भिल्लार्जुनसंवादः
नन्दीश्वर उवाच
सनत्कुमार सर्वज्ञ शृणु लीलाम्परात्मनः ।
भक्तवात्सल्यसंयुक्तां तद्दृढत्वविदर्भिताम्
॥१॥शिवोप्यथ स्वभृत्यं वै प्रेषयामास स द्रुतम् ।
बाणार्थे च तदा तत्रार्जुनोपि समगात्ततः
॥२॥एकस्मिन् समये प्राप्तौ बाणार्थं तद्गणार्जुनौ ।
अर्जुनस्तं पराभर्त्स्य स्वबाणं चाग्रहीत्तदा
॥३॥गण प्रोवाच तं तत्र किमर्थं गृह्यते शरः ।
बाणश्चैवास्मदीयो वै मुच्यतां ऋषिसत्तम
॥४॥इत्युक्तस्तेन भिल्लस्य गणेन मुनिसत्तमः ।
सोर्जुनः शंकरं स्मृत्वा वचनं च तमब्रवीत्
॥५॥अर्जुन उवाच
अज्ञात्वा किंच वदसि मूर्खोसि त्वं वनेचर ।
बाणश्च मोचितो मेऽद्य त्वदीयश्च कथं पुनः
॥६॥रेखारूपं च पिच्छानि मन्नामांकित एव च ।
त्वदीयश्च कथं जातः स्वभावो दुस्त्यजस्तव
॥७॥नन्दीश्वर उवाच
इत्येवन्तद्वचः श्रुत्वा विहस्य स गणेश्वरः ।
अर्जुनं ऋषिरूपं तं भिल्लो वाक्यमुपाददे
॥८॥तापस श्रूयतां रे त्वं न तपः क्रियते त्वया ।
वेषतश्च तपस्वी त्वं न यथार्थं छलायते
॥९॥तपस्वी च कथं मिथ्या भाषते कुरुते नरः ।
नैकाकिनं च मां त्वं च जानीहि वाहिनीपतिम्
॥१०॥बहुभिर्वनभिल्लैश्च युक्तः स्वामी स आसत ।
समर्थस्सर्वथा कर्तुं विग्रहानुग्रहौ पुनः
॥११॥वर्तते तस्य वाणीयं यो नीतश्च त्वयाधुना ।
अयं बाणश्च ते पार्श्वे न स्थास्यति कदाचन
॥१२॥तपःफलं कथं त्वं च हातुमिच्छसि तापस ।
चौर्य्याच्छलार्द्यमानाच्च विस्मयात्सत्य भञ्जनात्
॥१३॥तपसा क्षीयते सत्यमेतदेव मया श्रुतम् ।
तस्माच्च तपसस्तेद्य भविष्यति फलं कुतः
॥१४॥तस्माच्च मुच्यते बाणात्कृतघ्नस्त्वं भविष्यसि ।
ममैव स्वामिनो बाणस्तवार्थे मोचितो ध्रुवम्
॥१५॥शत्रुश्च मारितस्तेन पुनर्बाणश्च रक्षितः ।
अत्यन्तं च कृतघ्नोसि तपोशुभकरस्तथा
॥१६॥सत्यं न भाषसे त्वं च किमतः सिद्धिमिच्छसि ।
प्रयोजनं चेद्बाणेन स्वामी च याच्यतां मम
॥१७॥ईदृशांश्च बहून्बाणांस्तदा दातुं क्षमः स्वयम् ।
राजा च वर्तते मेऽद्य किं त्वेवं याच्यते त्वया
॥१८॥उपकारं परित्यज्य ह्यपकारं समीहसे ।
नैतद्युक्तं त्वयाद्यैव क्रियते त्यज चापलम्
॥१९॥नन्दीश्वर उवाच
इत्येवं वचनन्तस्य श्रुत्वा पार्थोर्जुनस्तदा ।
क्रोधं कृत्वा शिवं स्मृत्वा मितं वाक्यमथाब्रवीत्
॥२०॥अर्जुन उवाच
शृणु भिल्ल प्रवक्ष्यामि न सत्यं तव भाषणम् ।
यथा जातिस्तथा त्वां च जानामि हि वनेचर
॥२१॥अहं राजा भवांश्चौरः कथं युद्धप्रयुक्तता ।
युद्धं मे सबलैः कार्यं नाधमैर्हि कदाचन
॥२२॥तस्मात्ते च तथा स्वामी भविष्यति भवादृशः ।
दातारश्च वयं प्रोक्ताश्चौरा यूयं वनेचराः
॥२३॥कथं याच्यो मया भिल्लराज एवं च साम्प्रतम् ।
त्वमेव याचसे नैव बाणं मां किं वनेचरः
॥२४॥ददामि ते तथा बाणान्सन्ति मे बहवो ध्रुवम् ।
राजा च ग्रहणं चैव न दास्यति तथा भवेत्
॥२५॥किम्पुनश्च तथा बाणान्प्रयच्छामि वनेचर ।
यदि मे या चिकीर्षा स्यात्कथं नागम्यतेऽधुना
॥२६॥यथागच्छतु ते भर्ता किमर्थं भाषतेऽधुना ।
आगत्य च मया सार्द्धं जित्वा युद्धे च माम्पुनः
॥२७॥नीत्वा बाणमिमं भिल्ल स्वामी ते वाहिनीपतिः ।
निजालयं सुखं यातु विलंबः क्रियते कथम्
॥२८॥नन्दीश्वर उवाच
महेश्वरकृपाप्राप्तसद्बलस्यार्जुनस्य हि ।
इत्येतद्वचनं श्रुत्वा भिल्लो वाक्यमथाब्रवीत्
॥२९॥भिल्ल उवाच
अज्ञोसि त्वं ऋषिर्नासि मरणं त्वीहसे कथम् ।
देहि बाणं सुखन्तिष्ठ त्वन्यथा क्लेशभाग्भवेः
॥३०॥नन्दीश्वर उवाच
इत्युक्तस्तेन भिल्लेन शिवसच्छक्तिशोभिना ।
गणेन पाण्डवस्तं च प्राह स्मृत्वा च शङ्करम्
॥३१॥अर्जुन उवाच
मद्वाक्यन्तत्त्वतो भिल्ल शृणु त्वं च वनेचर ।
आगमिष्यति ते स्वामी दर्शयिष्ये फलन्तदा
॥३२॥न शोभते त्वया युद्धं करिष्ये स्वामिना तव ।
उपहासकरं ज्ञेयं युद्धं सिंहसृगालयोः
॥३३॥श्रुतं च मद्वचस्तेऽद्य द्रक्ष्यसि त्वं महाबलम् ।
गच्छ स्वस्वामिनं भिल्ल यथेच्छसि तथा कुरु
॥३४॥नन्दीश्वर उवाच
इत्युक्तस्तु गतस्तत्र भिल्लः पार्थेन वै मुने ।
शिवावतारो यत्रास्ते किरातो वाहिनीपतिः
॥३५॥अथार्जुनस्य वचनं भिल्लनाथाय विस्तरात् ।
सर्वं निवेदयामास तस्यै भिल्लपरात्मने
॥३६॥स किरातेश्वरः श्रुत्वा तद्वचो हर्षमागतः ।
आजगाम स्वसैन्येन शंकरो भिल्लरूपधृक्
॥३७॥अर्जुनश्च तदा सेनां किरातस्य च पाण्डवः ।
दृष्ट्वा गृहीत्वा सशरन्धनुः सन्मुख आययौ
॥३८॥अथो किरातश्च पुनः प्रेषयामास तं चरम् ।
तन्मुखेन जगौ वाक्यम्भारताय महात्मने
॥३९॥किरात उवाच
पश्य सैन्यं तपस्विस्त्वं मुञ्च बाणं व्रजाधुना ।
मरणं स्वल्पकार्यार्थं कथमिच्छसि साम्प्रतम्
॥४०॥भ्रातरस्तव दुःखार्त्ताः कलत्रं च ततः परम् ।
पृथिवी हस्ततस्तेद्य यास्यतीति मतिर्मम
॥४१॥नन्दीश्वर उवाच
इत्युक्तं परमेशेन पार्थदार्ढ्यपरीक्षया ।
सर्वथार्जुनरक्षार्थं धृतरूपेण शंभुना
॥४२॥इत्युक्तस्तु तदागत्य सगणश्शंकरश्च तत् ।
विस्तराद्वृत्तमखिलमर्जुनाय न्यवेदयत्
॥४३॥तच्छ्रुत्वा तु पुनः प्राह प्रार्थस्तं दूतमागतम् ।
वाहिनीपतये वाच्यम्विपरीतम्भविष्यति
॥४४॥यद्यहं चैव ते बाणं यच्छामि च मदीयकम् ।
कुलस्य दूषणं चाहं भविष्यामि न संशयः
॥४५॥भ्रातरश्चैव दुखार्ताः भवन्तु च तथा ध्रुवम् ।
विद्याश्च निष्फलाः स्युस्तास्तस्मादागच्छ वै ध्रुवम्
॥४६॥सिंहश्चैव शृगालाद्वा भीतो नैव मया श्रुतः ।
तथा वनेचराद्राजा न बिभेति कदाचन
॥४७॥नन्दीश्वर उवाच
इत्युक्तस्तं पुनर्गत्वा स्वामिनं पाण्डवेन सः ।
सर्वं निवेदयामास तदुक्तं हि विशेषतः
॥४८॥अथ सोपि किराताह्वो महादेवस्ससैन्यकः ।
तच्छ्रुत्वा सैन्यसंयुक्तो ह्यर्जुनं चागमत्तदा
॥४९॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायाम किरातावतारवर्णने भिल्लार्जुनसंवादोनाम चत्वारिंशोऽध्यायः ॥ ४० ॥