मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय ३२

3
शतरुद्रसंहिता · 32

शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः

शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ।

सुरेश्वरावतारस्ते धौम्याग्रज हितावहम्

॥१॥

व्याघ्रपादसुतो धीमानुपमन्युस्सताम्प्रियः ।

जन्मान्तरेण संसिद्धः प्राप्तो मुनिकुमारताम्

॥२॥

उवास मातुलगृहे स मात्रा शिशुरे व हि ।

उपमन्युर्व्याघ्रपादिस्स्याद्दरिद्रश्च दैवतः

॥३॥

कदाचित्क्षीरमत्यल्पम्पीतवान्मातुलाश्रमे ।

ययाचे मातरम्प्रीत्या बहुशो दुग्ध लालसः

॥४॥

तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी ।

सांतः प्रविश्याथ तदा शुभोपायमरीरचत्

॥५॥

उञ्छवृत्त्यर्जितान्बीजान्पिष्ट्वालोड्य जलेन तान् ।

उपलाल्य सुतन्तस्मै सा ददौ कृत्रिमम्पयः

॥६॥

पीत्वा च कृत्रिमं दुग्धं मात्रा दत्तं स बालकः ।

नैतत्क्षीरमिति प्राह मातरं चारुदत्पुनः

॥७॥

श्रुत्वा सुतस्य रुदितं प्राह सा दुःखिता सुतम ।

संमार्ज्य नेत्रे पुत्रस्य कराभ्यां कमलाकृतिः

॥८॥

मातोवाच

क्षीरमत्र कुतोऽस्माकं वने निवसतां सदा ।

प्रसादेन विना शम्भोः पयः प्राप्तिर्भवेन्नहि

॥९॥

पूर्वजन्मनि यत्कृत्यं शिवमु द्दिश्य हे सुत ।

तदेव लभ्यते नूनन्नात्र कार्या विचारणा ।

इति मातृवचश्श्रुन्वा व्याघ्रपादिस्स बालकः ।

प्रत्युवाच विशोकात्मा मातरं मातृवत्सलः

॥११॥

शोकेनालमिमं मातः शंभुर्यद्यस्ति शङ्करः ।

त्यज शोकं महाभागे सर्वं भद्रम्भविष्यति

॥१२॥

शृणु मातर्वचो मेऽयमहादेवोऽस्ति चेत्क्वचित् ।

चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम्

॥१३॥

नन्दीश्वर उवाच

इत्युक्त्वा स शिशुः प्रीत्या शिवं मेऽस्त्वित्युदीर्य्य च ।

विसृज्य तां सुप्रणम्य तपः कर्त्तुं प्रचक्रमे

॥१४॥

हिमवत्पर्वतगतः वायुभक्षस्समाहितः ।

अष्टेष्टकाभिः प्रासादं कृत्वा लिंगं च मृन्मयम्

॥१५॥

तत्रावाह्य शिवं साम्बं भक्त्या पञ्चाक्षरेण ह ।

पत्रपुष्पादिभिर्वन्यैस्समानर्च शिशुः स वै

॥१६॥

ध्यात्वा शिवं च तं साम्बं जपन्पञ्चाक्षरम्मनुम् ।

समभ्यर्च्य चिरं कालं चचार परमन्तपः

॥१७॥

तपसा तस्य बालस्य ह्युपमन्योर्महात्मनः ।

चराचरं च भुवनं प्रदीपितमभून्मुने

॥१८॥

एतस्मिन्नन्तरे शंभुर्विष्ण्वाद्यैः प्रार्थितः प्रभुः ।

परीक्षितुं च तद्भक्तिं शक्ररूपोऽभवत्तदा

॥१९॥

शिवा शचीस्वरूपाभूद्गणाः सर्वेऽभवन्सुराः ।

ऐरावतगजो नन्दी सर्वमेव च तन्मयम्

॥२०॥

ततः साम्बः शिवः शक्रस्वरूपस्सगणो द्रुतम् ।

जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ।

परीक्षितुं च तद्भक्तिं शक्ररूपधरो हरः ।

प्राह गंभीरया वाचा बालकन्तं मुनीश्वर

॥२२॥

सुरेश्वर उवाच

तुष्टोऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ।

ददामि चेच्छितान्कामान्सर्वान्नात्रास्ति संशयः

॥२३॥

एवमुक्तः स वै तेन शक्ररूपेण शम्भुना ।

वरयामि शिवे भक्तिमित्युवाच कृताञ्जलि

॥२४॥

तन्निशम्य हरिः प्राह मां न जानासि लेखपम् ।

त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम्

॥२५॥

मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ।

ददामि सर्वं भद्रन्ते त्यज रुद्रं च निर्गुणम्

॥२६॥

रुद्रेण निर्गुणेनालं किन्ते कार्यं भविष्यति ।

देवजातिबहिर्भूतो यः पिशाचत्वमागतः

॥२७॥

नन्दीश्वर उवाच

तच्छ्रुत्वा स मुनेः पुत्रो जपन्पञ्चाक्षरम्मनुम् ।

मन्यमानो धर्मविघ्नम्प्राह तं कर्तुमागतम्

॥२८॥

उपमन्युरुवाच

त्वयैवं कथितं सर्वं भवनिन्दा रतेन वैः ।

प्रसंगाद्देवदेवस्य निर्गुणत्वं पिशाचता

॥२९॥

त्वं न जानासि वै रुद्रं सर्वदेवेश्वरेश्वरम् ।

ब्रह्मविष्णुमहेशानां जनकम्प्रकृतेः परम्

॥३०॥

सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ।

नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम्

॥३१॥

हेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम् ।

यमुशन्ति हि तत्त्वज्ञा वरन्तस्माद्वृणोम्यहम्

॥३२॥

नास्ति शम्भोः परन्तत्त्वं सर्वकारणकारणात् ।

ब्रह्मविष्ण्वादि देवानां श्रेष्ठाद्गणपराद्विभोः

॥३३॥

नाहं वृणे वरं त्वत्तो न विष्णोर्ब्रह्मणोऽपि वा ।

नान्यस्मादमराद्वापि शङ्करो वरदोऽस्तु मे

॥३४॥

बहुनात्र किमुक्तेन वच्मि तत्त्वं मतं स्वकम् ।

न प्रार्थये पशुपतेरन्यं देवादिकं स्फुटम्

॥३५॥

मद्भावं शृणु गोत्रारे मयाद्यानुमितन्त्विदम् ।

भवान्तरे कृतं पापं श्रुता निन्दा भवस्य चेत्

॥३६॥

श्रुत्वा निन्दाम्भवस्याथ तत्क्षणादेव संत्यजेत् ।

स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति

॥३७॥

आस्तां तावन्ममेच्छेयं क्षीरम्प्रति सुराधम ।

निहत्य त्वां शिवास्त्रेण त्यजाम्येतत्कलेवरम्

॥३८॥

नन्दीश्वर उवाच

एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितः स्वयम् ।

क्षीरे वाच्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः

॥३९॥

भस्मादाय तदाधारादघोस्त्राभिमन्त्रितम् ।

विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा

॥४०॥

स्मृत्वा स्वेष्टपदद्वन्द्वं स्वदेहं दग्धुमुद्यतः ।

आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः

॥४१॥

एवं व्यवसिते विप्रे भगवाञ्छक्ररूपवान् ।

वारयामास सौम्येन धारणान्तस्य योगिनः

॥४२॥

तद्विसृष्टमघोरास्त्रं नन्दीश्वरनियो गतः ।

जगृहे मन्यतः क्षिप्तं नन्दी शंकरवल्लभम्

॥४३॥

स्वरूपमेव भगवानास्थाय परमेश्वरः ।

दर्शयामास विप्राय बालेन्दु कृतशेखरम्

॥४४॥

क्षीरार्णवसहस्र्ं च दध्यादेवरर्णवन्तथा ।

भक्ष्यभोज्यार्णवन्तस्मै दर्शयामास स प्रभुः

॥४५॥

एवं स ददृशे शम्भुदेव्या सार्द्धं वृषोपरि ।

गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः

॥४६॥

दिवि दुन्दुभयो नेदु पुष्पवृष्टिः पपात ह ।

विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश

॥४७॥

अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ।

पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा

॥४८॥

एतस्मिन्समये तत्र सस्मितो भगवान्भवः ।

एह्येहीति समाहूय मूर्ध्न्याघ्राय ददौ वरान्

॥४९॥

शिव उवाच

वत्सोपमन्यो तुष्टोऽस्मि त्वदाचरणतो वरात् ।

दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितोऽधुना

॥५०॥

भक्ष्यभोगान्यथाकामं बान्धवैर्भुंक्ष्व सर्वदा ।

सुखी भव सदा दुःखनिर्मुक्तो भक्तिमान्मम

॥५१॥

उपमन्यो महाभाग तवाम्बैषा हि पार्वती ।

मया पुत्रीकृतो ह्यद्य कुमारत्वं सनातनम्

॥५२॥

दुग्धदध्याज्यमधुनामर्णवाश्च सहस्रशः ।

भक्ष्यभोज्यादिवस्तूनामर्णवाश्चाखिला स्तथा

॥५३॥

तुभ्यं दत्ता मया प्रीत्या त्वं गृह्णीष्व महामुने ।

अमरत्वन्तथा दक्ष गाणपत्यं च शाश्वतम्

॥५४॥

पिताहन्ते महादेवो माता ते जगदम्बिका ।

वरान्वरय सुप्रीत्या मनोभिलषितान्परान्

॥५५॥

अजरश्चामरश्चैव भव त्वं दुःखवर्जित ।

यशस्वी वरतेजस्वी दित्त्वज्ञानी महाप्रभुः

॥५६॥

अथ शम्भुः प्रसन्नात्मा स्मृत्वा तस्य तपो महत् ।

पुनर्दश वरान्दिव्यान्मुनये हयूपमन्यवे

॥५७॥

व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ।

ददौ तस्मै प्रवक्तृत्वं पाटवं च निजं पदम्ं

॥५८॥

एवन्दत्त्वा महादेवः कराभ्यामुपगृह्य तम् ।

मूर्ध्न्याघ्राय सुतस्तेऽयमिति देव्यै न्यवेदयत्

॥५९॥

देवी च शृण्वती प्रीत्या मूर्ध्निदेशे कराम्बुजम् ।

विन्यस्य प्रददौ तस्मै कुमारपदमक्षयम्

॥६०॥

क्षीराब्धिमपि साकारं क्षीरस्वादुकरोदधिः ।

उपास्थाय ददौ तस्मै पिण्डीभूतमनश्वरम्

॥६१॥

योगैश्वर्य्यं सदा तुष्टम्ब्रह्मविद्यामनश्वराम् ।

समृद्धिं परमान्तस्मै ददौ सन्तुष्टमानसः

॥६२॥

सोऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा ।

तस्माच्छिवाच्च तस्याश्च शिवाया मुदितोऽभवत्

॥६३॥

ततः प्रसन्नचेतस्कः सुप्रणम्य कृताञ्जलिः ।

ययाचे स वरं प्रीत्या देवदेवान्महे श्वरात्

॥६४॥

उपमन्युरुवाच

प्रसीद देवदेवेश प्रसीद परमेश्वर ।

स्वभक्तिन्देहि परमां दिव्यामव्यभिचारिणीम्

॥६५॥

श्रद्धान्देहि महादेव स्वसंबन्धिषु मे सदा ।

स्वदास्यं परमं स्नेहं स्वसान्निध्यं च सर्वदा

॥६६॥

नन्दीश्वर उवाच

एवमुक्त्वा प्रसन्नात्मा हर्षगद्गदया गिरा ।

तुष्टाव स महादेवमुपमन्युर्द्विजोत्तमः

॥६७॥

एवमुक्तश्शिवस्तेन सर्वेषां शृण्वताम्प्रभुः ।

प्रत्युवाच प्रसन्नात्मोपमन्युं सकलेश्वरः

॥६८॥

शिव उवाच

वत्सोपमन्यो धन्यस्त्वं मम भक्तो विशेषतः ।

सर्वन्दत्तम्मया ते हि यद्वृ क्त्तम्भवतानघ

॥६९॥

अजरश्चामरश्च त्वं सर्वदा दुःखवर्जित ।

सर्वपूज्यो निर्विकारी भक्तानाम्प्रवरो भव

॥७०॥

अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ।

भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती

॥७१॥

सान्निध्यं चाश्रये नित्यं करिष्यामि मुने तव ।

तिष्ठ वत्स यथा कामं नोत्कण्ठां च करिष्यसि

॥७२॥

नन्दीश्वर उवाच

एवमुक्त्वा स भगवांस्तस्मै दत्त्वा वरान्वरान् ।

सांबश्च सगणस्सद्यस्तत्रैवान्तर्दधे प्रभुः

॥७३॥

उपमन्युः प्रसन्नात्मा प्राप्य शम्भोर्वरान्वरान् ।

जगाम जननीस्थानं मात्रे सर्वम वर्णयत्

॥७४॥

तच्छ्रुत्वा तस्य जननी महाहर्षमवाप सा ।

सर्वपूज्वोऽभवत्सोऽपि सुखं प्रापाधिकं सदा

॥७५॥

इत्थन्ते वर्णितस्तात शिवस्य परमात्मनः ।

सुरेश्वरावतारो हि सर्वदा सुखदः सताम्

॥७६॥

इदमाख्यानमनघं सर्वकामफलप्रदम् ।

स्वर्ग्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम्

॥७७॥

य एतच्छृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।

इह सर्वसुखं भुक्त्वा सोऽन्ते शिवगतिं लभेत्

॥७८॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सुरेश्वराख्यशिवावतारचरितवर्णनं नाम द्वात्रिंशो ध्यायः ॥ ३२ ॥

(८३)