभिकमलाज्जातः पुरा ब्रह्मा जगत्करः ।
सर्वाधिकस्स्वतन्त्रश्च कर्ता हर्ताखिलेश्वरः
॥३२॥इदन्तु मत्परं तेजः किं पुनः श्रोतुमिच्छसि ।
अतो मां शरणम्प्राप्य गच्छ त्वं विगतज्वरः
॥३३॥अवेहि परमं भावमिदम्भूतं गणेश्वर ।
मामकं सकलं विश्वं सदेवासुरमानुषम्
॥३४॥कालोऽस्म्यहं लोकविनाशहेतुर्लोकान्समाहर्तुमहम्प्रवृत्तः ।
मृत्योर्मृत्युं विद्धि मां वीरभद्र जीवन्त्येते मत्प्रसादेन देवाः
॥३५॥नन्दीश्वर उवाच
साहङ्कारं वचः श्रुत्वा हरेरमितविक्रमः ।
विहस्योवाच सावज्ञन्ततो विस्फुरिताधरः ।
वीरभद्र उवाच ।
किन्न जानासि विश्वेशं संहर्तारम्पिनाकिनम् ।
असद्वादो विवादश्च विनाशस्त्वयि केवलः
॥३७॥तवान्योन्यावताराणि कानि शेषाणि साम्प्रतम् ।
कृतानि येन केनैव कथाशेषो भविष्यति
॥३८॥दोषं तं वद येन त्वमवस्थामीदृशी गतः ।
तेन संहारदक्षेण दक्षिणाशेषमेष्यसि
॥३९॥प्रकृतिस्त्वं पुमान्रुद्रस्त्वयि वीर्य्यं समाहितम् ।
त्वन्नाभिपङ्कजाज्जातः पञ्च वक्त्रः पितामहः
॥४०॥जगत्त्रयीसर्जनार्थं शंकरं नीललोहितम् ।
ललाटेऽचिन्तयत्सोयन्तपस्युग्रे च संस्थितः
॥४१॥तल्ललाटादभूच्छम्भुः सृष्ट्यर्थे तेन भूषणम् ।
अतोऽहं देवदेवस्य तस्य भैरवरूपिणः
॥४२॥त्वत्संहारे नियुक्तोऽस्मि विनयेन बलेन च ।
देवदेवेन रुद्रेण सकलप्रभुणा हरे
॥४३॥एकं रक्षो विदार्यैव तच्छक्तिकलया युतः ।
अहंकारावलेपेन गर्जसि त्वमतन्द्रितः
॥४४॥उपकारो हि साधूनां सुखाय किल संमतः ।
उपकारो ह्यसाधूनामपकाराय केवलम्
॥४५॥यन्नृसिंह महेशानं पुनर्भूतं तु मन्यसे ।
तर्ह्यज्ञानी महागर्वी विकारी सर्वथा भवान्
॥४६॥न त्वं स्रष्टा न संहर्ता भर्तापि न नृसिंहक ।
परतन्त्रो विमूढात्मा न स्वतन्त्रो हि कुत्रचित्
॥४७॥कुलालचक्रवच्छक्त्या प्रेरितोसि पिनाकिना ।
नानावतारकर्ता त्वं तदधीनस्सदा हरे
॥४८॥अद्यापि तव निक्षिप्तं कपालं कूर्मरूपिणः ।
हर हारलतामध्ये दग्धः कश्चिन्न बध्यते
॥४९॥विस्मृतिः किं तदंशेन दंष्ट्रोत्पातनपीडितम् ।
वाराहविघ्नहस्तेऽद्य याक्रोशन्तारकारिणा
॥५०॥दग्धोसि पश्य शूलाग्रे विष्वक्सेनच्छलाद्भवान् ।
दक्षयज्ञे शिरश्छिन्नं मया तेजःस्वरूपिणा
॥५१॥अद्यापि तव पुत्रस्य ब्रह्मणः पञ्चमं शिरः ।
छिन्नं न सज्जितं भूयो हरे तद्विस्मृतन्त्वया
॥५२॥निर्जितस्त्वं दधीचेन संग्रामे समरुद्गणः ।
कण्डूयमाने शिरसि कथं तद्विस्मृतन्त्वया
॥५३॥चक्रं विक्रमतो यस्य चक्रपाणे तव प्रियम् ।
कुतः प्राप्तं कृतं केन त्वया तदपि विस्मृतम्
॥५४॥ये मया सकला लोका गृहीतास्त्वं पयोनिधौ ।
निद्रापरवशश्शेषे स कथं सात्त्विको भवान्
॥५५॥त्वदादिस्तम्बपर्यन्तं रुद्रशक्तिविजृम्भितम् ।
शक्तिमानभितस्त्वं च ह्यनलात्त्वं विमोहितः
॥५६॥तत्तेजसो हि माहात्म्यं पुमान्द्र ष्टुन्न हि क्षमः ।
अस्थूला ये प्रपश्यन्ति तद्विष्णोः परमम्पदम्
॥५७॥द्यावापृथिव्या इन्द्राग्नेर्यमस्य वरुणस्य च ।
ध्वान्तोदरे शशांके च जनित्वा परमेश्वरः
॥५८॥कालोसि त्वं महाकालः कालकालो महेश्वर ।
अतस्त्वमुग्रकलया मृत्योर्मृत्युर्भविष्यसि
॥५९॥स्थिरोद्य त्वक्षरो वीरो वीरो विश्वावकः प्रभुः ।
उपहन्ता ज्वरं भीमो मृगः पक्षी हिरण्मयः
॥६०॥शास्ता शेषस्य जगतस्तत्त्वं नैव चतुर्मुखः ।
नान्ये च केवलं शम्भुस्सर्वशास्ता न संशयः
॥६१॥इत्थं सर्वं समालोक्य संहारात्मानमात्मना ।
न विनष्टन्त्वमात्मानं कुरु हे नृहरेऽबुध
॥६२॥नो चेदिदानीं क्रोधस्य महाभैरवरूपिणः ।
वज्राशनिरिव स्थाणौ त्वयि मृत्युः पतिष्यति
॥६३॥नन्दीश्वर उवाच
इत्युक्त्वा वीरभद्रोपि विररामाकुतोभयः ।
दृष्ट्वा नृसिंहाभिप्रायं क्रोधमूर्त्तिश्शिवस्य सः
॥६४॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शरभावतारवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥