मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय १२

3
शतरुद्रसंहिता · 12

शरभावतारवर्णनम्

सनत्कुमार उवाच

नन्दीश्वर महाप्राज्ञ विज्ञातन्तदनन्तरम् ।

ममोपरि कृपां कृत्वा प्रीत्या त्वन्तद्वदाधुना

॥१॥

नन्दीश्वर उवाच

इत्युक्तो वीरभद्रेण नृसिंहः क्रोधविह्वलः ।

निनदन्ननु वेगेन तं ग्रहीतुम्प्रचक्रमे

॥२॥

अत्रान्तरे महाघोरं प्रत्यक्षभयकारणम् ।

गगनव्यापि दुर्धर्षं शैवतेजस्समुद्भवम्

॥३॥

वीरभद्रस्य तद्रूमदृश्यन्तु ततः क्षणात् ।

तद्वै हिरण्मयं सौम्यं न सौरन्नाग्निसम्भवम्

॥४॥

न तडिच्चन्द्रसदृशमनौपम्यम्महेश्वरम् ।

तदा तेजांसि सर्वाणि तस्मिँल्लीनानि शंकरे

॥५॥

न तद्व्योम महत्तेजो व्यक्तान्तश्चाभवत्ततः ।

रुद्रसाधारणं चैव चिह्नितं विकृताकृति

॥६॥

ततस्संहाररूपेण सुव्यक्तं परमेश्वरः ।

पश्यतां सर्वदेवानां जयशब्दादिमंगलैः

॥७॥

सहस्रबाहुर्जटिलश्चन्द्रार्द्धकृतशेखरः ।

समृद्धोग्रशरीरेण पक्षाभ्याञ्चञ्चुना द्विजः

॥८॥

अतितीक्ष्णो महादंष्ट्रो वज्रतुल्यनखायुधः ।

कण्ठे कालो महाबाहुश्चतुष्पाद्वह्निसन्निभः

॥९॥

युगान्तोद्यतजीमूतभीमगम्भीरनिस्वनः ।

महाकुपितकृत्याग्निव्यावृत्तनयनत्रयः

॥१०॥

स्पष्टदंष्ट्राधरोष्ठश्च हुंकारसंयुतो हरः ।

ईदृग्विधस्वरूपश्च ह्युग्र आविर्बभूव ह

॥११॥

अरिस्तद्दर्शनादेव विनष्टबलविक्रमः ।

बिभ्रद्धाम सहस्रांशोरधः खद्योतविभ्रमम्

॥१२॥

अथ विभ्रम्य पक्षाभ्यां नाभिपादान्विदारयन् ।

पादान्बबंध पुच्छेन बाहुभ्याम्बाहु मण्डलम्

॥१३॥

भिन्दन्नुरसि बाहुभ्यान्निजग्राह हरो हरिम् ।

ततो जगाम गगनन्देवैस्सह महर्षिभिः

॥१४॥

सहसैवाभयाद्विष्णुं स हि श्येन इवोरगम् ।

उत्क्षिप्योत्क्षिप्य संगृह्य निपात्य च निपात्य च

॥१५॥

उड्डीयोड्डीय भगवान्पक्षघातविमोहितम् ।

हरीं हरस्तं वृषभं विवेशानन्त ईश्वरः

॥१६॥

अनुयान्तं सुरास्सर्वे नमोवाक्येन तुष्टुवुः ।

प्रणेमुस्सादरं प्रीत्या ब्रह्माद्याश्च मुनीश्वराः

॥१७॥

नीयमानः परवशो दीनवक्त्रः कृताञ्जलिः ।

तुष्टाव परमेशानं हरिस्तं ललिताक्षरैः

॥१८॥

नाम्नामष्टशतेनैव स्तुत्वा ताम्मृडमेव च ।

पुनश्च प्रार्थयामास नृसिंहः शरभेश्वरम्

॥१९॥

यदायदा ममाज्ञेयं मतिस्स्याद्गर्वदूषिता ।

तदातदाऽपनेतव्या त्वयैव परमेश्वर

॥२०॥

नन्दीश्वर उवाच

एवं विज्ञापयन्प्रीत्या शङ्करं नरकेसरी ।

नत्वाऽशक्तोऽभवद्विष्णु जीवितान्त पराजितः

॥२१॥

तद्वक्त्रं शेषगात्रान्तं कृत्वा सर्वस्वविग्रहम् ।

शक्तियुक्तं तदीयांगं वीरभद्रः क्षणात्ततः

॥२२॥

नन्दीश्वर उवाच

अथ ब्रह्मादयो देवाश्शारभं रूपमास्थितम् ।

तुष्टुवुः शंकरं देवं सर्वलोकैकशंकरम्

॥२३॥

देवा ऊचुः

ब्रह्मविष्ण्विन्द्रचन्द्रादिसुराः सर्वे महर्षयः ।

दितिजाद्याः सम्प्रसूतास्त्वत्तस्सर्वे महेश्वर

॥२४॥

ब्रह्मविष्णुमहेन्द्राश्च सूर्याद्यानसुरान्सुराम् ।

त्वं वै सृजसि पास्यत्सि त्वमेव सकलेश्वरः

॥२५॥

यतो हरसि संसारं हर इत्युच्यते बुधैः ।

निगृहीतो हरिर्यस्माद्धर इत्युच्यते बुधैः

॥२६॥

यतो बिभर्षि सकलं विभज्य तनुमष्टधा ।

अतोऽस्मान्पाहि भगवन् सुरादानैरभीप्सितैः

॥२७॥

त्वं महापुरुषः शम्भुः सर्वेशस्सुरनायकः ।

निःस्वात्मा निर्विकारात्मा परब्रह्म सतां गतिः

॥२८॥

दीनबन्धुर्दया सिन्धुऽरद्भुतोतिः परात्मदृक् ।

प्राज्ञो विराट्विभुस्सत्यः सच्चिदानन्दलक्षणः

॥२९॥

नन्दीश्वर उवाच

इत्याकर्ण्य वचः शम्भुर्देवानां परमेश्वरः ।

उवाच तान् सुरान्देवमहर्षींश्च पुरातनान्

॥३०॥

यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।

एक एव तदा विष्णुः शिवे लीनो न चान्यथा

॥३१॥

एको विष्णुर्नृसिंहात्मा सदर्पश्च महाबलः ।

जगत्संहारकरणे प्रवृत्तो नरकेसरी

॥३२॥

प्रार्थनीयो नमस्तस्मै मद्भक्तैस्सिद्धिकारिभिः ।

मद्भक्तप्रवरश्चैव मद्भक्तवर दायकः

॥३३॥

नन्दीश्वर उवाच

एतावदुक्त्वा भगवान् पक्षिराजो महाबलः ।

पश्यतां सर्वदेवानान्तत्रैवान्तरधीयत

॥३४॥

वीरभद्रोऽपि भगवान्गणाध्यक्षो महाबलः ।

नृसिंहकृत्तिं निष्कृष्य समादाय ययौ गिरिम्

॥३५॥

नृसिंहकृत्तिवसनस्तदाप्रभृति शंकरः ।

तद्वक्त्रं मुण्डमालायां नायकत्वेन कल्पितम्

॥३६॥

ततो देवा निरातङ्का कीर्त्तयन्तः कथामिमाम् ।

विस्मयोत्फुल्लनयना जग्मुः सर्वे यथागतम्

॥३७॥

य इदम्परमाख्यानं पुण्यं वेदरसान्वितम् ।

पठति शृणुयाच्चैव सर्व्वान्कामानवाप्नुयात्

॥३८॥

धन्यं यशस्यमायुष्यमारोग्यम्पुष्टिवर्द्धनम् ।

सर्वविघ्रप्रशमनं सर्वव्याधिविनाशनम्

॥३९॥

दुःखप्रशमनं वाञ्छासिद्धिदं मंगलालयम् ।

अपमृत्युहरं बुद्धिप्रदं शत्रुविनाशनम्

॥४०॥

इदन्तु शरभाकारं परं रूपम्पिनाकिनः ।

प्रकाशनीयं भक्तेषु शंकरस्य चरेषु वै

॥४१॥

तैरेव पठितव्यं च श्रोतव्यं च शिवात्मभिः ।

नवधा भक्तिदं दिव्यमन्तःकरणबुद्धिदम्

॥४२॥

शिवोत्सवेषु सर्वेषु चतुर्दश्यष्टमीषु च ।

पठेत्प्रतिष्ठाकाले तु शिवसन्निधिकारणम्

॥४३॥

चौरव्याघ्रनृसिंहात्मकृत राजभयेषु च ।

अन्येषूत्पातभूकम्पदस्य्वादिपांसुवृष्टिषु

॥४४॥

उल्कापाते महावाते विनावृष्ट्यतिवृष्टिषु ।

पठेद्यः प्रयतो विद्वाञ् शिवभक्तो दृढव्रतः

॥४५॥

यः पठेच्छृणुयाद्वापि निष्कामो व्रतमैश्वरम् ।

रुद्रलोकं समासाद्य रुद्रस्यानुचरो भवेत्

॥४६॥

रुद्रलोकमनुप्राप्य रुद्रेण सह मोदते ।

ततस्सायुज्यमाप्नोति शिवस्य कृपया मुने

॥४७॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शरभावतारवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥