मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय ८

3
शतरुद्रसंहिता · 8

सनत्कुमार सर्व्वज्ञ शृणु त्वं भैरवीं कथाम्

अथ भैरवावतारमाह ।

नन्दीश्वर उवाच ।

सनत्कुमार सर्व्वज्ञ शृणु त्वं भैरवीं कथाम् ।

यस्याः श्रवणमात्रेण शैवी भक्तिर्दृढा भवेत्

॥१॥

भैरवः पूर्णरूपो हि शंकरस्य परात्मनः ।

मूढास्तं वै न जानन्ति मोहिताश्शिवमायया

॥२॥

सनत्कुमार नो वेत्ति महिमानं महेशितुः ।

चतुर्भुजोऽपि विष्णुर्वै चतुर्व्वक्त्रोऽपि वै विधिः

॥३॥

चित्रमत्र न किञ्चिद्वै दुर्ज्ञेया खलु शाम्भवी ।

तया संमोहितास्सर्वे नार्चयन्त्यपि तम्परम्

॥४॥

वेद चेद्यदि वात्मानं स एव परमेश्वरः ।

तदा विहन्ति ते सर्व्वे स्वेच्छया न हि केऽपि तम्

॥५॥

सर्व्वगोऽपि महेशानो नेक्ष्यते मूढबुद्धिभिः ।

देववद् बुध्यते लोके योऽतीतो मनसां गिराम्

॥६॥

अत्रेतिहासं वक्ष्येऽहं परमर्षे पुरातनम् ।

शृणु तं श्रद्धया तात परमं ज्ञानकारणम्

॥७॥

मेरुशृङ्गेऽद्भुते रम्ये स्थितम्ब्रह्माणमीश्वरम् ।

जग्मुर्देवर्षयः सर्व्वे सुतत्त्वं ज्ञातुमिच्छया

॥८॥

तत्रागत्य विधिन्नत्वा पप्रच्छुस्ते महादरात् ।

कृताञ्जलिपुटास्सर्वे नतस्कन्धा मुनीश्वराः

॥९॥

देवर्षय ऊचुः

देवदेव प्रजानाथ सृष्टिकृल्लोकनायक ।

तत्त्वतो वद चास्मभ्यं किमेकं तत्त्वमव्ययम्

॥१०॥

नन्दीश्वर उवाच

स मायया महेशस्य मोहितः पद्मसम्भवः ।

अविज्ञाय परम्भावं संभावं प्रत्युवाच ह

॥११॥

ब्रह्मोवाच

हे सुरा ऋषयः सर्व्वे सुमत्या शृणुतादरात् ।

वच्म्यहं परमं तत्त्वमव्ययं वै यथार्थतः

॥१२॥

जगद्योनिरहं धाता स्वयम्भूरज ईश्वरः ।

अनादिभागहं ब्रह्म ह्येक आत्मा निरञ्जनः

॥१३॥

प्रवर्तको हि जगतामहमेव निवर्त्तकः ।

संवर्तको मदधिको नान्यः कश्चित्सुरोत्तमाः

॥१४॥

नन्दीश्वर उवाच

तस्यैवं वदतो धातुर्विष्णुस्तत्र स्थितो मुने ।

प्रोवाच प्रहसन्वाक्यं संक्रुद्धो मोहितोऽजया

॥१५॥

न चैतदुचिता ब्रह्मन्योगयुक्तस्य मूर्खता ।

अविज्ञाय परं तत्त्वं वृथैतत्ते निगद्यते

॥१६॥

कर्ता वै सर्वलोकानां परमात्मा परः पुमान् ।

यज्ञो नारायणो देवो मायाधीशः परा गतिः

॥१७॥

ममाज्ञया त्वया ब्रह्मन्सृष्टिरेषा विधी यते ।

जगतां जीवनं नैव मामनादृत्य चेश्वरम्

॥१८॥

एवं त्रिप्रकृतौ मोहात्परस्परजयैषिणौ ।

प्रोचतुर्निगमांश्चात्र प्रमाणे सर्वथा तनौ

॥१९॥

प्रष्टव्यास्ते विशेषेण स्थिता मूर्तिधराश्च ते ।

पप्रच्छतुः प्रमाणज्ञानित्युक्त्वा चतुरोऽपि तान्

॥२०॥

विधिविष्णू ऊचतुः

वेदाः प्रमाणं सर्व्वत्र प्रतिष्ठा परमामिताः ।

यूयं वदत विश्रब्धं किमेकं तत्त्वमव्ययम्

॥२१॥

नन्दीश्वर उवाच

इत्याकर्ण्य तयोर्वाचं पुनस्ते हि ऋगादयः ।

अवदंस्तत्त्वतः सर्व्वे संस्मरतो परं प्रभुम्

॥२२॥

यदि मान्या वयन्देवौ सृष्टिस्थितिकरौ विभू ।

तदा प्रमाणं वक्ष्यामो भवत्सन्देहभेदकम्

॥२३॥

नन्दीश्वर उवाच

श्रुत्युक्तविधिमाकर्ण्य प्रोचतुस्तौ सुरौ श्रुतीः ।

युष्मदुक्तं प्रमाणं नौ किन्तत्त्वं सम्यगुच्यताम्

॥२४॥

ऋग्वेद उवाच

यदन्तस्स्थानि भूतानि यतस्सर्व्वम्प्रवर्त्तते ।

यदाहुः परमन्तत्त्वं स रुद्रस्त्वेक एव हि

॥२५॥

यजुर्वेद उवाच

यो यज्ञैरखिलैरीशो योगेन च समिज्यते ।

येन प्रमाणं खलु नस्स एकः सर्व्वदृक् छिवः

॥२६॥

सामवेद उवाच

येनेदम्भ्रम्यते विश्वं योगिभिर्यो विचिन्त्यते ।

यद्भासा भासते विश्वं स एकस्त्र्यम्बकः परः

॥२७॥

अथर्ववेद उवाच

यं प्रपश्यन्ति देवेशम्भक्त्यनुग्रहिणो जनाः ।

तमाहुरेकं कैवल्यं शंकरं दुःखतः परम्

॥२८॥

नन्दीश्वर उवाच

श्रुत्युक्तमिदमाकर्ण्यातीवमायाविमोहितौ ।

स्मित्वाहतुर्विधिहरी निगमांस्तान्विचेतनौ

॥२९॥

विधिहरी ऊचतुः

हे वेदाः किमिदं यूयम्भाषन्ते गतचेतनाः ।

किञ्जातं वोऽद्य सर्व्वं हि नष्टं सुवयुनं परम्

॥३०॥

कथम्प्रमथनाथोऽसौ रममाणो निरन्तरम् ।

दिगम्बरः पीतवर्णो शिवया धूलिधूसरः

॥३१॥

विरूपवेषो जटिलो वृषगो व्यालभूषणः ।

परं ब्रह्मत्वमापन्नः क्व च तत्संगवर्जितम्

॥३२॥

इत्युदीरितमाकर्ण्य प्रणवः सर्वगस्तयोः ।

अमूर्तो मूर्तिमान्प्रीत्या जृम्भमाण उवाच तौ

॥३३॥

प्रणव उवाच

न हीशो भगवाञ्छक्त्या ह्यात्मनो व्यतिरिक्तया ।

कदाचिद्रमते रुद्रो लीलारूपधरो हरः

॥३४॥

असौ हि परमेशानस्स्वयंज्योतिस्सनातनः ।

आनन्दरूपा तस्यैषा शक्तिर्नागन्तुकी शिवा

॥३५॥

नन्दीश्वर उवाच

इत्येवमुक्तोऽपि तदा विधेर्विष्णोश्च वै तदा ।

नाज्ञानमगमन्नाशं श्रीकण्ठस्यैव मायया

॥३६॥

प्रादुरासीत्ततो ज्योतिरुभयोरन्तरे महत् ।

पूरयन्निजया भासा द्यावाभूम्योर्यदन्तरम्

॥३७॥

ज्योतिर्मण्डलमध्यस्थो ददृशे पुरुषाकृतिः ।

विधिक्रतुभ्यां तत्रैव महाद्भुततनुर्मुने

॥३८॥

प्रजज्वालाथ कोपेन ब्रह्मणः पञ्चमं शिरः ।

आवयोरन्तरे कोऽसौ बिभृयात्पुरुषाकृतिम्

॥३९॥

विधिः संभावयेद्यावत्तावत्स त्रिविलोचनः ।

दृष्टः क्षणेन च महापुरुषो नीललोहितः

॥४०॥

त्रिशूलपाणिर्भालाक्षो नागोडुपविभूषणः ।

हिरण्यगर्भस्तं दृष्ट्वा विहसन्प्राह मोहितः

॥४१॥

ब्रह्मोवाच

नीललोहित जाने त्वां मा भैषीश्चन्द्रशेखर ।

भालस्थलान्मम पुरा रुद्रः प्रादुरभूद्भवान्

॥४२॥

रोदनाद्रुद्रनामापि योजितोऽसि मया पुरा ।

मामेव शरणं याहि पुत्र रक्षाङ्करोमि ते

॥४३॥

नन्दीश्वर उवाच

अथेश्वरः पद्मयोनेः श्रुत्वा गर्ववतीं गिरम् ।

चुकोपातीव च तदा कुर्वन्निव लयम्मुने

॥४४॥

स कोपतस्समुत्पाद्य पुरुषं भैरवं क्वचित् ।

प्रज्वलन्तं सुमहसा प्रीत्या च परमेश्वरः

॥४५॥

ईश्वर उवाच

प्राक्च पंकजजन्मासौ शास्यस्ते कालभैरव ।

कालवद्राजसे साक्षात्कालराजस्ततो भवान्

॥४६॥

विश्वं भर्तुं समर्थोसि भीषणाद्भैरवः स्मृतः ।

त्वत्तो भेष्यति कालोऽपि ततस्त्वं कालभैरवः

॥४७॥

आमर्दयिष्यति भवान्रुष्टो दुष्टात्मनो यतः ।

आमर्दक इति ख्यातिं ततस्सर्वत्र यास्यसि

॥४८॥

यतः पापानि भक्तानां भक्षयिष्यसि तत्क्षणात् ।

पापभक्षण इत्येव तव नाम भविष्यति

॥४९॥

या मे मुक्तिपुरी काशी सर्व्वाभ्योऽहि गरीयसी ।

आधिपत्यं च तस्यास्ते कालराज सदैव हि

॥५०॥

तत्र ये पातकिनरास्तेषां शास्ता त्वमेव हि ।

शुभाशुभं च तत्कर्म चित्रगुप्तो लिखिष्यति

॥५१॥

नन्दीश्वर उवाच

एतान्वरान्प्रगृह्याथ तत्क्षणात्कालभैरवः ।

वामांगुलिनखाग्रेण चकर्त च विधेश्शिरः

॥५२॥

यदंगमपराध्नोति कार्यं तस्यैव शासनम् ।

अतो येन कृता निन्दा तच्छिन्नम्पञ्चमं शिरः

॥५३॥

अथ च्छिन्नं विधिशिरो दृष्ट्वा भीततरो हरिः ।

शातरुद्रियमन्त्रैश्च भक्त्या तुष्टाव शङ्करम्

॥५४॥

भीतो हिरण्यगर्भोऽपि जजाप शतरुद्रियम् ।

इत्थं तौ गतगर्वौ हि संजातौ तत्क्षणान्मुने

॥५५॥

परब्रह्म शिवः साक्षात्सच्चिदानन्दलक्षणः ।

परमात्मा गुणातीत इति ज्ञानमवापतुः

॥५६॥

सनत्कुमार सर्वज्ञ शृणु मे परमं शुभम् ।

यावद्गर्वो भवेत्तावज्ज्ञानगुप्तिर्विशेषतः

॥५७॥

त्यक्त्वाभि मानं पुरुषो जानाति परमेश्वरम् ।

गर्विणं हन्ति विश्वेशो जातो गर्वापहारकः

॥५८॥

अथ विष्णुविधी ज्ञात्वा विगर्वौ परमेश्वरः ।

प्रसन्नोऽभून्महादेवोऽकरोत्तावभयौ प्रभुः

॥५९॥

आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः ।

प्राह स्वां मूर्तिमपरां भैरवन्तं कपर्दिनम्

॥६०॥

महादेव उवाच

त्वया मान्यो विष्णुरसौ तथा शतधृतिः स्वयम् ।

कपालम्वैधसम्वापि नीललोहित धारय

॥६१॥

ब्रह्महत्यापनोदाय व्रतं लोकाय दर्शय ।

चर त्वं सततं भिक्षां कपालव्रतमाश्रितः

॥६२॥

इत्युक्त्वा पश्यतस्तस्य तेजोरूपः शिवोऽब्रवीत् ।

उत्पाद्य चैकां कन्यान्तु ब्रह्महत्याभिविश्रुताम्

॥६३॥

यावद्वाराणसीन्दिव्याम्पुरीमेषां गमिष्यति ।

तावत्त्वं भीषणे कालमनुगच्छोग्ररूपिणम्

॥६४॥

सर्वत्र ते प्रवेशोऽस्ति त्यक्त्वा वाराणसीं पुरीम् ।

वाराणसीं यदा गच्छेत्तन्मुक्तां भव तत्क्षणात्

॥६५॥

नन्दीश्वर उवाच

नियोज्य तामिति तदा ब्रह्महत्यां च ताम्प्रभुः ।

महाद्भुतश्च स शिवोऽप्यन्तर्धानमगात्ततः

॥६६॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां भैरवावतारवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥