मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय ३६

3
शतरुद्रसंहिता · 36

अश्वत्थामशिवावतारवर्णनम्

नन्दीश्वर उवाच

सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः ।

अवतारं शृणु विभोरश्वत्थामाह्वयं परम्

॥१॥

बृहस्पतेर्महाबुद्धेर्देवर्षेरंशतो मुने ।

भरद्वाजात्समुत्पन्नो द्रोणोऽयोनिज आत्मवान्

॥२॥

धनुर्भृतां वरः शूरो विप्रर्षिस्सर्वशास्त्रवित् ।

बृहत्कीर्तिर्महातेजा यः सर्वास्त्रविदुत्तमः

॥३॥

धनुर्वेदे च वेदे च निष्णातं यं विदुर्बुधाः ।

वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम्

॥४॥

कौरवाणां स आचर्य्यं आसीत्स्वबलतो द्विज ।

महारथिषु विख्यातः षट्सु कौरवमध्यतः

॥५॥

साहाय्यार्थं कौरवाणां स तेपे विपुलन्तपः ।

शिवमुद्दिश्य पुत्रार्थं द्रोणाचार्य्यो द्विजोत्तमः

॥६॥

ततः प्रसन्नो भगवाच्छंकरो भक्तवत्सलः ।

आविर्बभूव पुरतो द्रोणस्य मुनिसत्तम

॥७॥

तन्दृष्ट्वा स द्विजो द्रोणस्तुष्टावाशु प्रणम्य तम् ।

महाप्रसन्नहृदयो नतकस्सुकृताञ्जलिः

॥८॥

तस्य स्तुत्या च तपसा सन्तुष्टः शंकर प्रभुः ।

वरम्ब्रूहीति चोवाच द्रोणन्तं भक्तवत्सलः

॥९॥

तच्छ्रुत्वा शम्भुवचनं द्रोणः प्राहाथ सन्नतः ।

स्वांशजन्तनयन्देहि सर्वाजेयम्महाबलम्

॥१०॥

तच्छ्रुत्वा द्रोणवचनं शम्भुः प्रोचे तथास्त्विति ।

अभूदन्तर्हितस्तात कौतुकी सुखकृन्मुने

॥११॥

द्रोणोऽपगच्छत्स्वन्धाम महाहृष्टो गतभ्रमः ।

स्वपत्न्यै कथयामास तद्वृतं सकलं मुदा

॥१२॥

अथावसरमासाद्य रुद्रः सर्वान्तकः प्रभुः ।

स्वांशेन तनयो जज्ञे द्रोणस्य स महाबलः

॥१३॥

अश्वत्थामेति विख्यातस्तस्य बभूव क्षितौ मुने ।

प्रवीरः कंजपत्राक्षश्शत्रुपक्षक्षयङ्करः

॥१४॥

यो भारते रणे ख्यातः पितुराज्ञामवाप्य च ।

सहायकृद्बभूवात कौरवाणां महाबलः

॥१५॥

यमाश्रित्य महावीरं कौरवास्सुम हाबलाः ।

भीष्मादयो बभूवुस्तेऽजेया अपि दिवौकसाम्

॥१६॥

यद्भयात्पाण्डवास्सर्वे कौरवाञ्जेतुमक्षमाः ।

आसन्नष्टामहावीरा अपि सर्वे च कोविदाः

॥१७॥

कृष्णोपदेशतश्शम्भोस्तपः कृत्वातिदारुणम् ।

प्राप्य चास्त्रं शम्भुवराज्जिग्ये तानर्जुनस्ततः

॥१८॥

अश्वत्थामा महावीरो महादेवांशजो मुने ।

तदापि तद्भक्तिवशः स्वप्रतापमदर्शयत्

॥१९॥

विनाश्य पाण्डवसुताञ्छिक्षितानपि यत्नतः ।

कृष्णादिभिर्महावीरैरनिवार्य्यबलः परैः

॥२०॥

पुत्रशोकेन विकलमापतन्तं तमर्जुनम् ।

रथेनाच्युतवंतं हि दृष्ट्वा स च पराद्रवत्

॥२१॥

अस्त्रं ब्रह्मशिरो नाम तदुपर्य्यसृजत्स हि ।

ततः प्रादुरभूत्तेजः प्रचण्डं सर्वतो दिशम्

॥२२॥

प्राणापदमभिप्रेक्ष्य सोर्जुनः क्लेशसंयुतः ।

उवाच कृष्णं विक्लान्तो नष्टतेजा महाभयः

॥२३॥

अर्जुन उवाच

किमिदं स्वित्कुतो वेति कृष्ण कृष्ण न वेद्म्यहम् ।

सर्वतोमुखमायाति तेजश्चेदं सुदु्स्सहम्

॥२४॥

नन्दीश्वर उवाच

श्रुत्वार्जुनवचश्चेदं स कृष्णश्शैवसत्तमः ।

दध्यौ शिवं सदारं च प्रत्याहार्जुनमादरात्

॥२५॥

कृष्ण उवाच

वेत्थेदन्द्रोणपुत्रस्य ब्राह्ममस्त्रं महोल्बणम् ।

न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम्

॥२६॥

शिवं स्मर द्रुतं शम्भुं स्वप्रभुम्भक्तरक्षकम् ।

येन दत्तं हि ते स्वास्त्रं सर्वकार्य्यकरम्परम्

॥२७॥

जह्यस्त्रतेज उन्नद्धन्त्वन्तच्छैवास्त्रतेजसा ।

इत्युक्त्वा च स्वयं कृष्णश्शिवन्दध्यौ तदर्थकः

॥२८॥

तच्छ्रुत्वा कृष्णवचनं पार्थस्स्मृत्वा शिवं हृदि ।

स्पृष्ट्वापस्तं प्रणम्याशु चिक्षेपास्त्रन्ततो मुने

॥२९॥

यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघञ्चाप्रतिक्रियम् ।

शैवास्त्रतेजसा सद्यस्समशाम्यन्महामुने

॥३०॥

मंस्था मा ह्येतदाश्चर्य्यं सर्वचित्रमये शिवे ।

यस्स्वशक्त्याखिलं विश्वं सृजत्यवति हन्त्यजः

॥३१॥

अश्वत्थामा ततो ज्ञात्वा वृत्तमेतच्छिवांशजः ।

शैवन्न विव्यथे किञ्चिच्छिवेच्छातुष्टधीर्मुने

॥३२॥

अथ द्रौणिरिदं विश्वं कृत्स्नं कर्तुमपाण्डवम् ।

उत्तरागर्भगं बालं नाशितुम्मन आदधे

॥३३॥

ब्रह्मास्त्रमनिवार्य्यं तदन्यैरस्त्रैर्महाप्रभम् ।

उत्तरागर्भमुद्दिश्य चिक्षेप स महाप्रभुः

॥३४॥

ततश्च सोत्तरा जिष्णुवधूर्विकलमानसा ।

कृष्णन्तुष्टाव लक्ष्मीशन्दह्यमाना तदस्त्रतः

॥३५॥

ततः कृष्णः शिवं ध्यात्वा हृदा नुत्वा प्रणम्य च ।

अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत

॥३६॥

स्वरक्षार्थेन्द्रदत्तेन तदस्त्रेण सुवर्चसा ।

सुदर्शनेन तस्याश्च व्यधाद्रक्षां शिवाज्ञया

॥३७॥

स्वरूपं शंकरादेशात्कृतं शैववरेण ह ।

कृष्णेन चरितं ज्ञात्वा विमनस्कः शनैरभूत्

॥३८॥

ततस्स कृष्णः प्रीतात्मा पाण्डवान्सकलानपि ।

अपातयत्तदंघ्र्योस्तु तुष्टये तस्य शैवराट्

॥३९॥

अथ द्रौणिः प्रसन्नात्मा पाण्डवान्कृष्णमेव च ।

नानावरान्ददौ प्रीत्या सोऽश्वत्थामानुगृह्य च

॥४०॥

इत्थं महेश्वरस्तात चक्रे लीलाम्पराम्प्रभुः ।

अवतीर्य्य क्षितौ द्रौणिरूपेण मुनिसत्तम

॥४१॥

शिवावतारोऽश्वत्थामा महाबलपराक्रमः ।

त्रैलोक्यमुखदोऽद्यापि वर्तते जाह्नवीतटे

॥४२॥

अश्वत्थामावतारस्ते वर्णितश्शंकर प्रभोः ।

सर्वसिद्धिकरश्चापि भक्ताभीष्टफलप्रदः

॥४३॥

य इदं शृणुयाद्भक्त्या कीर्तयेद्वा समाहितः ।

स सिद्धिम्प्राप्नुयादिष्टामन्ते शिवपुरं व्रजेत्

॥४४॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायामश्वत्थामशिवावतारवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥