मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय २८

3
शतरुद्रसंहिता · 28

शृणु प्राज्ञ प्रवक्ष्यामि शिवस्य परमात्मनः

नन्दीश्वर उवाच

शृणु प्राज्ञ प्रवक्ष्यामि शिवस्य परमात्मनः ।

अवतारं पुरानन्दं यातिनाथाह्वयं मुने

॥१॥

अर्बुदाचलसंज्ञे तु पर्वते भिल्लवंशजः ।

आहुकश्च तदभ्याशे वसतिस्म मुनीश्वर

॥२॥

तत्पत्नी ह्याहुका नाम बभूव किल सुव्रता ।

उभावपि महाशैवावास्तान्तौ शिवपूजकौ

॥३॥

कस्मिंश्चित्समये भिल्लः शिवभक्तिरतः सदा ।

आहारार्थं स्वपत्न्याश्च सुदूरं स गतो मुने

॥४॥

एतस्मिन्नन्तरे तत्र गेहे भिल्लस्य शङ्करः ।

भूत्वा यतिवपुः सायं परीक्षार्थं समाययौ

॥५॥

तस्मिन्नवसरे तत्राजगाम स गृहाधिपः ।

पूजनं च यतीशस्य चकार प्रेमतः सुधीः

॥६॥

तद्भावस्य परीक्षार्थं यतिरूपस्स शंकरः ।

महालीलातरः प्रीत्या भीतं प्रोवाच दीनगीः

॥७॥

यतिनाथ उवाच

अद्य स्थलं निवासार्थं देहि मे प्रातरेव हि ।

यास्यामि सर्वथा भिल्ल स्वस्ति स्यात्तव सर्वदा

॥८॥

भिल्ल उवाच

त्यम्प्रोक्तं त्वया स्वामिञ्शृणु मद्वचनं च ते ।

अति स्वल्पं स्थलं मे हि स्यान्निवासः कथन्तव

॥९॥

नन्दीश्वर उवाच

इत्युक्तस्स यतिस्तेन गमनाय मतिन्दधे ।

तावद्भिल्ल्या वचः प्रोक्तं स्वामिनं संविचार्य्य वै

॥१०॥

भिल्ल्युवाच

स्वामिन्देहि यतेःस्थानं विमुखं कुरु मातिथिम् ।

गृहधर्मं विचार्य्य त्वमन्यथा धर्मसंक्षयः

॥११॥

स्थीयतान्ते गृहाभ्यंतः सुखेन यतिना सह ।

अहं बहिः स्थितिं कुर्य्यामायुधानि बृहन्त्यपि

॥१२॥

नन्दीश्वर उवाच

तस्यास्तद्वचनं श्रुत्वा भिल्ल्या धर्मान्वितं शिवम् ।

स्वपत्न्या मनसा तेन भिल्लेन च विचारितम्

॥१३॥

स्त्रियं बहिश्च निष्कास्य कथं स्थेयं मया बहे ।

यतेरन्यत्र गमनमधर्म्मकरमात्मनः

॥१४॥

द्वयमप्युचितं नैव सर्वथा गृहमेधिनः ।

यद्भावि तद्भवेदेव मया स्थेयं गृहाद्बहिः

॥१५॥

इत्याग्रहन्तदा कृत्वा गृहान्तः स्थाय तौ मुदा ।

स्वायुधानि च संस्थाप्य भिल्लोऽतिष्ठद्गृहाद्बहिः

॥१६॥

रात्रौ तम्पशवः क्रूरा हिंसकाः समपीडयन् ।

तेनापि च यथाशक्ति कृतो यत्नो महांस्तदा

॥१७॥

एवं यत्नं प्रकुर्वाण स भिल्लो बलवानपि ।

प्रारब्धात्प्रेरितैर्हिंस्रैर्बलादासीच्च भक्षितः

॥१८॥

प्रातरुत्थाय स यतिर्दृष्ट्वा हिंस्रैश्च भक्षितम् ।

भिल्लं वने चरंतं वै दुःखितोऽभूदतीव हि

॥१९॥

दुखितं तं यतिन्दृष्ट्वा भिल्ली सा दुःखितापि हि ।

धैर्यात्स्वदुःखं संहृत्य वचनं चेदमब्रवीत्

॥२०॥

भिल्ल्युवाच

किमर्थं क्रियते दुःखं भद्रं जातं यतेऽधुना ।

धन्योयं कृतकृत्यश्च यज्जातो मृत्युरीदृशः

॥२१॥

अहं चैनं गमिष्यामि भस्म भूत्वानले यते ।

चितां कारय सुप्रीत्या स्त्रीणां धर्मः सनातनः

॥२२॥

इति तद्वचनं श्रुत्वा हितं मत्वा स्वयं यतिः ।

चितां व्यरचयत्सा हि प्रविवेश स्वधर्मतः

॥२३॥

एतस्मिन्नन्तरे साक्षात्पुरः प्रादुरभूच्छिवः ।

धन्ये धन्ये इति प्रीत्या प्रशंसस्तां हरोऽब्रवीत्

॥२४॥

हर उवाच

वरं ब्रूहि प्रसन्नोस्मि त्वदाचरणतोऽनघे ।

तवादेयं न वै किंचिद्वश्योऽहं ते विशेषतः

॥२५॥

नन्दीश्वर उवाच

तच्छुत्वा शम्भुवचनं परमानन्ददायकम् ।

सुखं प्राप्तं विशेषेण न किंचित्स्मरणं ययौ

॥२६॥

तस्यास्तद्गतिमालक्ष्य सुप्रसन्नो हरोऽभवत् ।

उवाच च पुनः शम्भुर्वरं ब्रूहीति ताम्प्रभुः

॥२७॥

शिव उवाच

अयं यतिश्च मद्रूपो हंसरूपो भविष्यति ।

परजन्मनि वां प्रीत्या संयोग कारयिष्यति ।

भिल्लश्च वीरसेनस्य नैषधे नगरे वरे ।

महान्पुत्रो नलो नाम भविष्यति न संशयः

॥२९॥

त्वं सुता भीमराजस्य वैदर्भे नगरेऽनघे ।

दमयन्ती च विख्याता भविष्यसि गुणान्विता

॥३०॥

युवां चोभौ मिलित्वा च राजभोगं सुविस्तरम् ।

भुक्त्वा मुक्तिं च योगीन्द्रेर्लप्स्येथे दुर्लभां ध्रुवम्

॥३१॥

नन्दीश्वर उवाच

इत्युक्त्वा च स्वयं शम्भुर्लिङ्गरूपोऽभवत्तदा ।

तस्मान्न चलितो धर्मादचलेश इति स्मृतः

॥३२॥

स भिल्ल आहुकश्चापि वीरसेनसुतोऽभवत् ।

नैषधे नगरे तात नलनामा महानृपः

॥३३॥

आहुका सा महाभिल्ली भीमस्य तनयाऽभवत् ।

वैदर्भे नगरे राज्ञो दमयन्तीति विश्रुता

॥३४॥

यतिनाथाह्वयस्सोपि हंसरूपोऽभवच्छिवः ।

विवाहं कारयामास दमयन्त्या नलेन वै

॥३५॥

पूर्वसत्काररूपेण महापुण्येन शंकरः ।

हंसरूपं विधायैव ताभ्यां सुखमदात्प्रभुः

॥३६॥

शिवो हंसावतारो हि नानावार्ताविचक्षणः ।

दमयन्त्या नलस्यापि परमानन्ददायकः

॥३७॥

इदं चरितं परमं पवित्रं शिवावतारस्य पवित्रकीर्तेः ।

यतीशसंज्ञस्य महाद्भुतं हि हंसाह्वयस्यापि विमुक्तिदं हि

॥३८॥

यतीशब्रह्महंसाख्यावतारचरितं शुभम् ।

शृणुयाच्छ्रावयेद्यो हि स लभेत परां गतिम्

॥३९॥

इदमाख्यानमनघं सर्वकामफलप्रदम् ।

स्वर्ग्यं यशस्यमायुष्यं भक्तिवर्धनमुत्तमम्

॥४०॥

श्रुत्वैतच्चचरितं शम्भोर्यतिहंसस्वरूपयोः ।

इह सर्वसुखम्भुक्त्वा सोऽन्ते शिवपुरं व्रजेत्

॥४१॥

इति श्रीशिवमहापुराणे तृ० शतरुद्रसंहि० यतिनाथब्रह्महंसाह्वयशिवावतारचरितवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥